ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - एकत्रिंशोऽध्यायः
परशुरामाय श्रीकृष्णकवचप्रदानम् -
नारद उवाच
भगवञ्छ्रोतु मिच्छामि कं मन्त्रं भगवान्हरः ।
कृपया परशुरामाय किं स्तोत्रं कवचं ददौ ॥ १ ॥
को वाऽस्य मन्त्रस्याऽऽराध्यः किं फलं कवचस्य च ।
स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हति ॥ २ ॥
नहियण उवाच
मन्त्राराध्यो हि भगवान्परिपूर्णतमः स्वयम् ।
गोलोकनाथः श्रीकृष्णोगोपगोपीश्वरः प्रभुः ॥ ३ ॥
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।
स्तवराजं महापुण्यं भूतियोगसमुद्भवम् ॥ ४ ॥
मन्त्रकल्पतरुं नाम सर्वकामफलप्रदम् ।
ददौ परशुरामाय रत्नपर्वतसंनिधौ ॥ ५ ॥
स्वयंप्रभानदीतीरे पारिजातवनान्तरे ।
आश्रमे देवलोकस्य माधवस्य च संनिधौ ॥ ६ ॥
महादेव उवाच
वत्साऽऽगच्छ महाभाग भृगुवंशसमुद्भव ।
पुत्राधिकोऽसि प्रेम्णा मे कवचग्रहणं कुरु ॥ ७ ॥
शृणु राम प्रवक्ष्यामि ब्रह्माण्डे परमाद्भुतम् ।
त्रैलोक्यविजयं नाम श्रीकृष्णस्य जयावहम् ॥ ८ ॥
श्रीकृष्णेन पुरा दत्तं गोलोके राधिकाश्रमे ।
रासमण्डलमध्ये च मह्यं वृन्दावने वने ॥ ९ ॥
अतिगुह्यतर तत्त्वं सर्वमन्त्रोघविग्रहम् ।
पुथ्यात्पुभ्यतरं चैव परं स्नेहाद्वदामि ते ॥ १ ० ॥
यद्धृत्वा पठनाद्देवी मूलप्रकृतिरीश्वरी ।
शुम्भं निशुम्भं महिषं रक्तबीजं जघान ह ॥ ११ ॥
यद्धृत्वाऽहं च जगतां संहर्ता सर्वतत्त्ववित् ।
अवध्यं त्रिपुरं पूर्वं दुरन्तमपि लीलया ॥ १२ ॥
यद्धृत्वा पठनाद्ब्रह्मा ससृजे सृष्टिभुत्तमाम् ।
यद्धृत्वा भगवाञ्छेषो विधत्ते विश्वमेव च ॥ १३ ॥
यद्धृत्वा कूर्मराजश्च शेषं धत्ते हि लीलया ।
यद्धृत्वा भगवान्वायुर्विश्वाधारो विभुः स्वयम् ॥ १४ ॥
यद्धृत्वा वरुणः सिद्धः कुबेरश्च धनेश्वरः ।
यद्धृत्वा पठनादिन्द्रो देवानामधिपः स्वयम् ॥ १५ ॥
यद्धृत्वा भाति भुवने तेजोराशिः स्वयं रविः ।
यद्धृत्वा पठनाच्चन्द्रो महाबलपराक्रमः ॥ १६ ॥
अगस्त्यः सागरान्सप्त यद्धृत्वा पठनात्पपौ ।
चकार तेजसा जीर्णं दैत्यं वातापिसंज्ञकम् ॥ १७ ॥
यद्धृत्वा पठनाद्देवी सर्वाधारा वसुंधरा ।
यद्धृत्वा पठनात्पूता गङ्गा भुवनपावनी ॥ १८ ॥
यद्धृत्वा जगतां साक्षी धर्मो धर्मभृतां वरः ।
सर्वविद्याधिदेवी सा यच्च धृत्वासरस्वती ॥ १९ ॥
यद्धृत्वा जगतां लक्ष्मीरत्नदात्री परात्परा ।
यद्धृत्वा पठनाद्वेदान्सावित्री सा सुषाव च ॥ २० ॥
वेदाश्च धर्मवक्तारो यद्धृत्वा पठनाद्भृगो ।
यद्धृत्वा पठनाच्छुद्धस्तेजस्वी हव्यवाहनः ॥
सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां वरः ॥ २१ ॥
दातव्यं कृष्णभक्ताय साधवे च महात्मने ।
शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुवात् ॥ २२ ॥
त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम् ॥ २३ ॥
त्रैलोक्यविजयप्राप्तौ विनियोगः प्रकीर्तितः ।
परात्परं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ २४ ॥
प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा ।
पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ॥ २५ ॥
कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् ।
हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥ २६ ॥
ॐगोविन्दाय स्वाहेति नासिकां पातु संततम् ।
गोपालाय नमो गण्डौ पातु मे सर्वतः सदा ॥ २७ ॥
ॐ नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम ।
ॐकृष्णाय नमः शश्वत्पातु मेऽधरयुग्मकम् ॥ २८ ॥
ॐ गोविन्दाय स्वाहेति दन्तौघ मे सदाऽवतु ।
पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥ २९ ॥
ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ।
रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥ ३० ॥
राधिकेशाय स्वाहेति कण्ठं पातु सदा मम ।
नमो गोपाङ्गनेशाय वक्षः पातु सदा मम ॥ ३१ ॥
श्रगोपेशाय स्वाहेति स्कन्धं पातु सदा मम ।
नमः किशोरवेषाय स्वाहा पृष्ठं सदाऽवतु ॥ ३२ ॥
उदरं पातु मे नित्यं मुकुन्दाय नमः सदा ।
ॐ क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ॥ ३३ ॥
ॐ विष्णवे नमो बाहुयुग्मं पातु सदा मम ।
ॐ ह्रीं भगवते स्वाहा नखरं पातु मे सदा ॥ ३४ ॥
ॐ नमो नारायणायेति नखरन्ध्रं सदाऽवतु ।
ॐ श्रीं क्लीं पद्मनाभाय नाभिं पातु सदा मम ॥ ३५ ॥
ॐसर्वेशाय स्वाहेति कङ्कालं पातु मे सदा ।
ॐ गोपीरमणाय स्वाहा नितम्बं पातु मे सदा ॥ ३६ ॥
क्षें गोपीनां प्राणनाथाय पादौ पातु सदा मम ॥ ३७ ॥
क्षें केशवाय स्वाहेति मम केशान्सदाऽवतु ।
नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥ ३८ ॥
ॐ माधवाय स्वाहेति मे लोमानि सदाऽवतु ।
क्षें ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥ ३९ ॥
परिपूर्णतमः कृष्णाः प्राच्यां मां सर्वदाऽवतु ।
स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु ॥ ४० ॥
पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु ।
नैर्ऋत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ॥ ४१ ॥
गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः ।
उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥ ४२ ॥
ऐशान्यां मां सदा पातु वृन्दावनविहारकृत् ।
वृन्दावनीप्राणनाथः पातु मामूर्ध्वदेशतः ॥ ४३ ॥
सदैव माधवः पातु बलिहारी महाबलः ।
जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥ ४४ ॥
स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा ।
सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ॥ ४५ ॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ ४६ ॥
मया श्रुतं कृष्णवक्त्रात्प्रवक्तव्यं न कस्यचित् ।
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ॥ ४७ ॥
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ।
स च भवतो वसेद्यत्र लक्ष्मीर्वाणी वसेत्ततः ॥ ४८ ॥
यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः ।
निश्चितं कोटिवर्षाणां पूजायाःफलमाप्नुयात् ॥ ४९ ॥
राजसूयसहस्राणि वाजपेयशतानि च ।
अश्वमेधायुतान्येव नरमेधायुतानि च ॥ ५० ॥
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ।
त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥ ५१ ॥
व्रतोपवासनियमं स्वाध्यायाध्यनं तपः ।
स्नानं च सर्वतीर्थेषु नास्यार्हति कलामपि ॥ ५२ ॥
सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि ।
यदि स्यात्सिद्धकवचः सर्वे प्राप्नोति निश्चितम् ॥ ५३ ॥
स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः ।
यो भवेत्सिद्धकवचः सर्वज्ञः स भवेद्ध्रुवम् ॥ ५४ ॥
इदं कवचमज्ञात्वा भजेत्कृष्णं सुमन्दधीः ।
कोटिकल्पं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ५५ ॥
गृहीत्वा कवचं वत्स महीं निःक्षत्रियां कुरु ।
त्रिःसप्तकृत्वो निःशङकः सदानन्दो हि लीलया ॥ ५६ ॥
राज्यं देयं शिरो देयं प्राणा देयाश्च पुत्रक ।
एवं भूतं च कवचं न देयं प्राणसंकटे ॥ ५७ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे नारदनारायणसंवादे
परशुरामाय श्रीकृष्णकवचप्रदानं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
GO TOP
|