ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - एकषष्टितमोऽध्यायः

दुर्गोपाख्याने गुरोस्ताराप्राप्तिबुधोत्पद्यादिवर्णनम् -


नारद उवाच
ततः परं कि रहस्यं बभूवासुरदेवयोः ।
श्रोतुमिच्छामि भगवन्परं कौतूहलं मम ॥ १ ॥
नारायण उवाच
ब्रह्मा जगाम निलयं शुक्रस्य च महात्मनः ।
नानादैत्यगणाकीर्णं रत्‍नमण्डपभूषितम् ॥ २ ॥
पञ्चाशत्कोटिभिः शिष्यैः परीतं ब्रह्मवादिभिः ।
सप्तभिः परिखाभिश्च वेष्टितं दुर्गमेव च ॥ ३ ॥
रक्षितं रक्षकगणैर्दैत्यैश्च शतकोटिभिः ।
पद्मरागैविरचितैः प्रावारैः परिशोभितम् ॥ ४ ॥
ददर्श जगतां धाता सभायां भृगुनन्दनम् ।
स्तुतं मुनिगणैर्देत्यै रत्‍नसिंहासनस्थितम् ॥ ५ ॥
जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम् ।
कोटिसूर्यप्रभं शश्वज्ज्वलन्तं ब्रह्मतेजसा ॥ ६ ॥
दृष्ट्‍‍वा पौत्रं प्रभायुक्तं विधाता हृष्टमानसः ।
आत्मानं कृतिनं मेने पुत्रं पौत्रं च नारद ॥ ७ ॥
दृष्ट्‍वा पितामहं शुक्रो धातारं जगतां प्रभुम् ।
उत्थाय सहसा भीतः प्रणनाम कृताञ्जलिः ॥ ८ ॥
आदाय पूजयामास चोपचारांस्तु षोडश ।
तुष्टाव परया भक्त्या सभ्रमेण यथागमम् ॥ ९ ॥
विद्यामन्त्रप्रदातारं दातारं सर्वसंपदाम् ।
स्वकर्मणां च फलदं सर्वेषां विश्वतो वरम् ॥ १० ॥
शुक्रस्य स्तवनेनैव संतुष्टो जगतां पतिः ।
अवरुह्य रथात्तूर्णमवसत्तत्र संसदि ॥ ११ ॥
शुक्रेण शिरसो दत्तरत्‍नसिंहासने वरे ।
तेजसा ज्वलिते रम्ये निर्मिते विश्वकर्मणा ॥ १२ ॥
शुक्रः प्रणम्य ब्रह्माणं कुमारं सनकं क्रतुम् ।
वसिष्ठं च मरीचिं च सनन्दं च सनातनम् ॥ १३ ॥
कपिलं वै पञ्चशिखं वोढुमङ्‌गिरसं मुने ।
धर्मं मां च नरं भक्त्या प्रणनाम कृताञ्जलिः ॥ १४ ॥
प्रत्येकं पूजयामास सादरं च यथोचितम् ।
सिंहासनेषु रम्येषु वासयामास धार्मिकः ॥ १५ ॥
प्रहृष्टवदना सर्वे प्रणेमुर्दितिनन्दनाः ।
ऋषिसंघाश्च धातारं तुष्टुवुश्च यथागमम् ॥ १६ ॥
सर्वान्संस्तूय स कविरवोचत्संपुटाञ्जलिः ।
साश्रुनेत्रः सपुलकः प्रणतो विनयान्वितः ॥ १७ ॥
शुक्र उवाच
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।
स्वयं विधाता भगवान्साक्षाद्‌दृष्टः स्वमन्दिरे ॥ १८ ॥
साक्षाद्‌दृष्टाश्च तत्पुत्रा भगवन्तः सनातनाः ।
तुष्टः कृष्णोऽद्य मामेव परमात्मा परात्परः ॥ १९ ॥
कृतार्थं कर्तुमीशा मां युष्माकं स्वागतं शिशुम् ।
स्वात्मारामेषु कुशलं प्रश्नमेव विडम्बनम् ॥ २० ॥
पवित्रं कर्तुमीशा मां हेतुरागमनेऽत्र वः ।
अपरं ब्रूथ किंवाऽपि शास्त नः करवाणि किम् ॥ २१ ॥
ब्रह्मोवाच
उद्विग्नश्चिरविच्छेदात्त्वां पौत्रं द्रष्टुमागतः ।
विच्छेदः पुत्रपौत्राणां मरणादतिरिच्यते ॥ २२ ॥
कुशलं ते मुनिश्रेष्ठ पुत्रयोश्चापि योषितः ।
कुशलं ते स्वधर्माणां काम्यानां तपसामपि ॥ २३ ॥
दिने दिनेऽपरिच्छन्नं श्रीकृष्णार्चनमीप्सितम् ।
स्वगुरोः सेवनं नित्यमविच्छिन्नं भवेत्तव ॥ २४ ॥
गुर्विष्टयोः पूजनं च सर्वमङ्‌गलकारणम् ।
पापाधिरोगशोकघ्नं पुण्यं हर्षप्रदं शुभम् ॥ २५ ॥
अभीष्टदेवः संतुष्टो गुरौ तुष्टे नृणामिह ।
इष्टदेवे च संतुष्टे संतुष्टाः सर्वदेवताः ॥ २६ ॥
गुरुर्विप्रः सुरो रुष्टो येषां पातकिनामिह ।
तेषां च कुशलं नास्ति विघ्नस्तस्य पदे पदे ॥ २७ ॥
तुष्टश्च सततं वत्स श्रीकृष्ण प्रकृतेः परः ।
सर्वान्तरात्मा भगवांस्तव भक्त्या च निर्गुणः ॥ २८ ॥
तव तुष्टो गुरुरहं विधाता जगतामपि ।
मयि तुष्टे हरिस्तुष्टो हरौ तुष्टे तु देवताः ॥ २९ ॥
सांप्रतं शृणु मे धीमन्नत्राऽऽगमनकारणम् ।
प्रेषितस्य सुराणां च विश्वसंहर्तुरेव च ॥ ३० ॥
शिवस्य गुरुपुत्रस्य साध्वीं तारां बृहस्पतेः ।
अपहृत्य निशानाथस्तवैव शरणागतः ॥ ३१ ॥
शंभुर्धर्मश्च सूर्यश्च शक्रोऽनन्तश्च पुत्रक ।
आदित्या वसवो रुद्रा दिक्पालाश्च दिगीश्वराः ॥ ३२ ॥
युद्धायाऽऽयान्ति संनद्धास्तिस्रः कोट्यश्च देवताः ।
नागाः किंपुरुषाश्चैव यक्षराक्षसगुह्यकाः ॥ ३३ ॥
भूताः प्रेताः पिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।
किराताश्चैव गन्धर्वाः समुद्रपुलिनेऽधुना ॥ ३४ ॥
तारकामयसंग्रामे मध्यस्थोऽहं सुतैः सह ।
देहि तारां रणं किंवा त्यज चन्द्रं च कामिनम् ॥ ३५ ॥
शुक्र उवाच
आगच्छन्तु सुराः सर्वे संनद्धा रणदुर्मदाः ।
योत्स्ये विना महेशं च सर्वेषां च गुरु परम् ॥ ३६ ॥
दैत्या ऊचुः
उभयेषां गुरुः शंभुर्मान्यो वन्द्यश्च सर्वदा ।
धर्मश्च साक्षी सर्वेषां त्वमेव च पितामह ॥ ३७ ॥
अन्यांश्च तृणतुल्यांश्च नहि मन्यामहे वयम् ।
आगच्छन्तु च योत्स्यामो व्रज ब्रूहि जगद्‌गुरो ॥ ३८ ॥
कृपया गुरुपुत्रस्य यद्यायाति महेश्वरः ।
आग्नेयास्त्रं प्रयोक्ष्यामः पश्चाद्योत्स्यामहे प्रभो ॥ ३९ ॥
ब्रह्मोवाच
कालाग्निरुद्रः संहर्ता विश्वस्य बलिनां वरः ।
हे वत्सास्तेन सार्धं च को वा युद्धं करिष्यति ॥ ४० ॥
भद्रकाली जगन्माता खड्गखर्परधारिणी ।
तया दुर्धर्षया सार्धं को वा युद्धं करिष्यति ॥ ४ १ ॥
सा सहस्रभुजा देवी मुण्डमालाविभूषणा ।
योजनायतवक्त्रा च दशयोजनविस्तृता ॥ ४२ ॥
सप्ततालप्रमाणाश्च यस्या दन्ता भयानकाः ।
क्रोशप्रमाणजिह्वा च महालोला भयंकरी ॥ ४३ ॥
अतीवरौद्राः संनद्धा भीमाः शंकरकिंकराः ।
अतिभीमा भैरवाश्च नन्दी चरणकर्कशः ॥ ४४ ॥
शिवस्य पार्षदाः सर्वे महाबलपराक्रमाः ।
वीरभद्रादयः शूराः कोटिसूर्यसमप्रभाः ॥ ४५ ॥
सहस्रमूर्ध्नः शेषस्य फणामण्डलभूषणम् ।
विश्वं सर्षपतुल्यं च को वा योद्धा च तत्समः ॥ ४६ ॥
कालाग्निरुद्रः संहर्ता यस्य शंभोश्च किंकराः ।
शूलिनस्त्रिपुरघ्नस्य ज्वलतो ब्रह्मतेजसा ॥ ४७ ॥
यस्य पाशुपतास्त्रेण दुर्निवार्येण पुत्रकाः ।
भस्मीभूतं भवेद्विश्वं दैत्यानां चैव का कथा ॥ ४८ ॥
यस्य शूलेन भिन्नश्च शङ्खचूडः प्रतापवान् ।
सुदामा पार्षदवरः कृष्णस्य परमात्मनः ॥ ४९ ॥
त्रिकोटिसूर्यसदृशस्तेजस्वी परमाद्‌भुतः ।
राधाकवचकण्ठश्च सर्वदैत्यजनेश्वरः ॥ ५० ॥
मधुकैटभयोर्हन्ता हिरण्यकशिपोश्च यः ।
स च विष्णुः समायाति श्वेतद्वीपात्स्वयं प्रभुः ॥ ५१ ॥
इत्युक्त्वा जगतां धाता विरराम च संसदि ।
प्रहस्योवाच दैतेयो दानवानामधीश्वरः ॥ ५२ ॥
प्रह्लाद उवाच
नमस्तुभ्यं जगद्धातः सर्वेषां प्राक्तनेश्वर ।
सर्वपूज्यः सर्वनाथः किं वक्ष्यामि तवाग्रतः ॥ ५३ ॥
हिरण्यकशिपोर्हन्ता मधुकैटभयोश्च यः ।
सा कला यस्य कृष्णस्य परिपूर्णतमस्य च ॥ ५४ ॥
सर्वान्तरात्मनस्तस्य चक्रं नाम सुदर्शनम् ।
अस्माकं लोकमस्मांश्च शश्वद्‌रक्ष्यति दुःसहम् ॥ ५५ ॥
ततो न बलवाञ्छंभुर्न च पाशुपतं विधे ।
न च काली न शेषश्च न च रुद्रादयः सुराः ॥ ५६ ॥
यस्य लोमसु विश्वानि निखिलानि जगत्पते ।
सर्वाधारस्य च विभोः स्थूलात्स्थूलतरस्य च ॥ ५७ ॥
षोडशांशो भगवतः स चैव हि महान्विराट् ।
अनन्तो न हि तत्स्थूलो न काली न बृहती ततः ॥ ५८ ॥
आगच्छन्तु सुराः सर्वे युद्धं कुर्वन्तु सांप्रतम् ।
न बिभेमि शरेभ्यश्च न च पाशुपताद्धरात् ॥ ५९ ॥
नमस्तुभ्यं भगवते शिवाय शिवरूपिणे ।
नमोऽनन्ताय साधुभ्यो वैष्णवेभ्यः प्रजापते ॥ ६० ॥
श्रीकृष्णस्य प्रसादेन निर्भयोऽहं निरामयः ।
न मे स्वात्मबलं ब्रह्मंस्तद्‌बलं यत्प्रभोर्बलम् ॥ ६१ ॥
स्वपापेन मृतस्तातो पुरा वै विष्णुनिन्दया ।
निर्बन्धाच्छङ्खचूडश्च दर्पाच्च मधुकैटभौ ॥ ६२ ॥
त्रिपुरः किंकरोऽस्माकं वीरत्वेन न गण्यते ।
तथाऽपि प्रेरितस्तेन सरथश्च महेश्वरः ॥ ६३ ॥
इत्युक्त्वा दानवश्रेष्ठो विरराम च संसदि ।
उवाच जगतां धाता पुनरेव च नारद ॥ ६४ ॥
ब्रह्मोवाच
विनाशकारणं युद्धमुभयोर्दैत्यदेवयोः ।
सुप्रीत्याचरणं वत्स सर्वमङ्‌गलकारणम् ॥ ६५ ॥
तारां भिक्षां देहि मह्यं भिक्षुकाय च वेधसे ।
विमुखे भिक्षुके राजन्गृहस्थः सर्वपापभाक् ॥ ६६ ॥
सनत्कुमार उवाच
स्वकीर्तिं रक्ष राजेन्द्र सिंहस्त्वं सुरदैत्ययोः ।
यस्य भिक्षुर्जगद्धाता तस्य कीर्तेश्च का कथा ॥ ६७ ॥
सनातन उवाच
न जितस्त्वं सुरेन्द्रैश्च ब्रह्मेशानपुरोगमैः ।
रक्षितः कृष्णचक्रेण वैष्णवः पुण्यवाञ्छुचिः ॥ ६८ ॥
सनन्दन उवाच
यस्येष्टदेवः सर्वात्मा श्रीकृष्णः प्रकृतेः परः ।
गुरुश्च वैष्णवः शुक्रः स च केन जितो महान् ॥ ६९ ॥
सनक उवाच
पुण्यवान्न जितः केन जितः पापी स्वपातकैः ।
पुण्यदीपो न निर्वाति पाषण्डेनैव वायुना ॥ ७० ॥
ऋषय ऊचुः
देहि तारां महाभाग चन्द्रं प्राणाधिकं गुरोः ।
स्वकीर्तिं रक्ष सुचिरं प्रार्थयामः पुनः पुनः ॥ ७१ ॥
प्रह्लाद उवाच
स्थिते मदीश्वरे साक्षान्नहि भृत्यो विराजते ।
कर्तारं ब्रूहि मन्नाथं गुरुं शुक्रं सतां वरम् ॥ ७२ ॥
शिष्याणामाधिपत्ये च साधूनां गुरुरीश्वरः ।
गुरौ समर्पितं पूर्वं सर्वैश्वर्यं मुनीश्वरे ॥ ७३ ॥
वयं भृत्याश्च पोष्याश्च स्वगुरोः परिचारकाः ।
ते च शिष्याः कुशलिनः गुर्वाज्ञां पालयन्ति ये ॥ ७४ ॥
प्रह्लादस्य वचः श्रुत्वा चकार प्रार्थनां कविम् ।
ददौ शुक्रश्च तारां तां चन्द्रं च मलिनं मुने ॥ ७५ ॥
दत्त्वा तारां विधुं शुक्रः प्रणनाम विधेः पदे ।
नमस्कृत्य मुनिभ्यश्च प्रणतः स्वपुरं ययौ ॥ ७६ ॥
प्रह्लादः सगणो भक्त्या नमस्कृत्य विधेः पदे ।
प्रत्येकं वै मुनिगणान्प्रणतः स्वगृहं ययौ ॥ ७७ ॥
ब्रह्मा ददर्श तारां च प्रणतां स्वपदे सतीम् ।
लज्जया नम्रवक्त्रां च रुदतीं गुर्विणीं मुने ॥ ७८ ॥
चन्द्रं च प्रणतं धाता क्रोडे संस्थाप्य मायया ।
उवाच मलिनां तारां कातरां च कृपामयः ॥ ७९ ॥
तारे त्यज भयं मत्तो भयं किं ते मयि स्थिते ।
सौभाग्ययुक्ता स्वपतौ भविष्यसि वरेण मे ॥ ८० ॥
दुर्बला बलिना ग्रस्ता निष्कामा न च्युता भवेत् ।
प्रायश्चित्तेन शुद्धा सा न स्त्री जारेण दुष्यति ॥ ८१ ॥
सकामा कामतो जारं भजते स्वसुखेन च ।
प्रायश्चित्तान्न शुद्धा सा स्वामिना परिवर्जिता ॥ ८२ ॥
कुम्भीपाके पच्यते सा यावच्चन्द्रदिवाकरौ ।
अन्नं विष्ठा जलं मूत्रं स्पर्शनं सर्वपापदम् ॥ ८३ ॥
पापीयस्याश्च तस्याश्च साधुभिः परिवर्जितम् ॥ ८४ ॥
कस्य गर्भं वद शुभे गच्छ वत्से गुरोर्गृहम् ।
त्यज लज्जां महाभागे सर्वं च प्राक्तनाद्‌भवेत् ॥ ८५ ॥
ब्रह्मणो वचनं श्रुत्वा तमुवाच सती तदा ।
चन्द्रस्य गर्भं हे तात बिभर्म्यद्य स्वकर्मणा ॥ ८६ ॥
सर्वे मे साक्षिणः सन्ति दुर्बलायाः प्रजापते ।
यदा जग्राह चन्द्रो मां दयाहीनश्च दुर्मतिः ॥ ८७ ॥
इत्युक्त्वा तारकादेवी सुषाव कनकप्रभम् ।
कुमारं सुन्दरं तत्र ज्वलन्तं ब्रह्मतेजसा ॥ ८८ ॥
गृहीत्वा तनयं चन्द्रो नत्वा ब्रह्माणमीश्वरम् ।
जगाम स स्वभवनं ब्रह्मा सिन्धुतटं ययौ ॥ ८९ ॥
साध्वीं तारां च गुरवे देवेभ्योऽप्यभयं ददौ ।
आशिषं शंभुधर्माभ्यां दत्त्वा लोकं ययौ विधिः ॥ ९० ॥
देवा ययुः स्वभवनं स्वगृहं च बृहस्पतिः ।
भावानुरक्तवनितां प्राप्य संहृष्टमानसः ॥ ९१ ॥
तारकागर्भसंभूतः स एव च बुधः स्वयम् ।
तेजस्वी सद्‌ग्रहो ब्रह्मंश्चन्द्रस्य तनयो महान् ॥ ९२ ॥
स एव नन्दनवने चित्रां संप्राप्य निर्जने ।
घृताच्या गर्भसंभूतां कुबेरस्य च रेतसा ॥ ९३ ॥
दृष्ट्‍वा च निर्जने रम्या कन्यां कमललोचनाम् ।
अतीव यौवनस्थां च बालां षोडशवार्षिकीम् ।
गान्धर्वेण विवाहेन तां जग्राह विधोः सुतः ॥ ९४ ॥
तस्यामथायं रहसि वीर्याधानं चकार सः ।
बभूव राजा चित्रायां चैत्रो वै मण्डलेश्वरः ॥ ९५ ॥
सप्तद्वीपवतीं पृथ्वीं शास्ति वै धार्मिको बली ।
शतं नद्यो घृतानां च दध्नां नद्यः शतानि च ॥ ९६ ॥
शतानि नद्यो दुग्धानां मधुनद्यश्च षोडश ।
दश नद्यश्च तैलानां शर्करालक्षराशयः ॥ ९७ ॥
मिष्टान्नानां स्वस्तिकानां लक्षराश्यश्च नित्यशः ।
पञ्चकोटिगवां मांसं सापूपं स्वन्नमेव च ॥ ९८ ॥
एतेषां च नदीराशीर्भुञ्जते ब्राह्मणा मुने ।
गवां लक्षं च रत्‍नानां मणीनां लक्षमेव च ॥ ९९ ॥
शतलक्षं सुवर्णानां लक्षं वै सूक्ष्मवाससाम् ।
रत्‍नानां भूषणं पात्रमतीव सुमनोहरम् ॥ १०० ॥
ददौ द्विजातये राजा नित्यं वै जीवितावधि ।
तस्य चैत्रस्य पुत्रश्च राजाऽधिरथ एव च ॥ १०१ ॥
तस्य पुत्रश्च सूऽरथश्चक्रवर्ती बृहच्छ्रवाः ।
महाज्ञानं च संप्राप्य मेधसो मुनिसत्तमात् ॥ १०२ ॥
भेजे पुरा विष्णुमायां पुण्यक्षेत्रे च भारते ।
शरत्काले महापूजां चकार स सरित्तटे ॥ १०३ ॥
वैश्येन सार्धं स महाञ्ज्ञानिनां मुनिसत्तम ।
राजा कलिङ्‌गदेशस्य विराधश्च विशां वरः ॥ १०४ ॥
तस्य पुत्रो महायोगी द्रुमिणो ज्ञानिनां वरः ।
द्रुमिणो वैष्णवः प्राज्ञः पुष्करे दुष्करं तपः ॥ १०५ ॥
कृत्वा समाधिं संप्राप ज्ञानिनां वैष्णवाग्रणीः ।
पुत्रैर्दारैर्निरस्तश्च धनलोभाद्‌दुरात्मभिः ॥ १०६ ॥
स च कोटिसुवर्णं च नित्यं दत्त्वा जलं पपौ ।
मुक्तिं संप्राप संसेव्य विष्णुमायां सनातनीम् ॥ १०७ ॥
राजा लेभे मनुत्वं च राज्यं निष्कण्टकं मुने ।
उवाच मधुरं वाक्यं धाता त्रिजगतां पतिः ॥ १०८ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे दुर्गोपाख्याने गुरोस्ताराप्राप्ति-
बुधोत्पद्यादिवर्णनं नामैकषष्टितमाऽध्यायः ॥ ६१ ॥


GO TOP