॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

द्वात्रिंशोऽध्यायः ॥

वीरभद्रोत्पत्तिः शिवोपदेशश्च


नारद उवाच
श्रुत्वा व्योमगिरं दक्षः किमकार्षीत्तदाऽबुधः ।
अन्ये च कृतवन्तः किं ततश्च किमभूद्वद ॥ १ ॥
पराजिताः शिवगणा भृगुमन्त्रबलेन वै ।
किमकार्षुः कुत्र गतास्तत्त्वं वद महामते ॥ २ ॥
ब्रह्मोवाच
श्रुत्वा व्योमगिरं सर्वे विस्मिताश्च सुरादयः ।
नावोचत्किञ्चिदपि ते तिष्ठन्तस्तु विमोहिताः ॥ ३ ॥
पलायमाना ये वीरा भृगुमन्त्रबलेन ते ।
अवशिष्टाः शिवगणाः शिवं शरणमाययुः ॥ ४ ॥
सर्वं निवेदयामासू रुद्रायामिततेजसे ।
चरित्रं च तथाभूतं सुप्रणम्यादराच्च ते ॥ ५ ॥
गणा ऊचुः
देवदेव महादेव पाहि नः शरणागतान् ।
संशृण्वादरतो नाथ सती वार्तां च विस्तरात् ॥ ६ ॥
गर्वितेन महेशान दक्षेण सुदुरात्मना ।
अपमानः कृतःसत्याऽनादरो निर्जरैस्तथा ॥ ७ ॥
तुभ्यं भागमदान्नः स देवेभ्यश्च प्रदत्तवान् ।
दुर्वचांस्यवदत्प्रोच्चैर्दुष्टो दक्षःसुगर्वितः ॥ ८ ॥
ततो दृष्ट्‍वा न ते भागं यज्ञेऽकुप्यत्सती प्रभो ।
विनिन्द्य बहुशस्तातमधाक्षीत्स्वतनुं तदा ॥ ९ ॥
गणास्त्वयुतसङ्‌ख्याका मृतास्तत्र विलज्जया ।
स्वाङ्‌गान्याछिद्य शस्त्रैश्च क्रुध्याम ह्यपरे वयम् ॥ १० ॥
तद्यज्ञे ध्वंसितुं वेगात्सन्नद्धास्तु भयावहाः ।
तिरस्कृता हि भृगुणा स्वप्रभावाद्विरोधिना ॥ ११ ॥
ते वयं शरणं प्राप्तास्तव विश्वम्भर प्रभो ।
निर्भयान् कुरु नस्तस्माद्दयमान भवाद्‌भयात् ॥ १२ ॥
अपमानं विशेषेण तस्मिन् यज्ञे महाप्रभो ।
दक्षाद्यास्तेऽखिला दुष्टा अकुर्वन् गर्विता अति ॥ १३ ॥
इत्युक्तं निखिलं वृत्तं स्वेषां सत्याश्च नारद ।
तेषां च मूढबुद्धीनां यथेच्छसि तथा कुरु ॥ १४ ॥
ब्रह्मोवाच
इत्याकर्ण्यवचस्तस्य स्वगणानां वचः प्रभुः ।
सस्मार नारदं सर्वं ज्ञातुं तच्चरितं लघु ॥ १५ ॥
आगतस्त्वं द्रुतं तत्र देवर्षे दिव्यदर्शन ।
प्रणम्य शंकरं भक्त्या साञ्जलिस्तत्र तस्थिवान् ॥ १६ ॥
त्वां प्रशस्याथ स स्वामी सत्या वार्त्तां च पृष्टवान् ।
दक्षयज्ञगताया वै परं च चरितं तथा ॥ १७ ॥
पृष्टेन शम्भुना तात त्वयाऽऽश्वेव शिवात्मना ।
तत्सर्वं कथितं वृतं जातं दक्षाध्वरे हि यत् ॥ १८ ॥
तदाकर्ण्येश्वरो वाक्यं मुने तत्त्वमुखोदितम् ।
चुकोपातिद्रुतं रुद्रो महारौद्रपराक्रमः ॥ १९ ॥
उत्पाट्यैकां जटां रुद्रो लोकसंहारकारकः ।
आस्फालयामास रुषा पर्वतस्य तदोपरि ॥ २० ॥
तोदनाच्च द्विधा भूता सा जटा च मुने प्रभोः ।
सम्बभूव महारावो महाप्रलयभीषणः ॥ २१ ॥
तज्जटायाः समुद्‌भूतो वीरभद्रो महाबलः ।
पूर्वभागेन देवर्षे महाभीमो गणाग्रणीः ॥ २२ ॥
स भूमिं विश्वतो वृत्य चात्यतिष्ठद्दशाङ्‌गुलम् ।
प्रलयानलसङ्‌काशः प्रोन्नतो दोःसहस्रवान् ॥ २३ ॥
कोपनिश्वासतस्तत्र महारुद्रस्य चेशितुः ।
जातं ज्वराणां शतकं संनिपातास्त्रयोदश ॥ २४ ॥
महाकाली समुत्पन्ना तज्जटापरभागतः ।
महाभयङ्‌करा तात भूतकोटिभिरावृता ॥ २५ ॥
सर्वे मूर्त्तिधराः क्रूराः ज्वरा लोकभयङ्‌कराः ।
स्वतेजसा प्रज्वलन्तो दहन्त इव सर्वतः ॥ २६ ॥
अथ वीरो वीरभद्रः प्रणम्य परमेश्वरम् ।
कृताञ्जलिपुटः प्राह वाक्यं वाक्यविशारदः ॥ २७ ॥
वीरभद्र उवाच
महारुद्र महारौद्र सोमसूर्याग्निलोचन ।
किं कर्तव्यं मया कार्यं शीघ्रमाज्ञापय प्रभो ॥ २८ ॥
शोषणीयाः किमीशान क्षणार्द्धेनैव सिन्धवः ।
पेषणीयाः किमीशान क्षणार्द्धेनैव पर्वताः ॥ २९ ॥
क्षणेन भस्मसात्कुर्यां ब्रह्माण्डमुत किं हर ।
क्षणेन भस्मसात्कुर्यां सुरान्वा किं मुनीश्वरान् ॥ ३० ॥
व्याश्वासः सर्वलोकानां किमु चार्यो हि शंकर ।
कर्तव्यं किमुतेशान सर्वप्राणिविहिंसनम् ॥ ३१ ॥
ममाशक्यं न कुत्रापि त्वत्प्रसादान्महेश्वर ।
पराक्रमेण मत्तुल्यो न भूतो न भविष्यति ॥ ३२ ॥
यत्र यत्कार्यमुद्दिश्य प्रेषयिष्यसि मां प्रभो ।
तत्कार्यं साधयाम्येव सत्वरं त्वत्प्रसादतः ॥ ३३ ॥
क्षुद्रास्तरन्ति लोकाब्धिं शासनाच्छङ्‌करस्य ते ।
हरातोऽहं न किं तर्तुं महापत्सागरं क्षमः ॥ ३४ ॥
त्वत्प्रेषिततृणेनापि महत्कार्यमयत्नतः ।
क्षणेन शक्यते कर्तुं शंकरात्र न संशयः ॥ ३५ ॥
लीलामात्रेण ते शम्भो कार्यं यद्यपि सिद्ध्यति ।
तथाप्यहं प्रेषणीयस्तवैवानुग्रहो ह्ययम् ॥ ३६ ॥
शक्तिरेतादृशी शम्भो ममापि त्वदनुग्रहात् ।
विना शक्तिर्न कस्यापि शंकर त्वदनुग्रहात् ॥ ३७ ॥
त्वदाज्ञया विना कोपि तृणादीनपि वस्तुतः ।
नैव चालयितुं शक्तः सत्यमेतन्न संशयः ॥ ३८ ॥
शम्भो नियम्याः सर्वेऽपि देवाद्यास्ते महेश्वर ।
तथैवाहं नियम्यस्ते नियन्तुःसर्वदेहिनाम् ॥ ३९ ॥
प्रणतोस्मि महादेव भूयोपि प्रणतोस्म्यहम् ।
प्रेषय स्वेष्ट सिद्ध्यर्थं मामद्य हर सत्वरम् ॥ ४० ॥
स्पन्दोपि जायते शम्भो सव्याङ्‌गानां मुहुर्मुहुः ।
भविष्यत्यद्य विजयो मामतः प्रेषय प्रभो ॥ ४१ ॥
हर्षोत्साहविशेषोऽपि जायते मम कश्चन ।
शम्भो त्वत्पादकमले संसक्तश्च मनो मम ॥ ४२ ॥
भविष्यत्यति प्रतिपदं शुभसन्तानसन्ततिः ॥ ४३ ॥
तस्यैव विजयो नित्यं तस्यैव शुभमन्वहम् ।
यस्य शम्भौ दृढा भक्तिस्त्वयि शोभनसंश्रये ॥ ४४ ॥
ब्रह्मोवाच
इत्युक्तं तद्वचः श्रुत्वा सन्तुष्टो मंगलापतिः ।
वीरभद्र जयेति त्वं प्रोक्ताशीः प्राह तं पुनः ॥ ४५ ॥
महेश्वर उवाच
शृणु मद्वचनं तात वीरभद्र सुचेतसा ।
करणीयं प्रयत्नेन तद्द्रुतं मे प्रतोषकम् ॥ ४६ ॥
यागं कर्तुं समुद्युक्तो दक्षो विधिसुतः खलः ।
मद्विरोधी विशेषेण महागर्वोऽबुधोऽधुना ॥ ४७ ॥
तन्मखं भस्मसात्कृत्वा सयागपरिवारकम् ।
पुनरायाहि मत्स्थानं सत्वरं गणसत्तम ॥ ४८ ॥
सुरा भवन्तु गन्धर्वा यक्षा वान्ये च केचन ।
तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम् ॥ ४९ ॥
तत्रास्तु विष्णुर्ब्रह्मा वा शचीशो वा यमोऽपि वा ।
अपि चाद्यैव तान्सर्वान्पातयस्व प्रयत्नतः ॥ ५० ॥
सुरा भवन्तु गन्धर्वा यक्षा वान्ये च केचन ।
तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम् ॥ ५१ ॥
दधीचिकृतमुल्लङ्‌घ्य शपथं मयि तत्र ये ।
तिष्ठन्ति ते प्रयत्नेन ज्वालनीयास्त्वया ध्रुवम् ॥ ५२ ॥
प्रमथाश्चागमिष्यन्ति यदि विष्ण्वादयो भ्रमात् ।
नानाकर्षणमन्त्रेण ज्वालयानीय सत्वरम् ॥ ५३ ॥
ये तत्रोल्लङ्‌घ्य शपथं मदीयं गर्विताः स्थिताः ।
ते हि मद्द्रोहिणोऽतस्तान् ज्वालयानलमालया ॥ ५४ ॥
पत्नीकानससारांश्च दक्षयागस्थलस्थितान् ।
प्रज्वाल्य भस्मसात्कृत्वा पुनरायाहि सत्वरम् ॥ ५५ ॥
तत्र त्वयि गते देवा विश्वाद्या अपि सादरम् ।
स्तोष्यन्ति त्वां तदाप्याशु ज्वालया ज्वालयैव तान् ॥ ५६ ॥
देवानपि कृतद्रोहान् ज्वालामालासमाकुलैः ।
ज्वालय ज्वलनैः शीघ्रं माध्यायाध्यायपालकम् ॥ ५७ ॥
दक्षादीन्सकलांस्तत्र सपत्नीकान्सबान्धवान् ।
प्रज्वाल्य वीर दक्षं नु सलीलं सलिलं पिब ॥ ५८ ॥
ब्रह्मोवाच
इत्युक्तो रोषताम्राक्षो वेदमर्यादपालकः ।
विरराम महावीरं कालारिः सकलेश्वरः ॥ ५९ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे वीरभद्रोत्पत्तिशिवोपदेशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP