श्रीगर्गसंहिता

अश्वमेधखण्डः - एकोनषष्टितमोऽध्यायः

श्रीकृष्णसहस्रनाम -


गर्ग उवाच -
अथोग्रसेनो नृपतिः पुत्रस्याशां विरज्य च ।
व्यासं पप्रच्छ सन्देहं ज्ञात्वा विश्वं मनोमयम् ॥ १ ॥
उग्रसेन उवाच -
ब्रह्मन्केन प्रकारेण हित्वा च जगतः सुखम् ।
भजेत्कृष्णं परंब्रह्म तन्मे व्याख्यातुमर्हसि ॥ २ ॥
व्यास उवाच -
त्वदग्रे कथयिष्यामि सत्यं हितकरं वचः ।
उग्रसेन महाराज शृणुष्वैकाग्रमानसः ॥ ३ ॥
सेवनं कुरु राजेन्द्र राधाश्रीकृष्णयोः परम् ।
नित्यं सहस्रनामभ्यामुभयोर्भक्तितः किल ॥ ४ ॥
सहस्रनाम राधाया विधिर्जानाति भूपते ।
शङ्‌करो नारदश्चैव केचिद्वै चास्मदादयः ॥ ५ ॥
उग्रसेन उवाच -
राधिका नामसाहस्रं नारदाच्च पुरा श्रुतम् ।
एकान्ते दिव्यशिबिरे कुरुक्षेत्रे रविग्रहे ॥ ६ ॥
न श्रुतं नामसाहस्रं कृष्णस्याक्लिष्टकर्मणः ।
वद तन्मे च कृपया येन श्रेयोऽहमाप्नुयाम् ॥ ७ ॥
गर्ग उवाच -
श्रुत्वोग्रसेनवचनं वेदव्यासो महामुनिः ।
प्रशस्य तं प्रीतमना प्राह कृष्णं विलोकयन् ॥ ८ ॥
व्यास उवाच -
शृणु राजन्प्रवक्ष्यामि सहस्रं नाम सुन्दरम् ।
पुरा स्वधाम्नि राधायै कृष्णेनानेन निर्मितम् ॥ ९ ॥
श्रीभगवानुवाच -
इदं रहस्यं किल गोपनीयं
     दत्ते च हानिः सततं भवेद्धि ।
मोक्षप्रदं सर्वसुखप्रदं शं
     परं परार्थं पुरुषार्थदं च ॥ १० ॥
रूपं च मे कृष्णसहस्रनाम
     पठेत्तु मद्‌रूप इव प्रसिद्धः ।
दातव्यमेवं न शठाय कुत्र
     न दाम्भिकायोपदिशेत्कदापि ॥ ११ ॥
दातव्यमेवं करुणावृताय
     गुर्वंघ्रिभक्तिप्रपरायणाय ।
श्रीकृष्णभक्ताय सतां पराय
     तथा मदक्रोधविवर्जिताय ॥ १२ ॥
ॐ अस्य श्रीकृष्णसहस्रनामस्तोत्रमंत्रस्य नारायणऋषिः ।
भुजङ्‌गप्रयातं छन्दः । श्रीकृष्णचन्द्रो देवता ।
वासुदेवो बीजं । श्रीराधा शक्तिः । मन्मथः कीलकं ।
श्रीपूर्णब्रह्मकृष्णचन्द्रभक्तिजन्मफलप्राप्तये जपे विनियोगः ॥ ॥

छंदः - श्रीभुजङ्‌गप्रयात
अथ ध्यानम् -
शिखिमुकुटविशेषं नीलपद्माङ्‌गदेशं
     विधुमुखकृतकेशं कौस्तुभापीतवेशम् ।
मधुररवकलेशं शं भजे भ्रातृशेषं
     व्रजजनवनितेशं माधवं राधिकेशम् ॥ १३ ॥
इति ध्यानम्
हरिर्देवकीनन्दनः कंसहंता
     परात्मा च पीताम्बरः पूर्णदेवः ।
रमेशस्तु कृष्णः परेशः पुराणः
     सुरेशोऽच्युतो वासुदेवश्च देवः ॥ १४ ॥
धराभारहर्ता कृती राधिकेशः
     परो भूवरो दिव्यगोलोकनाथः ।
सुदाम्नस्तथा राधिकाशापहेतु-
     र्घृणी मानिनी मानदो दिव्यलोकः ॥ १५ ॥
लसद्‌गोपवेषो ह्यजो राधिकात्मा
     चलत्कुण्डलः कुन्तली कुन्तलस्रक् ।
रथस्थः कदा राधया दिव्यरत्‍नः
     सुधासौधभूचारणो दिव्यवासाः ॥ १६ ॥
कदा वृन्दकारण्यचारी स्वलोके
     महारत्‍नसिंहासनस्थः प्रशान्तः ।
महाहंसभैश्चामरैर्वीज्यमान-
     श्चलच्छत्रमुक्तावलीशोभमानः ॥ १७ ॥
सुखी कोटिकन्दर्पलीलाभिरामः
     क्वणन्नूपुरालङ्कृतांघ्रिः शुभांघ्रिः ।
सुजानुश्च रंभाशुभोरुः कृशाङ्‌गः
     प्रतापी भुशुण्डासुदोर्दण्डखण्डः ॥ १८ ॥
जपापुष्पहस्तश्च शातोदरश्री-
     र्महापद्मवक्षस्थलश्चन्द्रहासः ।
लसत्कुन्ददन्तश्च बिम्बाधरश्रीः
     शरत्पद्मनेत्रः किरीटोज्ज्वलाभः ॥ १९ ॥
सखीकोटिभिर्वर्तमानो निकुञ्जे
     प्रियाराधया राससक्तो नवाङ्‌गः ।
धराब्रह्मरुद्रादिभिः प्रार्थितः सद्-
     धराभारदूरीकृतोऽर्थं प्रजातः ॥ २० ॥
यदुर्देवकीसौख्यदो बन्धनच्छित्-
     सशेषो विभुर्योगमायी च विष्णुः ।
व्रजे नन्दपुत्रो यशोदासुताख्यो
     महासौख्यदो बालरूपः शुभाङ्‌गः ॥ २१ ॥
तथा पूतना मोक्षदः श्यामरूपो
     दयालुस्त्वनोभञ्जनः पल्लवांघ्रिः ।
तृणावर्त्तसंहारकारी च गोपो
     यशोदायशो विश्वरूपप्रदर्शी ॥ २२ ॥
तथा गर्गदिष्टश्च भाग्योदयश्री-
     र्लसद्‌बालकेलिः सरामः सुवाचः ।
क्वणन्नूपुरैः शब्दयुग्रिङ्‌गमाण-
     स्तथा जानुहस्तैर्व्रजेशाङ्‌गणे वा ॥ २३ ॥
दधिस्पृक्च हैयङ्‌गवीदुग्धभोक्ता
     दधिस्तेयकृद्‌दुग्धभुग्भाण्डभेत्ता ।
मृदं भुक्तवान्गोपजो विश्वरूपः
     प्रचण्डांशुचण्डप्रभामण्डिताङ्‌गः ॥ २४ ॥
यशोदाकरैर्बंधनं प्राप्त आद्यो
     मणिग्रीवमुक्तिप्रदो दामबद्धः ।
कदा नृत्यमानो व्रजे गोपिकाभिः
     कदा नन्दसन्नन्दकैर्लाल्यमानः ॥ २५ ॥
कदा गोपनन्दांकगोपालरूपी
     कलिन्दाङ्‌गजाकूलगो वर्त्तमानः ।
घनैर्मारुतैश्च्छिन्नभाण्डीरदेशे
     गृहीतो वरो राधया नन्दहस्तात् ॥ २६ ॥
निकुञ्जे च गोलोकलोकागतेऽपि
     महारत्‍नसङ्‌घैः कदम्बावृतेऽपि ।
तदा ब्रह्मणा राधिकासद्विवाहे
     प्रतिष्ठां गतः पूजितः साममंत्रैः ॥ २७ ॥
रसी रासयुङ्‌मालतीनां वनेऽपि
     प्रियाराधया राधितार्थं रमेशः ।
धरानाथ आनन्ददः श्रीनिकेतो
     वनेशो धनी सुन्दरो गोपिकेशः ॥ २८ ॥
कदा राधया प्रापितो नन्दगेहे
     यशोदाकरैर्लालितो मन्दहासः ।
भयी क्वापि वृन्दारकारण्यवासी
     महामन्दिरे वासकृद्देवपूज्यः ॥ २९ ॥
वने वत्सचारी महावत्सहारी
     बकारिः सुरैः पूजितोऽघारिनामा ।
वने वत्सकृद्‌गोपकृद्‌गोपवेषः
     कदा ब्रह्मणा संस्तुतः पद्मनाभः ॥ ३० ॥
विहारी तथा तालभुग्धेनुकारी
     सदा रक्षको गोविषार्त्तिप्रणाशी ।
कलिन्दाङ्‌गजाकूलगः कालियस्य
     दमी नृत्यकारी फणेष्वप्रसिद्धः ॥ ३१ ॥
सलीलः शमीज्ञानदः कामपूर-
     स्तथा गोपयुग्गोप आनन्दकारी ।
स्थिरी ह्यग्निभुक्पालको बाललीलः
     सुरागश्च वंशीधरः पुष्पशीलः ॥ ३२ ॥
प्रलम्बप्रभानाशको गौरवर्णो
     बलो रोहिणीजश्च रामश्च शेषः ।
बली पद्मनेत्रश्च कृष्णाग्रजश्च
     धरेशः फणीशस्तु नीलाम्बराभः ॥ ३३ ॥
महासौख्यदो ह्यग्निहारव्रजेशः
     शरद्ग्रीष्मवर्षाकरः कृष्णवर्णः ।
व्रजे गोपिकापूजितश्चीरहर्ता
     कदम्बे स्थितश्चीरदः सुन्दरीशः ॥ ३४ ॥
क्षुधानाशकृद्यज्ञपत्‍नीमनस्पृक्-
     कृपाकारकः केलिकर्तावनीशः ।
व्रजे शक्रयागप्रणाशी मिताशी
     शुनासीरमोहप्रदो बालरूपी ॥ ३५ ॥
गिरेःपूजको नन्दपुत्रो ह्यगध्रः
     कृपाकृच्च गोवर्धनोद्धारिनामा ।
तथा वातवर्षाहरो रक्षकश्च
     व्रजाधीशगोपाङ्‌गनाशङ्‌कितः सन् ॥ ३६ ॥
अगेन्द्रोपरि शक्रपूज्यः स्तुतः प्राङ्‌
     मृषाशिक्षको देव गोविन्दनामा ।
व्रजाधीशरक्षाकरः पाशिपूज्यो-
     ऽनुजैर्गोपजैर्दिव्यवैकुण्ठदर्शी ॥ ३७ ॥
चलच्चारुवंशीक्वणः कामिनीशो
     व्रजे कामीनीमोहदः कामरूपः ।
रसाक्तो रसी रासकृद्‌राधिकेशो
     महामोहदो मानिनीमानहारी ॥ ३८ ॥
विहारी वरो मानहृद्राधिकाङ्गो
     धराद्वीपगः खण्डचारी वनस्थः ।
प्रियो ह्यष्टवक्रर्षिद्रष्टा सराधो
     महामोक्षदः पद्महारी प्रियार्थः ॥ ३९ ॥
वटस्थः सुरश्चन्दनाक्तः प्रसक्तो
     व्रजं ह्यागतो राधया मोहिनीषु ।
महामोहकृद्‌गोपिकागीतकीर्ती
     रथस्थः पटी दुःखिताकामिनीशः ॥ ४० ॥
वने गोपिकात्यागकृत्पादचिह्न-
     प्रदर्शी कलाकारः काममोही ।
वशी गोपिकामध्यगः पेशवाचः
     प्रियाप्रीतिकृद्‍रासरक्तः कलेशः ॥ ४१ ॥
रसारक्तचित्तो ह्यनन्तस्वरूपः
     स्रजा संवृतो बल्लवीमध्यसंस्थः ।
सुबाहुः सुपादः सुवेशः सुकेशो
     व्रजेशः सखा वल्लभेशः सुदेशः ॥ ४२ ॥
क्वणत्किङ्‌किणीजालभृन्नूपुराढ्यो
     लसत्कङ्‌कणो ह्यङ्‌गदी हारभारः ।
किरीटी चलत्कुण्डलश्चाङ्‌गुलीय-
     स्फुरत्कौस्तुभो मालतीमण्डिताङ्‌गः ॥ ४३ ॥
महानृत्यकृद्‌रासरङ्‌गः कलाढ्य-
     श्चलद्धारभो भामिनीनृत्ययुक्तः ।
कलिन्दाङ्‌गजाकेलिकृत्कुंकुमश्रीः
     सुरैर्नायिकानायकैर्गीयमानः ॥ ४४ ॥
सुखाढ्यस्तु राधापतिः पूर्णबोधः
     कटाक्षस्मिती वल्गितभ्रूविलासः ।
सुरम्योऽलिभिः कुन्तलालोलकेशः
     स्फुरद्‌बर्हकुन्दस्रजा चारुवेषः ॥ ४५ ॥
महासर्पतो नन्दरक्षापरांघ्रिः
     सदा मोक्षदः शङ्‌खचूडप्रणाशी ।
प्रजारक्षको गोपिकागीयमानः
     ककुद्मिप्रणाशप्रयासः सुरेज्यः ॥ ४६ ॥
कलिः क्रोधकृत्कंसमंत्रोपदेष्टा
     तथाक्रूरमंत्रोपदेशी सुरार्थः ।
बली केशिहा पुष्पवर्षोऽमलश्री-
     स्तथा नारदाद्दर्शितो व्योमहन्ता ॥ ४७ ॥
तथाक्रूरसेवापरः सर्वदर्शी
     व्रजे गोपिकामोहदः कूलवर्ती ।
सती राधिकाबोधदः स्वप्नकर्ता
     विलासी महामोहनाशी स्वबोधः ॥ ४८ ॥
व्रजे शापतस्त्यक्तराधासकाशो
     महामोहदावाग्निदग्धः पतिश्च ।
सखीबन्धनान्मोहिताक्रूर आरात्-
     सखीकङ्‌कणैस्ताडिताक्रूररक्षी ॥ ४९ ॥
रथस्थो व्रजे राधया कृष्णचन्द्रः
     सुगुप्तो गमी गोपकैश्चारुलीलः ।
जलेऽक्रूरसन्दर्शितो दिव्यरूपो
     दिदृक्षुः पुरीमोहिनीचित्तमोही ॥ ५० ॥
तथा रङ्‌गकारप्रणाशी सुवस्त्रः
     स्रजी वायकप्रीतिकृन्मालिपूज्यः ।
महाकीर्तिदश्चापि कुब्जाविनोदी
     स्फुरच्चण्डकोदण्डरुग्णप्रचण्डः ॥ ५१ ॥
भटार्तिप्रदः कंसदुःस्वप्नकारी
     महामल्लवेषः करीन्द्रप्रहारी ।
महामात्यहा रङ्‌गभूमिप्रवेशी
     रसाढ्यो यशःस्पृग्बली वाक्पटुश्रीः ॥ ५२ ॥
महामल्लहा युद्धकृत्स्त्रीवचोऽर्थी
     धरानायकः कंसहन्ता यदुः प्राक् ।
सदा पूजितो ह्युग्रसेनप्रसिद्धो
     धराराज्यदो यादवैर्मण्डिताङ्‌गः ॥ ५३ ॥
गुरोः पुत्रदो ब्रह्मविद्ब्रह्मपाठी
     महाशङ्‌खहा दण्डधृक्पूज्य एव ।
व्रजे ह्युद्धवप्रेषितो गोपमोही
     यशोदाघृणी गोपिकाज्ञानदेशी ॥ ५४ ॥
सदा स्नेहकृत्कुब्जया पूजिताङ्‌ग-
     स्तथाक्रूरगेहंगमी मंत्रवेत्ता ।
तथा पाण्डवप्रेषिताऽक्रूर एव
     सुखी सर्वदर्शी नृपानन्दकारी ॥ ५५ ॥
महाक्षौहिणीहा जरासन्धमानी
     नृपो द्वारकाकारको मोक्षकर्ता ।
रणी सार्वभौमस्तुतो ज्ञानदाता
     जरासन्धसङ्‌कल्पकृद्धावदंघ्रिः ॥ ५६ ॥
नगादुत्पतद्द्वारिकामध्यवर्ती
     तथा रेवतीभूषणस्तालचिह्नः ।
यदू रुक्मिणीहारकश्चैद्यवेद्य-
     स्तथा रुक्मिरूपप्रणाशी सुखाशी ॥ ५७ ॥
अनन्तश्च मारश्च कार्ष्णिश्च कामो
     मनोजस्तथा शम्बरारी रतीशः ।
रथी मन्मथो मीनकेतुः शरी च
     स्मरो दर्पको मानहा पञ्चबाणः ॥ ५८ ॥
प्रियः सत्यभामापतिर्यादवेशो-
     ऽथ सत्राजितप्रेमपूरः प्रहासः ।
महारत्‍नदो जाम्बवद्युद्धकारी
     महाचक्रधृक्खड्गधृग्रामसंधिः ॥ ५९ ॥
विहारस्थितः पाण्डवप्रेमकारी
     कलिन्दाङ्‌गजामोहनः खाण्डवार्थी ।
सखा फाल्गुनप्रीतिकृन्नग्रकर्ता
     तथा मित्रविन्दापतिः क्रीडनार्थी ॥ ६० ॥
नृपप्रेमकृद्‌गोजितः सप्तरूपो-
     ऽथ सत्यापतिः पारिबर्ही यथेष्टः ।
नृपैः संवृतश्चापि भद्रापतिस्तु
     विलासी मधोर्मानिनीशो जनेशः ॥ ६१ ॥
शुनासीरमोहावृतः सत्सभार्यः
     सतार्क्ष्यो मुरारिः पुरीसङ्‌घभेत्ता ।
सुवीरःशिरःखण्डनो दैत्यनाशी
     शरी भौमहा चण्डवेगः प्रवीरः ॥ ६२ ॥
धरासंस्तुतः कुण्डलच्छत्रहर्ता
     महारत्‍नयुग्‌राजकन्याभिरामः ।
शचीपूजितः शक्रजिन्मानहर्ता
     तथा पारिजातापहारी रमेशः ॥ ६३ ॥
गृही चामरैः शोभितो भीष्मकन्या-
     पतिर्हास्यकृन्मानिनीमानकारी ।
तथा रुक्मिणीवाक्पटुः प्रेमगेहः
     सतीमोहनः कामदेवापरश्रीः ॥ ६४ ॥
सुदेष्णः सुचारुस्तथा चारुदेष्णो-
     ऽपरश्चारुदेहो बली चारुगुप्तः ।
सुती भद्रचारुस्तथा चारुचन्द्रो
     विचारुश्च चारू रथी पुत्ररूपः ॥ ६५ ॥
सुभानुः प्रभानुस्तथा चन्द्रभानु-
     र्बृहद्‌भानुरेवाष्टभानुश्च साम्बः ।
सुमित्रः क्रतुश्चित्रकेतुस्तु वीरो-
     ऽश्वसेनो वृषश्चित्रगुश्चन्द्रबिम्बः ॥ ६६ ॥
विशङ्‌कुर्वसुश्च श्रुतो भद्र एकः
     सुबाहुर्वृषः पूर्णमासस्तु सोमः ।
वरः शान्तिरेव प्रघोषोऽथ सिंहो
     बलो ह्यूर्ध्वगोवर्धनोन्नाद एव ॥ ६७ ॥
महाशो वृकः पावनो वह्निमित्रः
     क्षुधिर्हर्षकश्चानिलोऽमित्रजिच्च ।
सुभद्रो जयः सत्यको वाम आयु-
     र्यदुः कोटिशः पुत्रपौत्रप्रसिद्धः ॥ ६८ ॥
हली दण्डधृग्‌रुक्मिहा चानिरुद्ध-
     स्तथा राजभिर्हास्यगो द्यूतकर्ता ।
मधुर्ब्रह्मसूर्बाणपुत्रीपतिश्च
     महासुन्दरः कामपुत्रो बलीशः ॥ ६९ ॥
महादैत्यसंग्रामकृद्‌यादवेशः
     पुरीभञ्जनो भूतसंत्रासकारी ।
मृधी रुद्रजिद्‌रुद्रमोही मृधार्थी
     तथा स्कन्दजित्कूपकर्णप्रहारी ॥ ७० ॥
धनुर्भञ्जनो बाणमानप्रहारी
     ज्वरोत्पत्तिकृत्संस्तुतस्तु ज्वरेण ।
भुजाछेदकृद्‌बाणसंत्रासकर्ता
     मृडप्रस्तुतो युद्धकृद्‌भूमिभर्ता ॥ ७१ ॥
नृगं मुक्तिदो ज्ञानदो यादवानां
     रथस्थो व्रजप्रेमपो गोपमुख्यः ।
महासुन्दरीक्रीडितः पुष्पमाली
     कलिन्दाङ्‌गजाभेदनः सीरपाणिः ॥ ७२ ॥
महादंभिहा पौण्ड्रमानप्रहारी
     शिरश्छेदकः काशिराजप्रणाशी ।
महाक्षौहिणीध्वंसकृच्चक्रहस्तः
     पुरीदीपको राक्षसीनाशकर्ता ॥ ७३ ॥
अनन्तो महीध्रः फणी वानरारिः
     स्फुरद्‌गौरवर्णो महापद्मनेत्रः ।
कुरुग्रामतिर्य्यग्गतो गौरवार्थः
     स्तुतः कौरवैः पारिबर्ही ससाम्बः ॥ ७४ ॥
महावैभवो द्वारकेशो ह्यनेक-
     श्चलन्नारदः श्रीप्रभादर्शकस्तु ।
महर्षिस्तुतो ब्रह्मदेवः पुराणः
     सदा षोडशस्त्रीसहस्रस्थितश्च ॥ ७५ ॥ ॥
गृही लोकरक्षापरो लोकरीतिः
     प्रभुर्ह्युग्रसेनावृतो दुर्गयुक्तः ।
तथा राजदूतस्ततो बन्धभेत्ता
     स्थितो नारदप्रस्तुतः पाण्डवार्थी ॥ ७६ ॥
नृपैर्मन्त्रकृद्‌ह्युद्धवप्रीतिपूर्णो
     वृतः पुत्रपौत्रैः कुरुग्रामगन्ता ।
घृणी धर्मराजस्तुतो भीमयुक्तः
     परानन्ददो मंत्रकृद्धर्मजेन ॥ ७७ ॥
दिशाजिद्‌बली राजसूयार्थकारी
     जरासन्धहा भीमसेनस्वरूपः ।
तथा विप्ररूपो गदायुद्धकर्ता
     कृपालुर्महाबन्धनच्छेदकारी ॥ ७८ ॥
नृपैः संस्तुतो ह्यागतो धर्मगेहं
     द्विजैः संवृतो यज्ञसंभारकर्ता ।
जनैः पूजितश्चैद्यदुर्वाक्क्षमश्च
     महामोहदोऽरेः शिरश्च्छेदकारी ॥ ७९ ॥
महायज्ञशोभाकरश्चक्रवर्ती
     नृपानन्दकारी विहारी सुरारी ।
सभासंवृतो मानहृत्कौरवस्य
     तथा शाल्वसंहारको यानहन्ता ॥ ८० ॥
सभोजश्च वृष्णिर्मधुः शूरसेनो
     दशार्हो यदुर्ह्यंधको लोकजिच्च ।
द्युमन्मानहा वर्मधृग्दिव्यशस्त्री
     स्वबोधः सदा रक्षको दैत्यहन्ता ॥ ८१ ॥
तथा दन्तवक्त्रप्रणाशी गदा धृग्-
     जगत्तीर्थयात्राकरः पद्महारः ।
कुशी सूतहन्ता कृपाकृत्स्मृतीशो-
     ऽमलो बल्वलाङ्‌गप्रभाखण्डकारी ॥ ८२ ॥
तथा भीमदुर्योधनज्ञानदाता-
     परो रोहिणीसौख्यदो रेवतीशः ।
महादानकृद्‌विप्रदारिद्र्यहा च
     सदा प्रेमयुक्श्रीसुदाम्नः सहायः ॥ ८३ ॥
तथा भार्गवक्षेत्रगन्ता सरामो-
     ऽथ सूर्योपरागश्रुतः सर्वदर्शी ।
महासेनया चास्थितः स्नानयुक्तो
     महादानकृन्मित्रसम्मेलनार्थी ॥ ८४ ॥
तथा पाण्डवप्रीतिदः कुन्तिजार्थी
     विशालाक्षमोहप्रदः शान्तिदश्च ।
वटे राधिकाराधनो गोपिकाभिः
     सखीकोटिभी राधिकाप्राणनाथः ॥ ८५ ॥
सखीमोहदावाग्निहा वैभवेशः
     स्फुरत्कोटिकन्दर्पलीलाविशेषः ।
सखीराधिकादुःखनाशी विलासी
     सखीमध्यगः शापहा माधवीशः ॥ ८६ ॥
शतं वर्षविक्षेपहृन्नन्दपुत्र-
     स्तथा नन्दवक्षोगतः शीतलाङ्‌गः ।
यशोदाशुचः स्नानकृद्‌दुःखहन्ता
     सदागोपिकानेत्रलग्नो व्रजेशः ॥ ८७ ॥
स्तुतो देवकीरोहिणीभ्यां सुरेन्द्रो
     रहो गोपिकाज्ञानदो मानदश्च ।
तथा संस्तुतः पट्टराज्ञीभिराराद्-
     धनी लक्ष्मणाप्राणनाथः सदा हि ॥ ८८ ॥
त्रिभिः षोडशस्त्रीसहस्रस्तुताङ्‌गः
     शुको व्यासदेवः सुमन्तुः सितश्च ।
भरद्वाजको गौतमो ह्यासुरिः सद्-
     वसिष्ठः शतानन्द आद्यः सरामः ॥ ८९ ॥
मुनिः पर्वतो नारदो धौम्य इन्द्रो-
     ऽसितोऽत्रिर्विभाण्डः प्रचेताः कृपश्च ।
कुमारः सनन्दस्तथा याज्ञवल्क्यो
     ऋभुर्ह्यङ्‌गिरा देवलः श्रीमृकण्डः ॥ ९० ॥
मरीची क्रतुश्चौर्वको लोमशश्च
     पुलस्त्यो भृगुर्ब्रह्मरातो वसिष्ठः ।
नरश्चापि नारायणो दत्त एव
     तथा पाणिनिः पिङ्‌गलो भाष्यकारः ॥ ९१ ॥
सकात्यायनो विप्रपातञ्जलिश्चा-
     थ गर्गो गुरुर्गीष्पतिर्गौतमीशः ।
मुनिर्जाजलिः कश्यपो गालवश्च
     द्विजः सौभरिश्चर्ष्यशृङ्‌गश्च कण्वः ॥ ९२ ॥
द्वितश्चैकतश्चापि जातूद्‌भवश्च
     घनः कर्दमस्यात्मजः कर्दमश्च ।
तथा भार्गवः कौत्सकश्चारुणस्तु
     शुचिः पिप्पलादो मृकण्डस्य पुत्रः ॥ ९३ ॥
सपैलःस्तथा जैमिनिः सत्सुमन्तु-
     र्वरो गाङ्‌गलः स्फोटगेहः फलादः ।
सदा पूजितो ब्राह्मणः सर्वरूपी
     मुनीशो महामोहनाशोऽमरः प्राक् ॥ ९४ ॥
मुनीशस्तुतः शौरिविज्ञानदाता
     महायज्ञकृच्चाभृतस्नानपूज्यः ।
सदा दक्षिणादो नृपैः पारिबर्ही
     व्रजानन्ददो द्वारिकागेहदर्शी ॥ ९५ ॥
महाज्ञानदो देवकीपुत्रदश्चा-
     सुरैः पूजितोऽहीन्द्रसेनादृतश्च ।
सदा फाल्गुनप्रीतिकृत्सत्सुभद्रा-
     विवाहे द्विपाश्वप्रदो मानयानः ॥ ९६ ॥
भुवं दर्शको मैथिलेन प्रयुक्तो
     द्विजेनाशु राज्ञा स्थितो ब्राह्मणैश्च ।
कृती मैथिले लोकवेदोपदेशी
     सदावेदवाक्यैः स्तुतः शेषशायी ॥ ९७ ॥
परीक्षावृतो ब्राह्मणैश्चामरेषु
     भृगुप्रार्थितो दैत्यहा चेशरक्षी ।
सखा चार्जुनस्यापि मानप्रहारी
     तथा विप्रपुत्रप्रदो धामगन्ता ॥ ९८ ॥
विहारस्थितो माधवीभिः कलाङ्‌गो
     महामोहदावाग्निदग्धाभिरामः ।
यदुर्ह्युग्रसेनो नृपोऽक्रूर एव
     तथा चोद्धवः शूरसेनश्च शूरः ॥ ९९ ॥
हृदीकश्च सत्राजितश्चाप्रमेयो
     गदः सारणः सात्यकिर्देवभागः ।
तथा मानसः सञ्जयः श्यामकश्च
     वृको वत्सको देवको भद्रसेनः ॥ १०० ॥
नृपोऽजातशत्रुर्जयो माद्रिपुत्रो-
     ऽथ भीष्मः कृपो बुद्धिचक्षुश्च पाण्डुः ।
तथा शन्तनुर्देवबाह्लीक एवा-
     थ भूरिश्रवाश्चित्रवीर्यो विचित्रः ॥ १०१ ॥
शलश्चापि दुर्योधनः कर्ण एव
     सुभद्रासुतो विष्णुरातः प्रसिद्धः ।
स जन्मेजयः पाण्डवः कौरवश्च
     तथा सर्वतेजा हरिः सर्वरूपी ॥ १०२ ॥
व्रजं ह्यागतो राधया पूर्णदेवो
     वरो रासलीलापरो दिव्यरूपी ।
रथस्थो नवद्वीपखण्डप्रदर्शी
     महामानदो गोपजो विश्वरूपः ॥ १०३ ॥
सनन्दश्च नन्दो वृषो वल्लभेशः
     सुदामार्जुनः सौबलस्तोक एव ।
स कृष्णोंऽशुकः सद्विशालर्षभाख्यः
     सुतेजस्विकः कृष्णमित्रो वरूथः ॥ १०४ ॥
कुशेशो वनेशस्तु वृन्दावनेश-
     स्तथा माथुरेशाधिपो गोकुलेशः ।
सदागोगणो गोपतिर्गोपिकेशो-
     ऽथ गोवर्धनो गोपतिः कन्यकेशः ॥ १०५ ॥
अनादिस्तु चात्मा हरिः पूरुषश्च
     परो निर्गुणो ज्योतिरूपो निरीहः ।
सदा निर्विकारः प्रपञ्चात्परश्च
     स सत्यस्तु पूर्णः परेशस्तु सूक्ष्मः ॥ १०६ ॥
द्वारकायां तथा चाश्वमेधस्य कर्ता
     नृपेणापि पौत्रेण भूभारहर्ता ।
पुनः श्रीव्रजे रासरङ्‌गस्य कर्ता
     हरीराधया गोपिकानां च भर्ता ॥ १०७ ॥
सदैकस्त्वनेकः प्रभापूरिताङ्‌ग-
     स्तथा योगमायाकरः कालजिच्च ।
सुदृष्टिर्महत्तत्त्वरूपः प्रजातः
     सकूटस्थ आद्याङ्‌कुरो वृक्षरूपः ॥ १०८ ॥
विकारस्थितश्च ह्यहङ्‌कार एव
     स वै कारकस्तैजसस्तामसश्च ।
नमो दिक्समीरस्तु सूर्यः प्रचेतो-
     ऽश्विवह्निश्च शक्रो ह्युपेन्द्रस्तु मित्रः ॥ १०९ ॥
श्रुतिस्त्वक्च दृग्घ्राणजिह्वागिरश्च
     भुजामेढ्रकः पायुरङ्‌घ्रिः सचेष्टः ।
धराव्योमवार्मारुतश्चैव तेजो-
     ऽथ रूपं रसो गन्धशब्दस्पृशश्च ॥ ११० ॥
सचित्तश्च बुद्धिर्विराट् कालरूप-
     स्तथा वासुदेवो जगत्कृद्धताङ्‌गः ।
तथाण्डे शयानः सशेषः सहस्र-
     स्वरूपो रमानाथ आद्योऽवतारः ॥ १११ ॥
सदा सर्गकृत्पद्मजः कर्मकर्ता
     तथा नाभिपद्मोद्‌भवो दिव्यवर्णः ।
कविर्लोककृत्कालकृत्सूर्यरूपो
     निमेषो भवो वत्सरान्तो महीयान् ॥ ११२ ॥
तिथिर्वारनक्षत्रयोगाश्च लग्नो-
     ऽथ मासो घटी च क्षणः काष्ठिका च ।
मुहूर्तस्तु यामो ग्रहा यामिनी च
     दिनं चर्क्षमालागतो देवपुत्रः ॥ ११३ ॥
कृतो द्वापरस्तु त्रितस्तत्कलिस्तु
     सहस्रं युगस्तत्र मन्वन्तरश्च ।
लयः पालनं सत्कृतिस्तत्परार्धं
     सदोत्पत्तिकृद्द्व्यक्षरो ब्रह्मरूपः ॥ ११४ ॥
तथा रुद्रसर्गस्तु कौमारसर्गो
     मुनेः सर्गकृद्देवकृत्प्राकृतस्तु ।
श्रुतिस्तु स्मृतिः स्तोत्रमेवं पुराणं
     धनुर्वेद इज्याथ गान्धर्ववेदः ॥ ११५ ॥
विधाता च नारायणः सत्कुमारो
     वराहस्तथा नारदो धर्मपुत्रः ।
मुनिः कर्दमस्यात्मजो दत्त एव
     स यज्ञोऽमरो नाभिजः श्रीपृथुश्च ॥ ११६ ॥
सुमत्स्यश्च कूर्मश्च धन्वन्तरिश्च
     तथा मोहिनी नारसिंहः प्रतापी ।
द्विजो वामनो रेणुकापुत्ररूपो
     मुनिर्व्यासदेवः श्रुतिस्तोत्रकर्ता ॥ ११७ ॥
धनुर्वेदभाग्रामचन्द्रावतारः
     ससीतापतिर्भारहृद्‌रावणारिः ।
नृपः सेतुकृद्‌वानरेन्द्रप्रहारी
     महायज्ञकृद्‌राघवेन्द्रः प्रचण्डः ॥ ११८ ॥
बलः कृष्णचन्द्रस्तु कल्किः कलेश-
     स्तु बुद्धः प्रसिद्धस्तु हंसस्तथाश्वः ।
ऋषीन्द्रोऽजितो देववैकुण्ठनाथो
     ह्यमूर्तिश्च मन्वन्तरस्यावतारः ॥ ११९ ॥
गजोद्धारणः श्रीमनुर्ब्रह्मपुत्रो
     नृपेन्द्रस्तु दुष्यन्तजो दानशीलः ।
सदृष्टः श्रुतो भूत एवं भविष्यद्‌-
     भवत्स्थावरो जङ्‌गमोऽल्पं महच्च ॥ १२० ॥
इति श्रीभुजङ्‌गप्रयातेन चोक्तं
     हरे राधिकेशस्य नाम्नां सहस्रम् ।
पठेद्‌भक्तियुक्तो द्विजः सर्वदा हि
     कृतार्थो भवेत्कृष्णचन्द्रस्वरूपः ॥ १२१ ॥
महापापराशिं भिनत्ति श्रुतं य-
     त्सदा वैष्णवानां प्रियं मङ्‌गलं च ।
इदं रासराकादिने चाश्विनस्य
     तथा कृष्णजन्माष्टमीमध्य एव ॥ १२२ ॥
तथा चैत्रमासस्य राकादिने वा-
     थ भाद्रे च राधाष्टमीसद्दिने वा ।
पठेद्‌भक्तियुक्तस्त्विदं पूजयित्वा
     चतुर्धा सुमुक्तिं तनोति प्रशस्तः ॥ १२३ ॥
पठेत्कृष्णपुर्यां च वृन्दावने वा
     व्रजे गोकुले वापि वंशीवटे वा ।
वटे वा क्षये वा तटे सूर्यपुत्र्याः
     स भक्तोऽथ गोलोकधाम प्रयाति ॥ १२४ ॥
भजेद्‌भक्तिभावाच्च सर्वत्र भूमौ
     हरिं कुत्र चानेन गेहे वने वा ।
जहाति क्षणं नो हरिस्तं च भक्तं
     सुवश्यो भवेन्माधवः कृष्णचन्द्रः ॥ १२५ ॥
सदा गोपनीयं सदा गोपनीयं
     सदा गोपनीयं प्रयत्‍नेन भक्तैः ।
प्रकाश्यं न नाम्नां सहस्रं हरेश्च
     न दातव्यमेवं कदा लम्पटाय ॥ १२६ ॥
इदं पुस्तकं यत्र गेहेऽपि तिष्ठेद्-
     वसेद्‌राधिकानाथ आद्यस्तु तत्र ।
तथा षड्गुणाः सिद्धयो द्वादशापि
     गुणैस्त्रिंशतैर्लक्षणैस्तु प्रयान्ति ॥ १२७ ॥

इति श्रीमद्‌गर्गसंहितायामश्वमेधखण्डे
श्रीकृष्णसहस्रनामवर्णनं नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP