॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ एकविंशोऽध्यायः ॥

कामनानुरोधेन पूजने शिवलिंगसंख्याभिधानम् -



[ Right click to 'save audio as' for downloading Audio ]


ऋषय ऊचुः -
सूत सूत महाभाग व्यासशिष्यनमोस्तु ते ।
सम्यगुक्तं त्वया तात पार्थिवार्चाविधानकम् ॥ १ ॥
कामनाभेदमाश्रित्य संख्यां ब्रूहि विधानतः ।
शिवपार्थिवलिङ्‌गानां कृपयादीनवत्सल ॥ २ ॥
सूत उवाच -
शृणुध्वमृषयः सर्वे पार्थिवार्चाविधानकम् ।
यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः ॥ ३ ॥
अकृत्वा पार्थिवं लिङ्‌गं योन्यदेवं प्रपूजयेत् ।
वृथा भवति सा पूजा दमदानादिकं वृथा ॥ ४ ॥
संख्यापार्थिव लिङ्‌गानां यथाकामं निगद्यते ।
संख्या सद्यो मुनिश्रेष्ठ निश्चयेन फलप्रदा ॥ ५ ॥
प्रथमावाहनं तत्र प्रतिष्ठा पूजनं पृथक् ।
लिङ्‌गाकारं समं तत्र सर्वं ज्ञेयं पृथक्पृथक् ॥ ६ ॥
विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम् ।
पूजयेच्छिवलिङ्‌गं हि निश्चयात्तत्फलप्रदम् ॥ ७ ॥
नरः पार्थिवलिङ्‌गानां धनार्थी च तदर्धकम् ।
पुत्रार्थी सार्धसाहस्रं वस्त्रार्थी शतपञ्चकम् ॥ ८ ॥
मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम् ।
दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम् ॥ ९ ॥
सुहृत्कामी त्रिसाहस्रं वश्यार्थी शतमष्टकम् ।
मारणार्थी सप्तशतं मोहनार्थी शताष्टकम् ॥ १० ॥
उच्चाटनपरश्चैव सहस्रं च यथोक्ततः ।
स्तम्भनार्थी सहस्रं तु द्वेषणार्थी तदर्धकम् ॥ ११ ॥
निगडान्मुक्तिकामस्तु सहस्रं सार्धमुत्तमम् ।
महाराजभये पञ्चशतं ज्ञेयं विचक्षणैः ॥ १२ ॥
चौरादिसङ्‌कटे ज्ञेयं पार्थिवानां शतद्वयम् ।
डाकिन्यादिभये पञ्चशतमुक्तं जपार्थिवम् ॥ १३ ॥
दारिद्र्ये पञ्चसाहस्रमयुतं सर्वकामदम् ।
अथ नित्यविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः ॥ १४ ॥
एकपापहरं प्रोक्तं द्विलिङ्‌गं चार्थसिद्धिदम् ।
त्रिलिङ्‌गं सर्वकामानां ‌कारणं परमीरितम् ॥ १५ ॥
उत्तरोत्तरमेवं स्यात्पूर्वोक्तगणनावधि ।
मतान्तरमथो वक्ष्ये संख्यायां मुनिभेदतः ॥ १६ ॥
लिङ्‌गानामयुतं ‌कृत्वा पार्थिवानां सुबुद्धिमान् ।
निर्भयो हि भवेन्नूनं महाराजभयं हरेत् ॥ १७ ॥
कारागृहादिमुक्त्यर्थमयुतं ‌कारयेद्‌बुधः ।
डाकिन्यादिभये सप्तसहस्रं ‌कारयेत्तथा ॥ १८ ॥
सहस्राणि पञ्चपञ्चाशदपुत्रस्तत्प्रकारयेत् ।
लिङ्‌गानामयुतेनैव कन्यका सन्ततिं लभेत् ॥ १९ ॥
लिङ्‌गानामयुतेनैव विष्ण्वाद्यैश्वर्यमाप्नुयात् ।
लिङ्‌गानां प्रयुतेनैव ह्यतुलां श्रियमाप्नुयात् ॥ २० ॥
कोटिमेकां तु लिङ्‌गानां यः करोति नरो भुवि ।
शिव एव भवेत्सोऽपि नात्रकार्या विचारणा ॥ २१ ॥
अर्चा पार्थिवलिङ्‌गानां कोटियज्ञफलप्रदा ।
भुक्तिदा मुक्तिदा नित्यं ततः कामार्थिनां नृणाम् ॥ २२ ॥
विनालिङ्‌गार्चनं यस्य कालोगच्छति नित्यशः ।
महाहानिर्भवेत्तस्य दुर्वृत्तस्य दुरात्मनः ॥ २३ ॥
एकतः सर्वदानानि व्रतानि विविधानि च ।
तीर्थानि नियमा यज्ञा लिङ्‌गार्चा चैकतः स्मृता ॥ २४ ॥
कलौ लिङ्‌गार्चनं श्रेष्ठं यथा लोके प्रदृश्यते ।
तथान्यन्नास्ति शास्त्राणामेष सिद्धान्तनिश्चयः ॥ २५ ॥
भुक्तिमुक्तिप्रदं लिङ्‌गं विविधापन्निवारणम् ।
पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात् ॥ २६ ॥
शिवानाममयं लिङ्‌गं नित्यं पूज्यं महर्षिभिः ।
यतश्च सर्वलिङ्‌गेषु तस्मात्पूज्यं विधानतः ॥ २७ ॥
उत्तमं मध्यमं नीचं त्रिविधं लिङ्‌गमीरितम् ।
मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् ॥ २८ ॥
चतुरङ्‌गुलमुच्छ्रायं रम्यवेदिकया युतम् ।
उत्तमं लिङ्‌गमाख्यातं मुनिभिः शास्त्रकोविदैः ॥ २९ ॥
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं स्मृतम् ।
इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम् ॥ ३० ॥
अनेकलिङ्‌गं यो नित्यं भक्तिश्रद्धासमन्वितः ।
पूजयेत्स लभेत्कामान्मनसा मानसेप्सितान् ॥ ३१ ॥
न लिङ्‌गाराधनादन्यत्पुण्यं वेदचतुष्टये ।
विद्यतेसर्वशास्त्राणामेष एव विनिश्चयः ॥ ३२ ॥
सर्वमेतत्परित्यज्य कर्मजालमशेषतः ।
भक्त्या परमया विद्वांल्लिङ्‌गमेकं प्रपूजयेत् ॥ ३३ ॥
लिङ्‌गेऽर्चितेऽर्चितं सर्वं जगत्स्थावरजङ्‌गमम् ।
संसारांबुधिमग्नानां नान्यत्तरणसाधनम् ॥ ३४ ॥
अज्ञानतिमिरान्धानां विषयासक्तचेतसाम् ।
प्लवो नान्योऽस्ति जगति लिङ्‌गाराधनमन्तरा ॥ ३५ ॥
हरिब्रह्मादयो देवा मुनयो यक्षराक्षसाः ।
गन्धर्वाश्चारणाः सिद्धा दैतेया दानवास्तथा ॥ ३६ ॥
नागाःशेषप्रभृतयो गरुडाद्याः खगास्तथा ।
सप्रजापतयश्चान्ये मनवः किन्नरा नराः ॥ ३७ ॥
पूजयित्वा महाभक्त्या लिङ्‌गं सर्वार्थसिद्धिदम् ।
प्राप्ताः कामानभीष्टांश्च तांस्तान्सर्वान्हृदि स्थितान् ॥ ३८ ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा प्रतिलोमजः ।
पूजयेत्सततं लिङ्‌गं तत्तन्मन्त्रेण सादरम् ॥ ३९ ॥
किं बहूक्तेन मुनयः स्त्रीणामपि तथान्यतः ।
अधिकारोस्ति सर्वेषां शिवलिङ्‌गार्चने द्विजाः ॥ ४० ॥
द्विजानां वैदिकेनापि मार्गेणाराधनं वरम् ।
अन्येषामपि जन्तूनां वैदिकेन न संमतम् ॥ ४१ ॥
वैदिकानां द्विजानां च पूजावैदिकमार्गतः ।
कर्तव्या नान्यमार्गेण इत्याह भगवाञ्छिवः ॥ ४२ ॥
दधीचिगौतमादीनां शापेनादग्धचेतसाम् ।
द्विजानां जायते श्रद्धा नैव वैदिककर्मणि ॥ ४३ ॥
यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा ।
अन्यत्समाचरेन्मर्त्यो न सङ्‌कल्पफलं लभेत् ॥ ४४ ॥
इत्थं ‌कृत्वार्चनं शम्भोर्नैवेद्यान्तं विधानतः ।
पूजयेदष्टमूर्तीश्च तत्रैव त्रिजगन्मयीः ॥ ४५ ॥
क्षितिरापोऽनलो वायुराकाशः सूर्यसोमकौ ।
यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः ॥ ४६ ॥
शर्वो भवश्च रुद्रश्च उग्रो भीम इतीश्वरः ।
महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ॥ ४७ ॥
पूजयेत्परिवारं च ततः शम्भोः सुभक्तितः ।
ईशानादिक्रमात्तत्र चन्दनाक्षतपत्रकैः ॥ ४८ ॥
ईशानं नन्दिनं चण्डं महाकालं च भृङ्‌गिणम् ।
वृषं स्कन्दं ‌कपर्दीशं सोमं शुक्रं च तत्क्रमात् ॥ ४९ ॥
अग्रतो वीरभद्रं च पृष्ठे कीर्तिमुखं तथा ।
तत एकादशान्‌रुद्रान् पूजयेद्विधिना ततः ॥ ५० ॥
ततः पञ्चाक्षरं जप्त्वा शतरुद्रियमेव च ।
स्तुतीर्नानाविधाः कृत्वा पञ्चाङ्‌गपठनं तथा ॥ ५१ ॥
ततः प्रदक्षिणां कृत्वा नत्वा लिङ्‌गं विसर्जयेत् ।
इति प्रोक्तमशेषं च शिवपूजनमादरात् ॥ ५२ ॥
रात्रावुदङ्मुखः कुर्याद्देवकार्यं सदैव हि ।
शिवार्चनं सदाप्येवं शुचिः कुर्यादुदङ्मुखः ॥ ५३ ॥
न प्राचीमग्रतः शम्भोर्नोदीचीं शक्तिसंहिताम् ।
न प्रतीचीं यतः पृष्ठमतो ग्राह्यं समाश्रयेत् ॥ ५४ ॥
विना भस्मत्रिपुंड्रेण विना रुद्राक्षमालया ।
बिल्वपत्रं विना नैव पूजयेच्छङ्‌करं बुधः ॥ ५५ ॥
भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ।
तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुण्ड्रकम् ॥ ५६ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP