ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - सप्तत्रिंशोऽध्यायः

भद्रकालीकवचनिरूपणम् -


नारद उवाच
कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् ।
नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च सांप्रतम् ॥ १ ॥
नारायण उवाच
शृणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् ।
गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ २ ॥
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् ।
दुर्वासा हि ददौ राज्ञे पुष्करे सूर्यपर्वणि ॥ ३ ॥
दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा ।
पञ्चलक्षजपेनैव पठन्कवचमुत्तमम् ॥ ४ ॥
बभूव सिद्धकवचोऽप्ययोध्यामाजगाम सः ।
कृत्स्नां हि पृथिवीं जिग्ये कवचस्य प्रसादतः ॥ ५॥
नारद उवाच
श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा ।
अधुना श्रोतुमिच्छामि कवचं ब्रूहि मे प्रभो ॥ ६ ॥
नारायण उवाच
शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्‌भुतम् ।
नारायणेन यद्‌दत्तं कृपया शूलिने पुरा ॥ ७ ॥
त्रिपुरस्य वधे घोरे शिवस्य विजयाय च ।
तदेव शूलिना दत्तं पूरा दुर्वाससे मुने ॥ ८ ॥
दुर्वाससा च यद्‌दत्तं सुचन्द्राय महात्मने ।
अतिगुह्यतरं तत्त्वं सर्वमन्त्रोघविग्रहम् ॥ ९ ॥
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् ।
क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रीमिति लोचने ॥ १० ॥
ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदाऽवतु ।
क्लीं कालिके रक्ष स्वाहा दन्तान्सदाऽवतु ॥ ११ ॥
क्लीं भद्रकालिके स्वाहा पातु मेऽधरयुग्मकम् ।
ॐ ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदाऽवतु ॥ १२ ॥
ॐ ह्रीं कालिकायै स्वाहाकर्णयुग्मं सदाऽवतु ।
ॐ क्रीं क्रीं क्ली काल्यै स्वाहा स्कन्धं पातु सदा मम ॥ १३ ॥
ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदाऽवतु ।
ॐ क्लीं कालिकायै स्वाहा मम नाभिं सदाऽवतु ॥ १४ ॥
ॐ ह्रीं कालिकायै स्वाहा मम पृष्ठं सदाऽवतु ।
रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदाऽवतु ॥ १५ ॥
ॐ हीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदाऽवतु ।
ॐ ह्रीं चामुण्डायै स्वाहा सर्वाङ्‌गं मे सदाऽवतु ॥ १६ ॥
प्राच्यां पातु महाकाली चाग्नेय्यां रक्तदन्तिका ।
दक्षिणे पातु चामुण्डा नैर्ऋत्यां पातुकालिका ॥ १७ ॥
श्यामा च वारुणे पातु वायव्यां पातु चण्डिका ।
उत्तरे विकटास्या चाप्यैशान्यां साट्टहासिनी ॥ १८ ॥
पातूर्ध्वं लोलजिह्वा सा मायाद्या पात्वधः सदा ।
जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा ॥ १९ ॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
सर्वेषां कवचानां च सारभूतं परात्परम् ॥ २० ॥
सप्तद्वीपेश्वरो राजा सुचन्द्रोऽस्य प्रसादतः ।
कवचस्य प्रसादेन मान्धाता पृथिवीपतिः ॥ २१ ॥
प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह ।
यतो हि योगिनां श्रेष्ठः सौभरिः पिप्पलायनः ॥ २२ ॥
यदि स्यात्सिद्धकवचः सर्वसिद्धेश्वरो भवेत् ।
महादानानि सर्वाणि तपांस्येवं व्रतानि च ।
निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ २३ ॥
इदं कवचमज्ञात्वा भजेत्कालीं जगत्प्रसूम् ।
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ २४ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे भद्रकालीकवचनिरूपणं
नाम संप्तत्रिशोऽध्यायः ॥ ३७ ॥


GO TOP