ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - षड्विंशोऽध्यायः

जमदग्निकार्तवीर्ययुद्धोपशमवर्णनम् -


नारद उवाच
हरिं स्मरन्मुनिश्रेष्ठो वाक्यं श्रुत्वा च भूभृतः ।
हित सत्यं नीतिसारं प्रवक्तुमुपचक्तमे ॥ १ ॥
मुनिरुवाच
गृहं गच्छ महाभाग रक्ष धर्मं सनातनम् ।
सर्वसंपत्स्थिरा शश्वत्स्थिते धर्मे सुनिश्चितम् ॥ २ ॥
त्वां च दृष्टा निराहारं समानीय गृहं नृप ।
तव पूजामकरवं यथाशक्ति विधानतः ॥ ३ ॥
सांप्रतं मूर्च्छितं दृष्ट्‍वा पादरेणु शुभाशिषम् ।
अददां चेतयांचक्रे वक्तुमेवोचितं न च ॥ ४ ॥
नृपस्तद्वचनं श्रुत्वा प्रणम्य मुनिपुंगवम् ।
रथमन्यं त्वारुरोह युद्धं देहीत्युयाच ह ॥ ५ ॥
मुनिः कृत्वा च संनाहं तं योद्धुमुपचक्रमे ।
राजा तं युयुधे तत्र कोषेन हृतचेतनः ॥ ६ ॥
कपिलादत्तशस्त्रेण न्यस्तशस्त्रं चकार तम् ।
कपिलादत्तया शक्त्या पुनर्मूर्च्छामवाप च ॥ ७ ॥
पुनश्च चेतनां प्राप्य राजा राजीवलोचनः ।
मुनिना युयुधे तत्र कोपेन पुनरेव च ॥ ८ ॥
आग्नेयं योजयामास समरे नृपपुंगवः ।
मुनिर्निर्वापयामास वारुणेन च लीलया ॥ ९ ॥
नृपेन्द्रो वारुणास्त्रं च चिक्षेप समरे मुनौ ।
वायव्यास्त्रेण स मुनिः शमयामासलीलया ॥ १० ॥
वायव्यास्त्रं नृपश्रेष्ठश्चिक्षेप समरे तदा ।
गान्धर्वेण मुनिश्रेष्ठः शमयामास तत्क्षणम् ॥ ११ ॥
नागास्त्रं च नृपश्रेष्ठश्चिक्षेप रणमूर्धनि ।
गारुडेन मुनिश्रेष्ठो निजघान क्षणान्मुने ॥ १२ ॥
माहेश्वरं महास्त्रं च शतसूर्यसमप्रभम् ।
चिक्षेप नृपतिश्रेष्ठो द्योतयन्तं दिशो दश ॥ १३ ॥
वैष्णवास्त्रेण दिव्येन त्रिलोकव्यापकेन च ।
मुनिर्निर्वापयामास बहुयत्‍नेन नारद ॥ १४ ॥
मुनिर्नारायणास्त्रं च चिक्षिपे मन्त्रपूर्वकम् ।
शस्त्रं त्यक्त्वा महाराजो नमामशरणं ययौ ॥ १५ ॥
ऊर्ध्वं च भ्रमणं कृत्वा क्षणं दीप्त्वा दिशो दश ।
प्रलयाग्निसमं तत्र स्वयमन्तरधीयत ॥ १६ ॥
जृम्भणास्त्रं च स मुनिश्चिक्षेप रणमूर्धनि ।
निद्रां प्रापत्तेन राजा सुष्वाप च मृतो यथा ॥ १७ ॥
दृष्ट्‍वा नृपं निद्रितं तं चार्धचन्द्रेण तत्क्षणम् ।
चिच्छेद सारथिं यानं धनुर्बाणं मुनिस्तदा ॥ १८ ॥
मुकुटं च क्षुरप्रेण च्छत्रं संनाहमेव च ।
अस्त्रं तूणं वाजिगणं विविधेन च भूभृतः ॥ १९ ॥
मुनिस्तत्सचिवात्सर्वान्नागास्त्रेणैव लीलया ।
निबध्य स्थापयामास प्रहस्य समरस्थले ॥ २० ॥
मुनिस्तं बोधयामास सुमन्त्रेणैव लीलया ।
निबद्धसर्वामात्यानां दर्शयामास भूमिपम् ॥ २१ ॥
दर्शयित्वा नृपं तांश्च मोचयामास तत्क्षणम् ।
नृपेन्द्रमाशिषं कृत्वा गृहं गच्छेत्युवाच ह ॥ २२ ॥
राजा कोपात्समुत्थाय शूलमुद्यम्य यत्‍नतः ।
चिक्षेप तं मुनिश्रेष्ठं मुनिः शक्त्या जघान तम् ॥ २३ ॥
एतस्मिन्नन्तरे ब्रह्मा समागत्य रजस्वलम् ।
सुप्रीति जनयामास सुनीत्या च परस्परम् ॥ २४ ॥
मुनिर्ननाम ब्रह्माणं तुष्टाव च रणस्थले ।
राजा नत्वा विधिं चर्षिं स्वपुरं प्रययौ तदा ॥ २५ ॥
मुनिर्ययौ स्वाश्रमं च स्वलोकं कमलोद्‌भवः ।
इत्येवं कथितं किंचिदपरं कथयामिते ॥ २६ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे जमदग्निकार्तवीर्य-
युद्धोपशमवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥


GO TOP