ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - एकोनत्रिंशोऽध्यायः

परशुरामस्य कैलाशगमनम् -


नारायण उवाच
ब्रह्मणो वचनं श्रुत्वा प्रणम्य च जगद्‌गुरुम् ।
स्फीतस्तस्माद्वरं प्राप्य शिवलोकं जगाम सः ॥ १ ॥
लक्षयोजनमूर्ध्वं च ब्रह्मलोकाद्विलक्षणम् ।
अनिर्वाच्यसुशोभाढ्यं वाय्वाधारं मनोहरम् ॥ २ ॥
वैकुण्ठं दक्षिणे यस्य गौरीलोकश्च वामतः ।
यदधो ध्रुवलोकश्च सर्वलोकात्परः स्मृतः ॥ ३ ॥
तेषामूर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः ।
अत ऊर्ध्वं न लोकश्च सर्वोपरि च स स्मृतः ॥ ४ ॥
मनोयायी स योगीन्द्रः शिवलोकं ददर्श ह ।
उपमानोपमेयाभ्यां रहितं महदद्‌भुतम् ॥ ५ ॥
योगीन्द्राणां वरेण्यैश्च सिद्धविद्याविशारदैः ।
कोटिकल्पतपःपूतैः पुण्याद्‌भिर्निषेवितम् ॥ ६ ॥
वेष्टितं कल्पवृक्षाणां समूहैर्वाञ्छितप्रदैः ।
समूहैः कामधेनूनांमसंख्यानां विराजितम् ॥ ७ ॥
पारिजाततरूणां च वनराजिविराजितम् ।
मधुलुब्धमधूम्राणां मधुरध्वनिमोहितम् ॥ ८ ॥
नवपल्लवसंयुक्तं पुंस्कोकिलरुतश्रुतम् ।
योगेन योगिनां सृष्टं स्वेच्छया शंकरेण च ॥ ९७ ॥
शिल्पिनां गुरुणा स्वप्ने न दृष्टं विश्वकर्मणा ।
जन्तुभिर्वेष्टितं ब्रह्मन्योगदुष्टैर्निरामयैः ॥ १० ॥
सरोवरशतैदिव्यैः पद्मराजीविराजितैः ।
पुष्पोद्यानायुतैर्युक्तं सदा चातिसुशोभितम् ॥ ११ ॥
मणीन्द्रसाररचितैः शोभितैर्मणिवेदिभिः ।
राजमार्गशतैदिव्यैः सर्वतः परिभूषितम् ॥ १२ ॥
मणीन्द्रसारनिर्माणशतकोटिगृहैर्युतम् ।
नानाचित्रविचित्राढ्यैर्मणीन्द्रकलशोज्ज्वलैः ॥ १३ ॥
तन्मध्यदेशे रम्ये च ददर्श शंकरालयम् ।
मणीन्द्रसाररचितप्राकारं सुमनोहरम् ॥ १४ ॥
अत्यूर्ध्वमम्बरस्पर्शि क्षीरनीरनिभं परम् ।
षोडशद्वारसंयुक्तं शोभितं शतमन्दिरैः ॥ १५ ॥
अमूल्यरत्‍नरचितै रत्‍नसोपानभूषितैः ।
रत्‍नस्तम्भकपाटैश्च हीरकेण परिष्कतैः ॥ १६ ॥
माणिक्यजालमालाभिः सद्‌रत्‍नकलशोज्ज्वलैः ।
नानाविचित्रचित्रेण चित्रितैः सुमनोहरैः ॥ १७ ॥
आलयस्य पुरस्तत्र सिंहद्वारं ददर्श सः ।
रत्‍नेन्द्रसारखचितकपाटैश्च विराजितम् ॥ १८ ॥
शोभितं वेदिकाभिश्च बाह्याभ्यन्तरतः सदा ।
रचिताभिः पद्मरागैर्महामरकतैर्गृहम् ॥ १९ ॥
नानाप्रकारचित्रेण चित्रितं सुमनोहरम् ।
करालरूपावद्राक्षीद्‌द्वारपालौ भयंकरौ ॥ २० ॥
महाकरालदन्तास्यौ विकृतौ रक्तलोचनौ ।
वग्धशैलप्रतीकाशौ महाबलपराक्रमौ ॥ २ १ ॥
विभूतिभूषिताङ्‌गौ च व्याघचर्माम्बरौ वरौ ।
पिङ्‌गलाक्षौ विशालाक्षौ जटिलौ च त्रिलोचनौ ॥ २२ ॥
त्रिशूलपट्टिशधरौ ज्वलन्तौ ब्रह्मतेजसा ।
तौ दृष्ट्‍वा मनसा भीतस्त्रस्तः किंचिदुवाच ह ॥ २३ ॥
विनयेन विनीतश्च दुर्विनीतौ महाबलौ ।
आत्मनः सर्ववृत्तान्तं कथयामास तत्पुरः ॥ २४ ॥
विप्रस्य वचनं श्रुत्वा कृपायुक्तौ बभूवतुः ।
गृहीत्वाऽऽज्ञां चरद्वारा शंकरस्य महात्मनः ॥ २५ ॥
प्रवेष्टुमाज्ञां ददतुरीश्वरानुचरौ वरौ ।
भृगुस्तदाज्ञामादाय प्रविवेश हरिं स्मरन् ॥ २६ ॥
प्रत्येकं षोडश द्वारो ददर्श सुमनोहराः ।
द्वारपालैर्नियुक्ताश्च नानाचित्रविचित्रिताः ॥ २७ ॥
दृष्ट्‍वा तां महदाश्चर्यादपश्यच्छूलिनः सभाम् ।
नानासिद्धगणाकीर्णां महर्षिगणसेविताम् ॥ २८ ॥
पारिजातसुगन्धाढ्यवायुना सुरभीकृताम् ।
ददर्श तत्र देवेशं शंकरं चन्द्रशेखरम् ॥ २९ ॥
त्रिशूलपट्टिशधरं व्याघ्ग्चर्माम्बरं परम् ।
विभूतिभूषिताङ्‌गं तं नागयज्ञोपवीतिनम् ॥
रत्‍नसिंहासनस्थं च रत्‍नभूषणभूषितम् ॥ ३० ॥
महाशिवं शिवकरं शिवबीजं शिवाश्रयम् ।
आत्मारामं पूर्णकामं सूर्यकोटिसमप्रभम् ॥ ३१ ॥
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकारकम् ।
शश्वज्ज्योतिः स्वरूपं च लोकानुग्रहविग्रहम् ॥ ३२ ॥
धृतवन्तं जटाजालं दक्षकन्या समन्वितम् ।
तपसां फलदातारं दातारं सर्वसंपदाम् ॥ ३३ ॥
शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्रिलोचनम् ।
गुह्यं ब्रह्म प्रवोचन्तं शिव्येभ्यस्तत्त्वमुद्रया ॥ ३४ ॥
स्तूयमानं च योगीन्द्रैः सिद्धेन्द्रैः परिसेवितम् ।
पार्षदप्रवरैः शश्वत्सेवितं श्वेतचामरैः ॥ ३५ ॥
ज्योतीरूपं च सर्वाद्यं श्रीकृष्णं प्रकृतेः परम् ।
ध्यायन्तं परमानन्दं पुलकाञ्चितविग्रहम् ॥ ३६ ॥
सुस्वरं साश्रुनेत्रतमुद्‌गायन्त गुणार्णवम् ।
भूतेन्द्रैर्वै रुद्रगणैः क्षेत्रपालैश्च वेष्टितम् ॥ ३७ ॥
मूर्ध्ना ननाम परशुरामो दृष्ट्‍वा तमादरात् ।
तद्वामे कार्तिकेयं च दक्षिणे च गणेश्वरम् ॥ ३८ ॥
नन्दीश्वरं महाकालं वीरभद्रं च तत्पुरः ।
अङ्‌के ददर्श कान्तां तां गौरीं शैलेन्द्रकन्यकाम् ॥ ३९ ॥
ननाम सर्वान्मूर्ध्ना च भक्त्या च परया मुदा ।
दृष्ट्‍वा हरं परं तोषात्स्तोतुं समुपचक्रमे ॥ ४० ॥
सगद्‌गदपदं दीनः साश्रुनेत्रोऽतिकातरः ।
कृताञ्जलिपुटः शान्तः शोकार्तः शोकनाशनम् ॥ ४१ ॥
परशुराम उवाच
ईश त्वां स्तोतुमिच्छामि सर्वथा स्तोतुमक्षमः ।
अक्षराक्षयबीजं च किंवा स्तौमि निरीहकम् ॥ ४२ ॥
न योजनां कर्तुमीशो देवेशं स्तौमि मूढधीः ।
वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ॥ ४३ ॥
वाग्बुद्धिमनसा दूरं सारात्सारं परात्परम् ।
ज्ञानमात्रेण साध्यं च सिद्धं सिद्धैर्निषेवितम् ॥ ४४ ॥
यमाकाशमिवाऽद्यन्तमध्यहीनं तथाऽव्ययम् ।
विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम् ॥ ४५ ॥
ध्यानासाध्यं दुराराध्यमतिसाध्यं कृपानिधिम् ।
त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम् ॥ ४६ ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।
स्वप्नेऽप्यदृष्टं भक्तैश्चाधुना पश्यामि चक्षुषा ॥ ४७ ॥
शक्रादयः सुरगणाः कलया यस्य व संभवाः ।
चराचराः कलांशेन तं नमामि महेश्वरम् ॥ ४८ ॥
स्त्रीरूपं क्लीबरूपं च पौरुषं च बिभर्ति यः ।
सर्वाधारं सर्वरूपं तं नमामि महेश्वरम् ॥ ४९ ॥
यं भास्करस्वरूपं च शशिरूपं हुताशनम् ।
जलरूपं वायुरूपं तं नमामि महेश्वरम् ॥ ५० ॥
अनन्तविश्वसृष्टीनां संहर्तारं भयंकरम् ।
क्षणेन लीलामात्रेण तं नमामि महेश्वरम् ॥ ५१ ॥
इत्येवमुक्त्वा स भृगुः पपात चरणाम्बुजे ।
आशिषं च ददौ तस्मै सुप्रसन्नो बभूव सः ॥ ५२ ॥
जामदग्न्यकृतं स्तोत्रं यः पठेद्‌भक्तिसंयुतः ।
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ ५३ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे नारदनारायणसंवादे
परशुरामस्य कैलाशगमनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥


GO TOP