॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

द्वादशोऽध्यायः ॥

दक्षवरप्राप्तिः


नारद उवाच
ब्रह्मन् शम्भुवर प्राज्ञ सम्यगुक्तं त्वयानघ ।
शिवाशिवचरित्रं च पावितं जन्म मे हि तत् ॥ १ ॥
इदानीं वद दक्षस्तु तपः कृत्वा दृढव्रतः ।
कं वरं प्राप देव्यास्तु कथं सा दक्षजाऽभवत् ॥ २ ॥
ब्रह्मोवाच
शृणु नारद धन्यस्त्वं मुनिभिर्भक्तितोऽखिलैः ।
यथा तेपे तपो दक्षो वरं प्राप च सुव्रतः ॥ ३ ॥
मदाज्ञप्तः सुधीर्दक्षः समाधाय महाधिपः ।
अपाद्यष्टुं च तां देवीं तत्कामो जगदम्बिकाम् ॥ ४ ॥
क्षीरोदोत्तरतीरस्थां तां कृत्वा हृदयस्थिताम् ।
तपस्तप्तुं समारेभे द्रुष्टुं प्रत्यक्षतोऽम्बिकाम् ॥ ५ ॥
दिव्यवर्षेण दक्षस्तु सहस्राणां त्रयं समाः ।
तपश्चचार नियतः संयतात्मा दृढव्रतः ॥ ६ ॥
मारुताशी निराहारो जलाहारी च पर्णभुक् ।
एवं निनाय तं कालं चिन्तयन्तां जगन्मयीम् ॥ ७ ॥
दुर्गाध्यानसमासक्तश्चिरं कालं तपोरतः ।
नियमैर्बहुभिर्देवीमाराधयति सुव्रतः ॥ ८ ॥
ततो यमादियुक्तस्य दक्षस्य मुनिसत्तम ।
जगदम्बा पूजयतः प्रत्यक्षमभवच्छिवा ॥ ९ ॥
ततः प्रत्यक्षतो दृष्ट्‍वा जगदम्बां जगन्मयीम् ।
कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः ॥ १० ॥
सिंहस्थां कालिकां कृष्णां चारुवक्त्रां चतुर्भुजाम् ।
वरदाभयनीलाब्जखड्गहस्तां मनोहराम् ॥ ११ ॥
आरक्तनयनां चारुमुक्तकेशीं जगत्प्रसूम् ।
तुष्टाव वाग्भिश्चित्राभिः सुप्रणम्याथ सुप्रभाम् । १२ ॥
दक्ष उवाच
जगदेव महामाये जगदीशे महेश्वरि ।
कृपां कृत्वा नमस्तेऽस्तु दर्शितं स्ववपुर्मम ॥ १३ ॥
प्रसीद भगवत्याद्ये प्रसीद शिवरूपिणम् ।
प्रसीद भक्तवरदे जगन्माये नमोऽस्तु ते ॥ १४ ॥
ब्रह्मोवाच
इति स्तुता महेशानी दक्षेण प्रयतात्मना ।
उवाच दक्षं ज्ञात्वाऽपि स्वयं तस्येप्सितं मुने ॥ १५ ॥
देव्युवाच
तुष्टाहं दक्ष भवतःसद्‌भक्त्या ह्यनया भृशम् ।
वरं वृणीष्व स्वाभीष्टं नादेयं विद्यते तव ॥ १६ ॥
ब्रह्मोवाच
जगदम्बावचः श्रुत्वा ततो दक्षः प्रजापतिः ।
सुप्रहृष्टतरः प्राह नामं नामं च तां शिवाम् ॥ १७ ॥
दक्ष उवाच
जगदम्बा महामाये यदि त्वं वरदा मम ।
मद्वचः शृणु सुप्रीत्या मम कामं प्रपूरय ॥ १८ ॥
मम स्वामी शिवो यो हि स जातो ब्रह्मणः सुतः ।
रुद्रनामा पूर्णरूपावतारः परमात्मनः ॥ १९ ॥
तवावतारो नो जातः का तत्पत्नी भवेदतः ।
तं मोहय महेशानमवतीर्य क्षितौ शिवे ॥ २० ॥
त्वदृते तस्य मोहाय न शक्तान्या कदाचन ।
तस्मान्मम सुता भूत्वा हरजायाभवाऽधुना ॥ २१ ॥
इत्थं कृत्वा सुलीलां च भव त्वं हरमोहिनी ।
ममैवैष वरो देवि सत्यमुक्तं तवाग्रतः ॥ २२ ॥
स्वार्थं न केवलं मेऽस्ति सर्वेषां जगतामपि ।
ब्रह्मविष्णुशिवानां च ब्रह्मणा प्रेरितो ह्यहम् ॥ २३ ॥
ब्रह्मोवाच
इत्याकर्ण्य प्रजेशस्य वचनं जगदम्बिका ।
प्रत्युवाच विहस्येति स्मृत्वा तं मनसा शिवम् ॥ २४ ॥
देव्युवाच
तात प्रजापते दक्ष शृणु मे परमं वचः ।
सत्यं ब्रवीमि त्वद्‌भक्त्या सुप्रसन्नाऽखिलप्रदा ॥ २५ ॥
अहं तव सुता दक्ष त्वज्जायायां महेश्वरी ।
भविष्यामि न सन्देहस्त्वद्‌भक्तिवशवर्तिनी ॥ २६ ॥
तथा यत्नं करिष्यामि तपः कृत्वा सुदुःसहम् ।
हरजाया भविष्यामि तद्वरं प्राप्य चानघ ॥ २७ ॥
नान्यथा कार्यसिद्धिर्हि निर्विकारी च स प्रभुः ।
विधेर्विष्णोश्च संसेव्यः पूर्ण एव सदाशिवः ॥ २८ ॥
अहं तस्य सदा दासी प्रिया जन्मनि जन्मनि ।
मम स्वामी स वै शम्भुर्नानारूपधरोऽपि ह ॥ २९ ॥
वरप्रभावाद्‌भ्रुकुटेरवतीर्णो विधेः स च ।
अहं तद्वरतोऽपीहावतरिष्ये तदाज्ञया ॥ ३० ॥
गच्छ स्वभवनं तात मया ज्ञाता तु दूतिका ।
हरजाया भविष्यामि भूता ते तनयाचिरात् ॥ ३१ ॥
इत्युक्त्वा सद्वचो दक्षं शिवाज्ञां प्राप्य चेतसि ।
पुनः प्रोवाच सा देवी स्मृत्वा शिवपदाम्बुजम् ॥ ३२ ॥
परन्तु पण आधेयो मनसा ते प्रजापते ।
श्रावयिष्यामि ते तं वै सत्यं जानीहि नो मृषा ॥ ३३ ॥
यदा भवान् मयि पुनर्भवेन्मन्दादरस्तपा ।
देहं त्यक्ष्ये निजं सत्यं स्वात्मन्यस्म्यथवेतरम् ॥ ३४ ॥
एष दत्तस्तव वरः प्रतिसर्गं प्रजापते ।
अहं तव सुता भूत्वा भविष्यामि हरप्रिया ॥ ३५ ॥
ब्रह्मोवाच
एवमुक्त्वा महेशानी दक्षं मुख्यप्रजापतिम् ॥
अन्तर्दधे द्रुतं तत्र सम्यग् दक्षस्य पश्यतः । ३६ ॥
अन्तर्हितायां दुर्गायां स दक्षोऽपि निजाश्रमम् ।
जगाम च मुदं लेभे भविष्यति सुतेति सा ॥ ३७ ॥
इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे दक्षवरप्राप्तिवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP