ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - पञ्चचत्वारिंशोऽध्यायः
परशुरामकृतदुर्गास्तोत्रम् -
नारायण उवाच
पार्वतीं बोधयित्वा तु विष्णू राममुवाच ह ।
हितं सत्यं नीतिसारं परिणामसुखावहम् ॥१॥
विष्णुरुवाच
राम त्वमधुना सत्यमपराधी श्रुतेर्मते ।
कोपात्कृत्वा दन्तभङ्गं गणेशस्य स्थिते शिवे ॥२॥
स्तोत्रेणैव मयोक्तेन स्तुत्वा गणपतिं परम् ।
काण्वशाखोक्तविधिना स्तुहि दुर्गां जगत्प्रसूम् ॥३॥
श्रीकृष्णस्य परा शक्तिर्बुद्धिरूपा जगत्प्रभोः ।
अस्यां च तव रुष्टायां हता बुद्धिर्भविष्यति ॥४॥
सर्वशक्तिस्वरूपेयमनया शक्तिमज्जगत् ।
अनया शक्तिमान्कृष्णो निर्गुणः प्रकृतेः परः ॥५॥
सृष्टिं कर्तुं न शक्तश्च ब्रह्मा शक्त्याऽनया विना ।
वयमस्यां प्रसूता ब्रह्मविष्णुमहेश्वराः ॥६॥
सुरसंघेऽसुरग्रस्ते काले घोरतरे द्विज ।
तेजःसु सर्वदेवानामाविर्भूता पुरा सती ॥७॥
कृष्णाज्ञयाऽसुरान्हत्वा दत्त्वा तेभ्यः पदं ततः ।
दक्षपत्न्यां जनिं लेभे दक्षस्य तपसा पुरा ॥८॥
भार्या भूत्वा शंकरस्य पुनः पत्युश्च निन्दया ।
देहं त्यक्त्वा शैलपत्न्यां जनिं लेभे पुरा सती ॥९॥
शंकरस्तपसा लब्धो योगीन्द्राणां गुरोर्गुरुः ।
लब्धो गणपतिः पुत्रः कृष्णांशः कृष्णसेवया ॥१०॥
यं ध्यायस्येव नित्यं किं तं न जानासि बालक ।
स एव भगवान्कृष्णश्चांशेन गिरिजासुतः ॥११ ॥
कृताञ्जलिर्नतो भूत्वा स्तुहि दुर्गां शिवप्रियाम् ।
शिवां शिवप्रदां शैवा शिवबीजां शिवेश्वरीम् ॥१२॥
शिवायाः स्तोत्रराजेन पुरा शूलिकृतेन वै ।
त्रिपुरस्य वधे घोरे ब्रह्मणा प्रेरितेन च ॥ १३॥
इत्युक्त्वा श्रीपदं शौ जगाम श्रीनिकेतनम् ।
गते हरौ हरिं स्मृत्वा रामस्तां स्तोतुमुद्यतः ॥१४॥
स्तोत्रेण विष्णुदत्तेन सर्वविघ्नहरेण च ।
धर्मार्थकाममोक्षाणां कारणेन च नारद ॥ १५॥
कृताञ्जलिपुटो भूत्वा स्नात्वा गङ्गोदकं शुभे ।
गुरुं प्रणम्य भक्तेशं धृत्वा धौते च वाससी ॥१६॥
आचम्य नत्वा मूर्छा तां भक्तिनम्रात्मकंधरः ।
पुलकाञ्चितसर्वाङ्गःश्चानन्दाश्रुसमन्वितः ॥१७॥
परशुराम उवाच
श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च ।
आविर्भूता विग्रहतः पुरा सृष्ट्युन्मुखस्य च ॥१८॥
सूर्यकोटिप्रभायुक्ता वस्त्रालंकारभूषिता ।
वह्निशुद्धांशुकाधाना सस्मिता सुमनोहरा ॥ १९॥
नवयौवनसंपन्ना सिन्दूरारुण्यशोभिता ।
ललितं कबरीभारं मालतीमाल्यमण्डितम् ॥२०॥
अहोऽनिर्वचनीया त्वं चारुमूतिं च बिभ्रती ।
मोक्षप्रदा मुमुक्षूणां महाविष्णुर्विधिः स्वयम् ॥२ १॥
मुमोह क्षणमात्रेण दृष्ट्वा त्वां सर्वमोहिनीम् ।
बालैः संभूय सहसा सस्मिता धाविता पुरा ॥२२॥
सद्भिः ख्याता तेन राधा मूलप्रकृतिरीश्वरी ।
कृष्णस्तां सहसा भीतो वीर्याधानं चकार ह ॥२३॥
ततो डिम्भं महज्जज्ञे ततो जातो महान्विराट् ।
यस्यैव लोमकूपेषु ब्रह्माण्डान्यखिलानि च ॥२४॥
राधारतिक्रमेणैव तन्निःश्वासो बभूव ह ।
स निःश्वासो महावायुः स विराड्विश्वधारकः ॥२५॥
भयघर्मजलेनैव पुप्लुवे विश्वगोलकम् ।
स विराड्विश्वनिलयो जलराशिर्बभूव ह ॥२६॥
ततस्त्वं पञ्चधा भूय पञ्च मूर्तीश्च बिभ्रती ।
प्राणाधिष्ठातृमूर्तिर्या कृष्णस्य परमात्मनः ॥२७॥
कृष्णप्राणाधिकां राधां तां वदन्ति पुराविदः ।
वेदाधिष्ठातृमूर्तिर्या वेदशास्त्रप्रसूरपि ॥२८॥
तां सावित्रीं शुद्धरूपां प्रवदन्ति मनीषिणः ।
ऐश्वर्याधिष्ठातृमूर्तिः शान्तिस्त्वं शान्तरूपिणी ॥२९॥
लक्ष्मीं वदन्ति सन्तस्तां शुद्धां सत्त्वस्वरूपिणीम् ।
रागाधिष्ठातृदेवी या शुक्लमूर्तिः सतां प्रसूः ॥३०॥
सरस्वतीं तां शास्त्रज्ञां शास्त्रज्ञाः प्रवदन्त्यहो ।
बुद्धिर्विद्या सर्वशक्तेर्या मूर्तिरधिदेवता ॥३ १॥
सर्वमङ्गलदा सन्तो वदन्ति सर्वमङ्गलाम् ।
सर्वमङ्गलमङ्गल्या सर्वमङ्गलरूपिणी ॥३२॥
सर्वमङ्गलबीजस्य शिवस्य निलयेऽधुना ।
शिवे शिवास्वरूपा त्वं लक्ष्मीर्नारायणान्तिके ॥३३॥
सरस्वती च सावित्री वेदसूर्ब्रह्मणः प्रिया ।
राधा रासेश्वरस्यैव परिपूर्णतमस्य च ॥३४॥
परमानन्दरूपस्य परमानन्दरूपिणी ।
त्वत्कलांशांशकलया देवानामपि योषितः ॥३५॥
त्वं विद्या योषितः सर्वाः सर्वेषां बिजरूपिणी ।
छाया सूर्यस्य चन्द्रस्य रोहिणी सर्वमोहिनी ॥३६॥
शची शक्रस्य कामस्य कामिनी रतिरीश्वरी ।
वरुणानी जलेशस्य वायोः स्त्रीप्राणवल्लभा ॥३७॥
वह्नेः प्रिया हि स्वाहा च कुबेरस्य च सुन्दरी ।
यमस्य तु सुशीला च नैर्ऋतस्य च कैटभी ॥३८॥
ऐशानी स्याच्छशिकला शतरूपा मनोः प्रिया ।
देवहूतिः कर्दमस्य वसिष्ठस्याप्यरुन्धती ॥३९॥
लोपामुद्राऽप्यगस्त्यस्य देवमाताऽदितिस्तथा ।
अहल्या गौतमस्यापि सर्वाधारा वसुंधरा ॥४०॥
गङ्गा च तुलसी चापि पृथिव्यां या सरिद्वरा ।
एताः सर्वाश्च या ह्यन्या सर्वास्त्वत्कलयाऽम्बिके ॥४१ ॥
गृहलक्ष्मीर्गृहे नृणां राजलक्ष्मीश्च राजसु ।
तपस्विनां तपस्या त्वं गायत्री ब्राह्मणस्य च ॥४२॥
सतां सत्त्वस्वरूपा त्वमसतां कलहाङ्कुरा ।
ज्योतीरूपा निर्गुणस्य शक्तिस्त्वं सगुणस्य च ॥४३॥
सूर्ये प्रभास्वरूपा त्वं दाहिका च हुताशने ।
जले शैत्यस्वरूपा च शोभारूपा निशाकरे ॥४४॥
त्वं भूमौ गन्धरूपा चाप्याकाशे शब्दरूपिणी ।
क्षुत्पिपासादयस्त्वं च जीविनो सर्वशक्तयः ॥४५॥
सर्वबीजस्वरूपा त्वं संसारे साररूपिणी ।
स्मृतिर्मेधा च बुद्धिर्वा ज्ञानशक्तिर्विपश्चिताम् ॥४६॥
कृष्णेन विद्या या दत्ता सर्वज्ञानप्रसूः शुभा ।
शूलिने कृपया सा त्वं यया मृत्युंजयः शिवः ॥४७॥
सृष्टिपालनसंहारशक्तयस्त्रिविधाश्च याः ।
ब्रह्मविष्णुमहेशानां सा त्वमेव नमोऽस्तु ते ॥४८॥
मधुकैटभभीत्या च त्रस्तोधाता प्रकम्पितः ।
स्तुत्वा मुक्तश्च यां देवीं तां मूर्ध्ना प्रणमाम्यहम् ॥४९॥
मधुकैटभयोर्युद्धे त्राताऽसौ विष्णुरीश्वरीम् ।
बभूव शक्तिमान्स्तुत्वा तां दुर्गां प्रणमाम्यहम् ॥५०॥
त्रिपुरस्य महायुद्धे सरथे पतिते शिवे ।
यां तुष्टुवुः सुराः सर्वे तां दुर्गां प्रणमाम्यहम् ॥५१॥
विष्णुना वृषरूपेण स्वयं शंभुः समुत्थितः ।
जघान त्रिपुरं स्तुत्वा तां दुर्गां प्रणमाम्यहम्॥५२॥
यदाज्ञया वाति वातः सूर्यस्तपति संततम् ।
वर्षतीन्द्रो दहत्यग्निस्तां दुर्गां प्रणमाम्यहम् ॥५३॥
यदाज्ञया हि कालश्च शश्वद्भ्रमति वेगतः ।
मृत्युश्चरति जन्तूनां तां दुर्गां प्रणमाम्यहम् ॥५४॥
स्रष्टा सृजति सृष्टिं च पाता पाति यदाज्ञया ।
संहर्ता सहरेत्काले तां दुर्गां प्रणमाम्यहम् ॥५५॥
ज्योतिःस्वरूपो भगवाञ्छ्रीकृष्णो निर्गुणः स्वयम् ।
यया विनान शक्तश्च सृष्टिकर्तुं नमामि ताम् ॥५६॥
रक्ष रक्ष जगन्मातरपराधं क्षमस्व मे ।
शिशूनामपराधेन कुतो माता हि कुप्यति ॥५७॥
इत्युक्त्वा परशुरामश्च नत्वा तां च रुरोद ह ।
तुष्टा दुर्गा संभ्रमेण चाभयं च वरं ददौ ॥५८॥
अमरो भव हे पुत्र वत्स सुस्थिरतां व्रज ।
शर्वप्रसादात्सर्वत्र जयोऽस्तु तव संततम् ॥५९॥
सर्वान्तरात्मा भगवांस्तुष्टः स्यात्संततं हरिः ।
भक्तिर्भवतु ते कृष्णे शिवदे च शिवे गुरौ ॥६०॥
इष्टदेवे गुरौ यस्य भक्तिर्भवति शाश्वती ।
तं हन्तुं न हि शक्ता वा रुष्टा वा सर्वदेवताः ॥६ १॥
श्रीकृष्णस्य च भक्तस्त्वं शिष्यो वै शंकरस्य च ।
गुरुपत्नीं स्तौषि यस्मात्कस्त्वां हन्तुमिहेश्वरः ॥६२॥
अहो न कृष्णभक्तानामशुभं विद्यते क्वचित् ।
अन्यदेवेषु ये भक्ता न भक्ता वा निरङ्कुशाः ॥६३॥
चन्द्रमा बलवांस्तुष्टो येषां भाग्यवतां भृगो ।
तेषां तारागणा रुष्टाः किं कृर्वन्ति च दुर्बलाः ॥६४॥
यस्मै तुष्टः पालयति नरदेवो महान्सुखी ।
तस्य किंवा करिष्यन्ति रुष्टा भृत्याश्च दुर्बलाः ॥६५॥
इत्युक्त्वा पार्वती तुष्टा दत्त्वा रामाय चाऽऽशिषम् ।
जगामान्तःपुरं तूर्णं हर्षशब्दो बभूव ह ॥६६॥
स्तोत्रं वै कण्वशाखोक्तं पूजाकाले च यः पठेत् ।
यात्राकाले तथा प्रातर्वाञ्छितार्थं लभेद्ध्रुवम् ॥६७॥
पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत् ।
विद्यार्थी लभते विद्यां प्रजार्थी चाऽप्नुयात्प्रजाः ॥६८॥
भ्रष्टराज्यो लभेद्राज्यं नष्टवित्तो धनं लभेत् ।
यस्य रुष्टो गुरुर्देवो राजा वा बान्धवोऽथवा ॥६९॥
तस्मै तुष्टश्च वरदः स्तोत्रराजप्रसादतः ।
दस्युग्रस्तः फणिग्रस्तः शत्रुग्रस्तो भयानकः ॥७०॥
व्याधिग्रस्तो भवेन्मुस्तः स्तोत्रस्मरणमात्रतः ।
राजद्वारे श्मशाने च कारागारे ज बन्धने ॥७१ ॥
जलराशौ निमग्नश्च मुक्तस्तत्स्मृतिमात्रतः ।
स्वामिभेदे पुत्रभेदे मित्रभेदे च दारुणे ॥७२ ॥
स्तोत्रस्मरणमात्रेण वाञ्छितार्थं लभेद्धुवम् ।
कृत्वा हविष्यं वषे च स्तोत्रराजं शृणोति या ॥७३॥
भक्त्या दुर्गां च संपूज्य महावन्ध्या प्रसूयते ।
लभते सा दिव्यपुत्रं ज्ञानिनं चिरजीविनम् ॥७४॥
असौभाग्या च सौभाग्यं षण्मासश्रवणाल्लभेत् ।
नवमासं काकवन्ध्या मृतवत्सा च भक्तितः ॥७५॥
स्तोत्रराजं या शृणोति सा पुत्रं लभते ध्रुवम् ।
कन्यामाता पुत्रहीना पञ्चमासं शृणोति या ॥७६॥
घटे संपूज्य दुर्गां च सा पुत्रं लभते ध्रुवम् ॥७७॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे परशुरामकृतदुर्गास्तोत्रं
नाम पञ्चचत्वारिंशोऽध्यायः ॥४५॥
GO TOP
|