![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
श्रीशिवपुराणमाहात्म्यम्
॥ तृतीयोऽध्यायः ॥ ॥ चंचुलावैराग्यवर्णनम् ॥ [ Right click to 'save audio as' for downloading Audio ]
शौनक उवाच -
सूत सूत महाभाग सर्वज्ञोऽसि महामते । त्वत्प्रसादात्कृतार्थोऽहं कृतार्थोऽहं पुनः पुनः ॥ १ ॥ इतिहासमिमं श्रुत्वा मनो मेऽतीव मोदते । अन्यामपि कथां शम्भोर्वद प्रेमविवर्द्धिनीम् ॥ २ ॥ नामृतम्पिबतां लोके मुक्तिः क्वापि सभाज्यते । शम्भोः कथा सुधापानं प्रत्यक्षं मुक्तिदायकम् ॥ ३ ॥ धन्या धन्या कथा शम्भोस्त्वं धन्यो धन्य एव च । यदाकर्णनमात्रेण शिवलोकं व्रजेन्नरः ॥ ४ ॥ सूत उवाच - शृणु शौनक वक्ष्यामि त्वदग्रे गुह्यमप्युत । यतस्त्वं शिवभक्तानामग्रणीर्वेदवित्तमः ॥ ५ ॥ समुद्रनिकटे देशे ग्रामो बाष्कलसंज्ञकः । वसन्ति यत्र पापिष्ठा वेदधर्मोज्झिता जनाः ॥ ६ ॥ दुष्टा दुर्विषयात्मानो निर्दैवा जिह्मवृत्तयः । कृषीवलाः शस्त्रधराः परस्त्रीभोगिनः खलाः ॥ ७ ॥ ज्ञानवैराग्यसद्धर्मं न जानन्ति परं हि ते । कुकथाश्रवणाढ्येषु निरताः पशुबुद्धयः ॥ ८ ॥ अन्ये वर्णाश्च कुधियः स्वधर्मविमुखाः खलाः । कुकर्मनिरता नित्यं सदा विषयिणश्च ते ॥ ९ ॥ स्त्रियः सर्वाश्च कुटिलाः स्वैरिण्यः पापलालसाः । कुधियो व्यभिचारिण्यः सद्वृत्ताचारवर्जिताः ॥ १० ॥ एवं कुजनसंवासे ग्रामे बाष्कलसंज्ञिते । तत्रैको बिन्दुगो नाम विप्र आसीन्महाधमः ॥ ११ ॥ स दुरात्मा महापापी सुदारोऽपि कुमार्गगः । वेश्यापतिर्बभूवाथ कामाकुलितमानसः ॥ १२ ॥ स्वपत्नीं चञ्चुला नाम हित्वा नित्यं सुधर्मिणीम् । रेमे स वेश्यया दुष्टः स्मरबाणप्रपीडितः ॥ १३ ॥ एवं कालो व्यतीयाय महांस्तस्य कुकर्मणः । सा स्वधर्मभयाक्लेशात्स्मरार्तापि च चञ्चुला ॥ १४ ॥ अथ तस्याङ्गना सापि प्ररूढनवयौवना । अविषह्यस्मरावेशा स्वधर्माद्विरराम ह ॥ १५ ॥ जारेण सङ्गता रात्रौ रेमे पापेन गुप्ततः । पतिदृष्टिं वञ्चयित्वा भ्रष्टसत्त्वा कुमार्गगा ॥ १६ ॥ कदाचित्तां दुराचारां स्वपत्नीं चञ्चुलां मुने । जारेण सङ्गतां रात्रौ ददर्श स्मरविह्वलाम् ॥ १७ ॥ दृष्ट्वा तां दूषितां पत्नीं कुकर्मासक्तमानसाम् । जारेण सङ्गतां रात्रौ क्रोधाद्द्रुदाव वेगतः ॥ १८ ॥ तमागतं गृहे दुष्टमाज्ञाय बिन्दुगं खलः । पलायितो द्रुतं जारो वेगतश्छद्मवान्स वै ॥ १९ ॥ अथ स बिन्दुगः पत्नीं गृहीत्वा सुदुराशयः । मुष्टिबन्धेन सन्तर्ज्य पुनः पुनरताडयत् ॥ २० ॥ सा नारी ताडिता भर्त्रा चञ्चुला स्वैरिणी खला । कुपिता निर्भया प्राह स्वपतिं बिन्दुगं खलम् ॥ २१ ॥ चञ्चुलोवाच - भवान्प्रतिदिनं कामं रमते वेश्यया कुधीः । मां विहाय स्वपत्नीं च युवती पतिसेविनीम् ॥ २२ ॥ रूपवत्या युवत्याश्च कामाकुलितचेतसः । विना पतिविहारं स्यात् का गतिर्मे भवान् वदेत् ॥ २३ ॥ अहं महारूपवती नवयौवनविह्वला । कथं सहे कामदुःखं तव सङ्गंविनाऽऽर्तधीः ॥ २४ ॥ सूत उवाच - इत्युक्तः स तया मूर्खो मूढधीर्ब्राह्मणोऽधमः । प्रोवाच बिन्दुगः पापी स्वधर्मविमुखः खलः ॥ २५ ॥ बिन्दुग उवाच - सत्यमेतत्त्वयोक्तं हि कामव्याकुलचेतसा । हितं वक्ष्यामि तस्मात्ते शृणु कान्ते भयं त्यज ॥ २६ ॥ जारैर्विहर नित्यं त्वं चेतसा निर्भयेन वै । धनमाकर्ष तेभ्यो हि दत्त्वा तेभ्यः परां रतिम् ॥ २७ ॥ तद्धनं देहि सर्वं मे वेश्यासंसक्तचेतसः । महत्स्वार्थं भवेन्नूनं तवापि च ममापि च ॥ २८ ॥
सूत उवाच - इति भर्तृवचः श्रुत्वा चञ्चुला तद्वधूश्च सा । तथेति भर्तृवचनं प्रतिजग्राह हृष्टधीः ॥ २९ ॥ कृत्वैवं समयं तौ वै दम्पती दुष्टमानसौ । कुकर्मनिरतौ जातौ निर्भयेन कुचेतसा ॥ ३० ॥ एवं तयोस्तु दम्पत्योर्दुराचारप्रवृत्तयोः । महान्कालो व्यतीयाय निष्कलो मूढचेतसोः ॥ ३१ ॥ अथ विप्रः स कुमतिर्बिन्दुगो वृषलीपतिः । कालेन निधनं प्राप्तो जगाम नरकं खलः ॥ ३२ ॥ भुक्त्या नरकदुःखानि बह्वहानि स मूढधीः । विन्ध्येऽभवत्पिशाचो हि गिरौ पापी भयङ्करः ॥ ३३ ॥ मृते भर्तरि तस्मिन्वै दुराचारेऽथ बिन्दुगे । उवास स्वगृहे पुत्रैश्चिरकालं विमूढधीः ॥ ३४ ॥ एवं विहरती जारैः सा नारी चञ्चुलाह्वया । आसीत् कामरता प्रीता किञ्चिदुत्क्रान्तयौवना ॥ ३५ ॥ एकदा दैवयोगेन सम्प्राप्ते पुण्यपर्वणि । सा नारी बन्धुभिः सार्द्धं गोकर्णं क्षेत्रमाययौ ॥ ३६ ॥ प्रसङ्गात्सा तदा गत्वा कस्मिंश्चित्तीर्थपाथसि । सस्नौ सामान्यतो यत्र तत्र बभ्राम बन्धुभिः ॥ ३७ ॥ देवालयेऽथ कस्मिंश्चिद्दैवज्ञमुखतः शुभाम् । शुश्राव सत्कथां शम्भोः पुण्यां पौराणिकीं च सा ॥ योषितां जारसक्तानां नरके यमकिङ्कराः । सन्तप्तलोहपरिघं क्षिपन्ति स्मरमन्दिरे ॥ ३९ ॥ इति पौराणिकेनोक्तां श्रुत्वा वैराग्यवर्द्धिनीम् । कथामासीद्भयोद्विग्ना चकम्पे तत्र सा च वै ॥ ४० ॥ कथासमाप्तौ सा नारी निर्गतेषु जनेषु च । भीता रहसि तं प्राह शैवं संवाचकं द्विजम् ॥ ४१ ॥ चञ्चलोवाच - ब्रह्मंस्त्वं शृण्वसद्वृत्तमजानन्त्या स्वधर्मकम् । श्रुत्वा मामुद्धर स्वामिन् कृपां कृत्वातुलामपि ॥ ४२ ॥ चरितं सूल्बणं पापं मया मूढधिया प्रभो । नीतं पौंश्चल्यतः सर्वं यौवनं मदनान्धया ॥ ४३ ॥ श्रुत्वेदं वचनं तेऽद्य वैराग्यरसजृम्भितम् । जाता महाभया साऽहं सकम्पात्तवियोगिका ॥ ४४ ॥ धिङ्गां मूढधियं पापां काममोहितचेतसाम् । निन्द्यां दुर्विषयासक्तां विमुखीं हि स्वधर्मतः ॥ ४५ ॥ यदल्पस्य सुखस्यार्थे स्वकार्यस्य विनाशिनः । महापापं कृतं घोरमजानन्त्याऽतिकष्टदम् ॥ ४६ ॥ यास्यामि दुर्गतिं कां कां घोरां हा कष्टदायिनीम् । को ज्ञो यास्यति मां तत्र कुमार्गरतमानसाम् ॥ ४७ ॥ मरणे यमदूतांस्तान्कथं द्रक्ष्ये भयङ्करान् । कथं पाशैर्बलात्कण्ठे बध्यमाना धृतिं लभे ॥ ४८ ॥ कथं सहिष्ये नरके खण्डशो देहकृन्तनम् । यातनां तत्र महतीं दुःखदां च विशेषतः ॥ ४९ ॥ दिवा चेष्टामिन्द्रियाणां कथं प्राप्स्यामि शोचती । रात्रौ केयं लभिष्येऽहं निद्रां दुःखपरिप्लुता ॥ ५० ॥ हा हतास्मि च दग्धास्मि विदीर्णहृदयास्मि च । सर्वथाऽहं विनष्टाऽस्मि पापिनी सर्वथाप्यहम् ॥ ५१ ॥ हा विधे मां महापापे दत्त्वा दुःशेमुषीं हठात् । अपैति यत्स्वधर्माद्वै सर्वसौख्यकरादहो ॥ ५२ ॥ शूलप्रोतस्य शैलाग्रात्पततस्तुङ्गतो द्विज ॥ यद्दुःखं देहिनो घोरं तस्मात्कोटिगुणं मम ॥ ५३ ॥ अश्वमेधशतं कृत्वा गङ्गां स्नात्वा शतं समाः । न शुद्धिर्जायते प्रायो मत्पापस्य गरीयसः ॥ ५४ ॥ किं करोमि क्व गच्छामि कं वा शरणमाश्रये । कस्त्रायेत मां लोकेऽस्मिन्पतन्तीं नरकार्णवे ॥ ५५ ॥ त्वमेव मे गुरुर्ब्रह्मंस्त्वं माता त्वं पिताऽसि च । उद्धरोद्धर मां दीनां त्वामेव शरणं गताम् ॥ ५६ ॥ सूत उवाच - इति सञ्जातनिर्वेदां पतिताञ्चरणद्वये । उत्थाप्य कृपया धीमान्बभाषे ब्राह्मणः स हि ॥ ५७ ॥ इति श्रीस्कान्दे महापुराणे शिवपुराणमाहाम्ये चञ्चुलावैराग्यवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥ श्रीगौरीशंकरार्पणमस्तु |