॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

प्रथमोऽध्यायः ॥

सतीसङ्‌क्षेपचरित्रवर्णनम्


नारद उवाच
विधे सर्वं विजानासि कृपया शङ्‌करस्य च ।
त्वयाऽद्‌भुता हि कथिताः कथा मे शिवयोः शुभाः ॥ १ ॥
त्वन्मुखाम्भोजसंवृत्तां श्रुत्वा शिवकथां पराम् ।
अतृप्तो हि पुनस्तां वै श्रोतुमिच्छाम्यहं प्रभो ॥ २ ॥
पूर्णांशः शङ्‌करस्यैव यो रुद्रो वर्णितः पुरा ।
विधे त्वया महेशानः कैलासनिलयो वशी ॥ ३ ॥
स योगी सर्वविष्ण्वादिसुरसेव्यः सतां गतिः ।
निर्द्वन्द्वः क्रीडति सदा निर्विकारी महाप्रभुः ॥ ४ ॥
सोऽभूत्पुनर्गृहस्थश्च विवाह्य परमां स्त्रियम् ।
हरिप्रार्थनया प्रीत्या मङ्‌गलां स्वतपस्विनीम् ॥ ५ ॥
प्रथमं दक्षपुत्री सा पश्चात्सा पर्वतात्मजा ।
कथमेकशरीरेण द्वयोरप्यात्मजा मता ॥ ६ ॥
कथं सती पार्वती सा पुनश्शिवमुपागता ।
एतत्सर्वं तथान्यच्च ब्रह्मन् गदितुमर्हसि ॥ ७ ॥
सूत उवाच
इति तस्य वचः श्रुत्वा सुरर्षेः शङ्‌करात्मनः ।
प्रसन्नमानसो भूत्वा ब्रह्मा वचनमब्रवीत् ॥ ८ ॥
ब्रह्मोवाच
शृणु तात मुनिश्रेष्ठ कथयामि कथां शुभाम् ।
यां श्रुत्वा सफलं जन्म भविष्यति न संशयः ॥ ९ ॥
पुराऽहं स्वसुतां दृष्ट्‍वा सन्ध्याह्वां तनयैः सह ।
अभवं विकृतस्तात कामबाणप्रपीडितः ॥ १० ॥
धर्मस्मृतस्तदा रुद्रो महायोगी परः प्रभुः ।
धिक्कृत्य मां सुतैस्तात स्वस्थानं गतवानयम् ॥ ११ ॥
यन्मायामोहितश्चाहं वेदवक्ता च मूढधीः ।
तेनाकार्षं सहाकार्यं परमेशेन शम्भुना ॥ १२ ॥
तदीर्षयाहमाकार्षं बहूपायान् सुतैः सह ।
कर्तुं तन्मोहनं मूढः शिवमायाविमोहितः ॥ १३ ॥
अभवंस्तेऽथ वै सर्वे तस्मिन् शम्भो परप्रभो ।
उपाया निष्फलास्तेषां मम चापि मुनीश्वर ॥ १४ ॥
तदाऽस्मरं रमेशानं व्यर्थोपायः सुतैः सह ।
अबोधयत्स आगत्य शिवभक्तिरतः सुधीः ॥ १५ ॥
प्रबोधितो रमेशेन शिवतत्त्वप्रदर्शिना ।
तदीर्षामत्यजं सोऽहं तं हठं न विमोहितः ॥ १६ ॥
शक्तिं संसेव्य तत्प्रीत्योत्पादयामास तां तदा ।
दक्षादसिक्न्यां वीरिण्यां स्वपुत्राद्धरमोहने ॥ १७ ॥
सोमा भूत्वा दक्षसुता तपः कृत्वा तु दुःसहम् ।
रुद्रपत्न्यभवद्‌भक्त्या स्वभक्तहितकारिणी ॥ १८ ॥
सोमो रुद्रो गृही भूत्वाऽकार्षील्लीलां परां प्रभुः ।
मोहयित्वाथ मां तत्र स्वविवाहेऽविकारधीः ॥ १९ ॥
विवाह्य तां स आगत्य स्वगिरौ सूतिकृत्तया ।
रेमे बहुविमोहो हि स्वतन्त्रः स्वात्तविग्रहः ॥ २० ॥
तया विहरतस्तस्य व्यातीयाय महान् मुने ।
कालः सुखकरः शभोर्निर्विकारस्य सद्‌रतेः ॥ २१ ॥
ततो रुद्रस्य दक्षेण स्पर्द्धा जाता निजेच्छया ।
महामूढस्य तन्मायामोहितस्य सुगर्विणः ॥ २२ ॥
तत्प्रभावाद्धरं दक्षो महागर्वी विमूढधीः ।
महाशान्तं निर्विकारं निनिन्द बहुमोहितः ॥ २३ ॥
ततो दक्षः स्वयं यज्ञं कृतवान् गर्वितोऽहरम् ।
सर्वानाहूय देवादीन् विष्णुं मां चाखिलाधिपः ॥ २४ ॥
नाजुहाव तथाभूतो रुद्रं रोषसमाकुलः ।
तथा तत्र सतीं नाम्नीं स्वपुत्रीं विधिमोहितः ॥ २५ ॥
यदा नाकारिता पित्रा मायामोहित चेतसा ।
लीलां चकार सुज्ञाना महासाध्वी शिवा तदा ॥ २६ ॥
अथागता सती तत्र शिवाज्ञामधिगम्य सा ।
अनाहूताऽपि दक्षेण गर्विणा स्वपितुर्गृहम् ॥ २७ ॥
विलोक्य रुद्रभागं नो प्राप्यावज्ञां च ताततः ।
विनिन्द्य तत्र तान् सर्वान् देहत्यागमथाकरोत् ॥ २८ ॥
तच्छ्रुत्वा देव देवेशः क्रोधं कृत्वा तु दुःसहम् ।
जटामुत्कृत्य महतीं वीरभद्रमजीजनत् ॥ २९ ॥
सगणं तं समुत्पाद्य किं कुर्य्यामिति वादिनम् ।
सर्वापमानपूर्वं हि यज्ञध्वंसं दिदेश ह ॥ ३० ॥
गणाधीशस्तदाज्ञां स प्राप्य बहुबलान्वितः ।
गतोऽरं तत्र सहसा महाबलपराक्रमः ॥ ३१ ॥
महोपद्रवमाचेरुर्गणास्तत्र तदाज्ञया ।
सर्वान् स दण्डयामास न कश्चिदवशेषितः।३२ ॥
विष्णुं सञ्चित्य यत्नेन समारं गणसत्तमः ।
चक्रे दक्षशिरश्छेदं तच्छिरोऽग्नौ जुहाव च ॥ ३३ ॥
यज्ञध्वंसं चकाराशु महोपद्रवमाचरन् ।
ततो जगाम स्वगिरिं प्रणनाम प्रभुं शिवम् ॥ ३४ ॥
यज्ञध्वंसोऽभवच्चेत्थं देवलोके हि पश्यति ।
रुद्रस्यानुचरैस्तत्र वीरभद्रादिभिः कृतः ॥ ३५ ॥
मुने नीतिरियं ज्ञेया श्रुतिस्मृतिषु संमता ।
रुद्रे रुष्टे कथं लोके सुखं भवति सुप्रभो ॥ ३६ ॥
ततो रुद्रः प्रसन्नोभूत्स्तुतिमाकर्ण्य तां पराम् ।
विज्ञप्तिं सफलां चक्रे सर्वेषां दीनवत्सलः ॥ ३७ ॥
पूर्ववच्च कृतं तेन कृपालुत्वं महात्मना ।
शङ्‌करेण महेशेन नानालीलाविहारिणा ॥ ३८ ॥
जीवितस्तेन दक्षो हि तत्र सर्वे हि सत्कृताः ।
पुनः स कारितो यज्ञः शङ्‌करेण कृपालुना ॥ ३९ ॥
रुद्रश्च पूजितस्तत्र सर्वैर्देवैर्विशेषतः ।
यज्ञे विष्ण्वादिभिर्भक्त्या सुप्रसन्नात्मभिर्मुने ॥ ४० ॥
सतीदेहसमुत्पन्ना ज्वाला लोकसुखावहा ।
पतिता पर्वते तत्र पूजिता सुखदायिनी ॥ ४१ ॥
ज्वालामुखीति विख्याता सर्वकामफलप्रदा ।
बभूव परमा देवी दर्शनात्पापहारिणी ॥ ४२ ॥
इदानीं पूज्यते लोके सर्वकामफलाप्तये ।
संविधाभिरनेकाभिर्महोत्सवपरस्परम् ॥ ४३ ॥
ततश्च सा सती देवी हिमालयसुताऽभवत् ।
तस्याश्च पार्वती नाम प्रसिद्धमभवत्तदा ॥ ४४ ॥
सा पुनश्च समाराध्य तपसा कठिनेन वै ।
तमेव परमेशानं भर्त्तारं समुपाश्रिता ॥ ४५ ॥
एतत्सर्वं समाख्यातं यत्पृष्टोऽहं मुनीश्वर ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ४६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
द्वितीये सतीसङ्‌क्षेपचरित्रवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP