ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् -चतुःपञ्चाशत्तमोऽध्यायः

राधोपाख्याने सुयज्ञोपाख्याने सुयज्ञगोलोकगमनम् -


राजोवाच
कुत्राऽऽधारो महाविष्णोः सर्वाधारस्य तस्य च ।
कालभीतस्य कतिचित्कालमायुर्मुनीश्वर ॥ १ ॥
क्षुद्रस्य कतिचित्कालं ब्रह्मणः प्रकृतेस्तथा ।
मनोरिन्द्रस्य चन्द्रस्य सूर्यस्याऽऽयुस्तथैव च ॥ २ ॥
अन्येषां वै जनानां च प्राकृतानां परं वयः ।
वेदोक्तं सुविचार्यं च वद वेदविदां वर ॥ ३ ॥
विश्वानामूर्ध्वभागे च कः स्याद्वा लोक एव सः ।
कथयस्व महाभाग संदेहच्छेदनं कुरु ॥ ४ ॥
मुनिरुवाच
गोलोको नृप विश्वानां विस्तृतश्च नभः समः ।
तया नित्यं डिम्बरूपः श्रीकृष्णेच्छासमुद्‌भवः ॥ ५ ॥
जलेन परिपूर्णश्च कृष्णस्य मुखबिन्दुना ।
सृष्ट्युन्मुखस्याऽऽदिसर्गे परिश्रान्तस्य खेलतः ॥ ६ ॥
प्रकृत्या सह युक्तस्य कलया निजया नृप ।
तत्राऽऽधारो महाविष्णोर्विश्वाधारस्य विस्तृतः ॥ ७ ॥
प्रकृतेर्गर्भसंभूतडिम्बोद्‌भूतस्य भूमिप ।
सुविस्तृते जलाधारे शयानश्च महाविराट् ॥ ८ ॥
राधेश्वरस्य कृष्णस्य षोडशांशः प्रकीर्तितः ।
दूर्वादलश्यामरूपः सस्मितश्च चतुर्भुजः ॥ ९ ॥
वनमालाधर श्रीमाञ्शोभितः पीतवाससा ।
ऊर्ध्व नभसि तद्विष्णोर्नित्यवैकुण्ठ एव च ॥ १० ॥
आत्माकाशसमो नित्यो विस्तृतश्चन्द्रबिम्बवत् ।
ईश्वरेच्छासमुद्‌भूतो निर्लक्ष्यश्च निराश्रयः ॥ ११ ॥
आकाशवत्सुविस्तारो रत्‍नौघैश्च विनिर्मितः ।
तत्र नारायणः श्रीमान्वनमाली चतुर्भुजः ॥ १२ ॥
लक्ष्मीसरस्वतीगङ्‌गातुलसीपतिरीश्वरः ।
सुनन्दनन्दकुमुदपार्षदादिभिरावृतः ॥ १३ ॥
सर्वेशः सर्वसिद्धेशो भक्तानुग्रहविग्रहः ।
श्रीकृष्णश्च द्विधाभूतो द्विभुजश्च चतुर्भुजः ॥ १४ ॥
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ।
ऊर्ध्वं वैकुण्ठलोकाच्च पञ्चाशत्कोटियोजनात् ॥ १५ ॥
गोलोको वर्तुलाकारो वरिष्ठः सर्वलोकतः ।
अमूल्यरत्‍नखचितैर्मन्दिरैश्च विभूषितः ॥ १६ ॥
रत्‍नेन्द्रसारखचितैः स्तम्भसोपानचित्रितैः ।
मणीन्द्रदर्पणासक्तैः कपाटैः कलशोज्ज्वलैः ॥ १७ ॥
नानाचित्रविचित्रैश्च शिबिरैश्च विराजितः ।
कोटियोजनविस्तीर्णो दैर्घ्ये शतगुणस्तथा ॥ १८ ॥
विरजासरिदाकीर्णैः शतशृङ्‌गैः सुवेष्टितः ।
सरिदर्धप्रमाणेन दैर्ध्येण च ततेन च ॥ १९ ॥
शैलार्धपरिमाणेन युक्तो वृन्दावनेन च ।
तदर्धमानविलसद्‌रासमण्डलमण्डितः ॥ २० ॥
सरिच्छैलवनादीनां मध्ये गोलोक एव च ।
यथा पङ्‌कजमध्ये च कर्णिका सुमनोहरा ॥ २१ ॥
तत्र गोगोपगोपीभिर्गोपीशो रासमण्डले ।
रासेश्वर्या राधिकया संयुक्तः संततं नृप ॥ २२ ॥
द्विभुजो मुरलीहस्तः शिशुर्गोपालरूपधृत् ।
वह्निशुद्धांशुकाधानो रत्‍नभूषणभूषितः ॥ २३ ॥
चन्दनोक्षितसर्वाङ्‌गो रत्‍नमालाविराजितः ।
रत्‍नसिंहासनस्थश्च रत्‍नच्छत्रेण शोभितः ॥ २४ ॥
तथा स प्रियगोपालैः सेवितः श्वेतचामरैः ।
भूषिताभिश्च गोपीभिर्मालाचन्दनचर्चितः ॥ २५ ॥
सस्मितः सकटाक्षाभिः सुवेषाभिश्च वीक्षितः ।
कथितो लोकविस्तारो यथाशक्ति यथागमम् ॥ २६ ॥
यथाश्रुतं शंभुवक्त्रात्कालमानं निशामय ।
पात्रं षट्पलसंभूतं गंभीरं चतुरङ्‌गुलम् ॥ २७ ॥
स्वर्णमाषकृतच्छिद्रं दण्डैश्च चतुरङ्‌गुलं ।
यावज्जलप्लुतं पात्रं तत्कालं दण्डमेव च ॥ २८ ॥
दण्डद्वयं मुहूर्तं च यामस्तस्य चतुष्टयम् ।
वासरश्चाष्टभिर्यामैः पक्षस्तैर्दशपञ्चभिः ॥ २९ ॥
मासो द्वाभ्यां च पक्षाभ्यां वर्षं द्वादशमासकैः ।
मासेन वै नराणां च पितृणां तदहर्निशम् ॥ ३० ॥
कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः प्रकीर्तिता ।
वत्सरेण नराणां च देवानां च दिवानिशम् ॥ ३१ ॥
अयनं ह्युत्तरमहो रात्रिर्वै दक्षिणायनम् ।
युगकर्मानुरूपं च नरादीनां वयो नृप ॥ ३२ ॥
प्रकृतेः प्राकृतानां च ब्रह्मादीनां निशामय ।
कृतं त्रेता द्वापरं च कालश्चेति चतुर्युगम् ॥ ३३ ॥
दिव्यैर्द्वादशसाहस्रैः सावधानं निशामय ।
चत्वारि त्रीणि च द्व्येकं सहस्राणि कृतादिकम् ॥ ३४ ॥
तेषां च संध्यासंध्यांशौ द्वे सहस्रे प्रकीर्तिते ।
त्रिचत्वारिंशकैर्लक्षैः सविंशतिसहस्रकैः ॥ ३५ ॥
चतुर्युगं परिमितं नरमानक्रमेण च ।
लक्षैदच सप्तदशभिः साष्टविंशसहस्रकैः ॥ ३६ ॥
कृतं युगं नृमानेन संख्याविद्‌भिः प्रकीर्तितम् ॥ ३७ ॥
सहस्रैः षण्णवतिभिर्लक्षैर्द्वादशभिः सह ।
त्रेतायुगं परिमितं कालविद्‌भिः प्रकीर्तितम् ॥ ३८ ॥
अष्टलक्षैः सह मितं चतुःषष्टिसहस्रकम् ।
परिमाणं द्वापरस्य संख्याविद्‌भिरितीरितम् ॥ ३९ ॥
सद्वात्रिंशत्सहस्रैश्च चतुर्लक्षैश्च वत्सरैः ।
नृमानाद्वै कलियुगं विदुः कालविदो बुधाः ॥ ४० ॥
यथा सप्त च वारा वै तिथयः षोडशस्मृताः ।
दिवारात्र्यश्च पक्षौ द्वौ मासो वर्षं च निर्मितम् ॥ ४१ ॥
यथा भ्रमति तच्चक्रमेवमेव चतुर्युगम् ।
यथा युगानि राजेन्द्र तथा मन्वन्तराणि च ॥ ४२ ॥
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।
एवं क्रमाद्‌भ्रमन्त्येव मनवश्च चतुर्दश ॥ ४३ ॥
पञ्चविंशतिसाहस्रं षष्ट्यन्तशतपञ्चकम् ।
नरमानयुगं चैव परं मन्वन्तरं स्मृतम् ॥ ४४ ॥
आख्यानं च मनूनां च धर्मिष्ठानां नराधिप ।
यच्छ्रुतं शिववक्त्रेण तत्त्वं मत्तो निशामय ॥ ४५ ॥
आद्यो मनुर्ब्रह्मपुत्रः शतरूपा पतिव्रता ।
धर्मिष्ठानां वरिष्ठश्च गरिष्ठो मनुषु प्रभुः ॥ ४६ ॥
स्वायंभुवः शंभुशिष्यो विष्णुव्रतपरायणः ।
जीवन्मुक्तो महाज्ञानी भवतः प्रपितामहः ॥ ४७ ॥
राजसूयसहस्रं च चक्रे वै नर्मदातटे ।
त्रिलक्षमश्वमेधं च त्रिलक्षं नरमेधकम् ॥ ४८ ॥
गोमेधं च चतुर्लक्षं विधिवन्महदद्‌भुतम् ।
ब्राह्मणानां त्रिकोटीश्च भोजयामास नित्यशः ॥ ४९ ॥
पञ्चलक्षगवां मांसैः सुपक्वैर्घृतसंस्कृतैः ।
चर्व्यैश्चोष्यैर्लेह्यपेयैर्मिष्टद्रव्यैः सुदुर्लभैः ॥ ५० ॥
अमूल्यरत्‍नलक्षं च दशकोटिसुवर्णकम् ।
स्वर्णशृङ्‌गयुतं दिव्यं गवां लक्षं सूपूजितम् ॥ ५१ ॥
वह्निशुद्धानि वस्त्राणि मणीन्द्राणां च लक्षकम् ।
भूमिं च सर्वसस्याढ्यां गजेन्द्राणां चलक्षकम् ॥ ५२ ॥
त्रिलक्षमश्वरत्‍नं च शातकुम्भविभूषितम् ।
सहस्ररथरत्‍नं च शिबिकालक्षमेव च ॥ ५३ ॥
त्रिकोटिस्वर्णपात्रं च सान्नं सजलमीप्सितम् ।
त्रिकोटिस्वर्णभूषाश्च कर्पूरादिसुवासितम् ॥ ५४ ॥
ताम्बूलं सुविचित्रं च त्रिकोटिस्वर्णतल्पकम् ।
रत्‍नेन्द्रखचितैर्मञ्चै रचितैर्विश्वकर्मणा ॥ ५५ ॥
बह्निशुद्धांशुकैश्चित्रै राजितं माल्यजालकैः ।
नित्यं ददौ ब्राह्मणेभ्यो विष्णुप्रीप्यै शिवाज्ञया ॥ ५६ ॥
संप्राप्य शंकराज्ज्ञानं कृष्णमंत्रं सुदुर्लभम् ।
संप्राप्य कृष्णदास्यं च गोलोकं वै जगाम सः ॥ ५७ ॥
दृष्ट्‍वा मुक्तं स्वपुत्रं च प्रहृष्टोऽभूत्प्रजापतिः ।
तुष्टाव शंकरं तुष्टः ससृजेऽन्यं मनुं विधिः ॥ ५८ ॥
यतः स्वयंभुपुत्रोऽयमतः स्वायंभुवो मनुः ।
स्वारोचिषो मनुश्चैव द्वितीयो वह्निनन्दनः ॥ ५९ ॥
राजा वदान्यो धर्मिष्ठः स्वायंभुवसमो महान् ।
प्रियव्रतसुतावन्यौ द्वौ मनू धर्मिणां वरौ ॥ ६० ॥
तौ तृतीयौ चतुर्थो च वैष्णवौ तापसोत्तमौ ।
तौ च शंकरशिष्यौ च कृष्णभक्तिपरायणौ ॥ ६१ ॥
धर्मिष्ठानां वरिष्ठश्च रैवतः पञ्चमो मनुः ।
षष्ठश्च चाक्षुषो ज्ञेयो विष्णुभक्तिपरायणः ॥ ६२ ॥
श्राद्धदेवः सूर्यसुतो वैष्णवः सप्तमो मनुः ।
सावर्णिः सूर्यतनयो वैष्णवो मनुरष्टमः ॥ ६३ ॥
नवमो दक्षसावर्णिर्विष्णुव्रतपरायणः ।
दशमो ब्रह्मसावर्णिर्ब्रह्मज्ञानविशारदः ॥ ६४ ॥
ततश्च धर्मसावर्णिर्मनुरेकादशः स्मृतः ।
धर्मिष्ठश्च वरिष्ठश्च वैष्णवव्रततत्परः ॥ ६५ ॥
ज्ञानी च रुद्रसावर्णिर्मनुश्च द्वादशः स्मृतः ।
धर्मात्मा देवसावर्णिर्मनुरेवं त्रयोदशः ॥ ६६ ॥
चतुर्दशो महाज्ञानी चन्द्रसावर्णिरेव च ।
यावदायुर्मनूनां स्यादिन्द्राणां तावदेव हि ॥ ६७ ॥
चतुर्दशेन्द्रावच्छिन्नं ब्रह्मणो दिनमुच्यते ।
तावती ब्रह्मणो रात्रिः सा च ब्राह्मी निशा नृप ॥ ६८ ॥
कालरात्रिश्च सा ज्ञेया वेदेषु परिकीर्तिता ।
ब्रह्मणो वासरं राजन्क्षुद्रकल्पः प्रकीर्तितः ॥ ६९ ॥
सप्तकल्पे चिरंजीवी मार्कण्डेयो महातपाः ।
ब्रह्मलोकादधः सर्वे लोका दग्धाश्च तत्र वै ॥ ७० ॥
उत्थितेनैव सहसा संकर्षणमुखाग्निना ।
चन्द्रार्कब्रह्मपुत्राश्च ब्रह्मलोकं गता ध्रुवम् ॥ ७१ ॥
ब्रह्मरात्रिव्यतीते तु पुनश्च ससृजे विधिः ।
तस्यां ब्रह्मनिशायां च क्षुद्रः प्रलय उच्यते ॥ ७२ ॥
देवाश्च मनवश्चैव तत्र दग्धा नरादयः ।
एवं त्रिंशद्‌दिवारात्रैर्ब्रह्मणो मास एव च ॥ ७३ ॥
वर्षं द्वादशमासंश्च ब्रह्मसंबन्धि चैव हि ।
एवं पञ्चदशाब्दे तु गते च ब्रह्मणो नृप ॥ ७४ ॥
दैनन्दिनस्तु प्रलयो वेदेषु परिकीर्तितः ॥ ७५ ॥
मोहरात्रिश्च सा प्रोक्ता वेदविद्‌भिः पुरातनैः ।
तत्र सर्वे प्रणष्टाः स्युश्चन्द्रार्कादिदिगीश्वराः ॥ ७६ ॥
आदित्या वसवो रुद्रा मनवो मानवादयः ।
ऋषयो मुनयश्चैव गन्धर्वा राक्षसादयः ॥ ७७ ॥
मार्कण्डेयो लोमशश्च पेचकश्चिरजीविनः ।
इन्द्रद्युम्नश्च नृपतिश्चाकूपारश्च कच्छपः ॥ ७८ ॥
नाडीजङ्‍घो बकश्चैव सर्वे नष्टाश्च तत्र वै ।
ब्रह्मलोकादधः सर्वे लोका नागालयास्तथा ॥ ७९ ॥
ब्रह्मलोकं ययुः सर्वे ब्रह्मपुत्रादयस्तथा ।
गते दैनंदिने ब्रह्मा लोकांश्च ससृजे पुनः ॥ ८० ॥
एवं शताब्दपर्यन्तं परमायुः प्रजापतेः ।
ब्रह्मणश्च निपाते च महाकल्पो भवेन्नृप ॥ ८१ ॥
प्रकीर्तिता महारात्रिः सैव चेह पुरातनैः ।
ब्रह्मणश्च निपाते च ब्रह्माण्डौघो जलप्लुतः ॥ ८२ ॥
वेदमाता च सावित्री वेदा धर्मादयस्तथा ।
सर्वे प्रणष्टा मृत्युश्च प्रकृतिं च शिवं विना ॥ ८३ ॥
नारायणे प्रलीनाश्च विश्वस्था वैष्णवास्तथा ।
कालाग्निरुद्रः संहर्ता सर्वरुद्रगणैः सह ॥ ८४ ॥
मृत्युंजये महादेवे प्रलीनः स तमोगुणः ।
ब्रह्मणश्च निपातेन निमेषः प्रकृतेर्भवेत् ॥ ८५ ॥
नारायणस्य शंभोश्च महाविष्णोश्च निश्चितम् ।
निमेषान्ते पुनः सृष्टिर्भवेत्कृष्णेच्छया नृप ॥ ८६ ॥
कृष्णो निमेषरहितो निर्गुणः प्रकृते परः ।
सगुणानां निमेषश्च कालसंख्यावयोमितः ॥ ८७ ॥
निर्गुणस्य च नित्यस्य चाऽऽद्यन्तरहितस्य च ।
निमेषाणां सहस्रेण प्रकृतेर्दण्ड उच्यते ॥ ८८ ॥
षष्टिदण्डात्मकस्तस्य वासरश्च प्रकीर्तितः ।
त्रिंशद्‌रात्रिदिनैर्मासो वर्षं द्वादशमासकैः ॥ ८९ ॥
एवं गते शताब्दे च श्रीकृष्णे प्रकृतेर्लयः ।
प्रकृत्यां च प्रलीनायां श्रीकृष्णे प्राकृतो लयः ॥ ९० ॥
सर्वान्संहृत्य सा चैका महाविष्णोः प्रसूश्च या ।
कृष्णवक्षसि लीना च मूलप्रकृतिरीश्वरी ॥ ९१ ॥
सन्तो वदन्ति तां दुर्गां विष्णुमायां सनातनीम् ।
सर्वशक्तिस्वरूपां च परां नारायणीं सतीम् ॥ ९२ ॥
बुद्ध्यधिष्ठातृदेवीं च कृष्णस्य त्रिगुणात्मिकाम् ।
यन्मायामोहिताश्चैव ब्रह्मविष्णुशिवादयः ॥ ९३ ॥
वैष्णवास्तां महालक्ष्मीं परां राधां वदन्ति ते ।
यदर्धाङ्‌गा महालक्ष्मीः प्रिया नारायणस्य च ॥ ९४ ॥
प्राणाधिष्ठातृदेवीं च प्रेम्णा प्राणाधिकां वराम् ।
स्थिरप्रेममयीं शक्तिं निर्गुणां निर्गुणस्य च ॥ ९५ ॥
नारायणश्च शंभुश्च संहृत्य स्वगणान्बहून् ।
शुद्धसत्त्वस्वरूपी श्रीकृष्णे लीनश्च निर्गुणे ॥ ९६ ॥
गोपा गोप्यश्च गावश्च सवत्साश्च नराधिप ।
सर्वे लीनाः प्रकृत्यां च प्रकृतिः परमेश्वरे ॥ ९७ ॥
महाविष्णौ विलीनाश्च ते सर्वे क्षुद्रविष्णवः ।
महाविष्णुः प्रकृत्यां च सा चैवं परमात्मनि ॥ ९८ ॥
प्रकृतिर्योगनिद्रा च श्रीकृष्णनयनद्वये ।
अधिष्ठानं चकारैवं मायया चेश्वरेच्छया ॥ ९९ ॥
प्रकृतेर्वासरो यावन्मितः कालः प्रकीर्तितः ।
तावद्वृन्दावने निद्रा कृष्णस्य परमात्मनः ॥ १०० ॥
अमूल्यरत्‍नतल्पे च वह्निशुद्धांशुकार्चिते ।
गन्धचन्दनमाल्यौघवाय्वादिसुरभीकृते ॥ १०१ ॥
पुनः प्रजागरे तस्य सर्वसृष्टिर्भवेत्पुनः ।
एवं सर्वे प्राकृताश्च श्रीकृष्णं निर्गुणं विना ॥ १०२ ॥
तद्वन्दनं तक्त्यरण तस्य ध्यानं तदर्चनम् ।
कीर्तनं तद्‌गुणानां च महापातकनाशनम् ॥ १०३ ॥
एतत्ते कथितं सर्वं यद्यन्मृत्युंजयाच्छ्रुतम् ।
यथागमं महाराज किं भूयः श्रोतुमिच्छसि ॥ १०४ ॥
सुयज्ञ उवाच
कालाग्निरुद्रो विश्वानां संहर्ता च तमोगुणः ।
ब्रह्मणोऽन्ते विलीनश्च सत्त्वं मृत्युंजये शिवे ॥ १०५ ॥
शिवो लीनो निर्गुणे च श्रीकृष्णे प्राकृते लये ।
कथं तव गुरोर्नाम मृत्युंजय इति श्रुतम् ॥ १०६ ॥
कथं प्रसूर्महाविष्णोर्मूलप्रकृतिरीश्वरो ।
असंख्यानि च विश्वानि सन्ति वै यस्य लोमसु ॥ १०७ ॥
सुतपा उवाच
ब्रह्मणोऽन्ते मृत्युकन्या प्रणष्टा जलबिन्दुवत् ।
संहर्त्री सर्वलोकानां ब्रह्मादीनां नराधिप ॥ १०८ ॥
कतिधा मृत्युकन्यानां ब्रह्मणा कोटिशो लये ।
कालेन लीनः शंभुश्च सत्त्वरूपेच निर्गुणे ॥ १०९ ॥
मृत्युकन्या जिता शश्वच्छिवेन गुरुणा मम ।
न मृत्युना जितः शंभुः कल्पे कल्पे श्रुतौ श्रुतम् ॥ ११० ॥
शंभुर्नारायणस्यैव प्रकृतेश्च नराधिप ।
नित्यानां लीनता नित्ये तन्माया न तु वास्तवी ॥ १११ ॥
स्वयंपुमान्निर्गुणश्च कालेन सगुणः स्वयम् ।
स्वयं नारायणः शंभुर्मायया प्रकृतिः स्वयम् ॥ ११२ ॥
तदंशस्तत्समः शश्वद्यथा वह्नेः स्फुलिङ्‌गवत् ।
ये ये च ब्रह्मणा सृष्टा रुद्रादित्यादयस्तथा ॥ ११३ ॥
कल्पे कल्पे जितास्ते ते नश्वरा मृत्युकन्यया ।
न शिवो ब्रह्मणा सृष्टः सत्यो नित्यः सनातनः ॥ ११४ ॥
कतिधा ब्रह्मणां पातो यन्निमेषेण भूमिप ।
अथाऽऽदिसर्गे श्रीकृष्णः प्रकृत्यां च जगद्‌गुरुः ॥ ११५ ॥
चकार वीर्याधानं च पुण्ये वृन्दावने वने ।
तद्वामांशसमुद्‌भूता रासे रासेश्वरी परा ॥ ११६ ॥
गर्भं दधार सा राधा यावद्वै ब्रह्मणो वयः ।
ततः सुषाव सा डिम्भं गोलोके रासमण्डले ॥ ११७ ॥
चुकोप डिम्भं सा दृष्ट्‍वा हृदयेन विदूयता ।
तड्‌डिम्भं प्रेरयामास तदधो विश्वगोलके ॥ ११८ ॥
त्यक्त्वाऽपत्यं महादेवी रुरोद च मुहुर्मुहुः ।
कृष्णस्तां बोधयामास महायोगेन योगवित् ॥ ११९ ॥
बभूव तस्माड्‌डिम्भाच्च सर्वाधारो महाविराट् ॥ १२० ॥
सुयज्ञ उवाच
अद्य मे सफलं जन्म जीवनं सार्थकं मम ।
शापो मे वररूपश्चाप्यभवद्‌भक्तिकारणम् ॥ १२१ ॥
सुदुर्लभा हरेर्भक्तिः सर्वमङ्‌गलमङ्‌गला ।
न तस्याश्च समं विप्र वेदोक्तं भक्तिपञ्चकम् ॥ १२२ ॥
यथा भक्तिर्मम भवेच्छ्रीकृष्णे परमात्मनि ।
सुदुर्लभा च सर्वेषां तत्कुरुष्व महामुने ॥ १२३ ॥
नह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन कृष्णभक्ताश्च दर्शनात् ॥ १२४ ॥
सर्वेषामाश्रमाणां च द्विजातेर्जातिरुत्तमा ।
स्वधर्मनिरतश्चैव तेषु श्रेष्ठश्च भारते ॥ १२५ ॥
कृष्णमन्त्रोपासकश्च कृष्णभक्तिपरायणः ।
नित्यं नैवेद्यभोजी च ततः श्रेष्ठो महाञ्छुचिः ॥ १२६ ॥
त्वां वैष्णवं द्विजश्रेष्ठं महाज्ञानार्णवं परम् ।
संप्राप्य शिवशिष्यं च कं यामि शरणं मुने ॥ १२७ ॥
अधुनाऽहं गलत्कुष्ठी तव शापान्महामुने ।
कथं तपस्यामशुचिर्नाधिकारी करोमि च ॥ १२८ ॥
सुतपा उवाच
हरिभक्तिप्रदात्री सा विष्णुमाया सनातनी ।
सा व याननुगृह्णाति तेभ्यो भक्तिं ददाति च ॥ १२९ ॥
यांश्च माया मोहयति तेभ्यस्तां न ददाति व ।
करोति वञ्चनां तेषां नश्वरेण धनेन च ॥ १३० ॥
कृष्णप्रेममयी शक्तिं प्राणाधिष्ठातृदेवताम् ।
भज राधां निर्गुणां तां प्रदात्रो सर्वसंपदाम् ॥ १३१ ॥
शीघ्रं यास्यसि गोलोकं तदनुग्रहसेवया ।
या सेविता श्रीकृष्णेन सर्वाराध्येन पूजिता ॥ १३२ ॥
ध्यानसाध्यं दुराराध्यं भक्ताः संसेव्य निर्गुणम् ।
सुचिरेण च गोलोकं प्रयान्ति बहुजन्मतः ॥ १३३ ॥
कृपामयीं च संसेव्य भक्ता यान्त्यचिरेण वै ।
सा प्रसूश्च महाविष्णोः सर्वसंपत्स्वरूपिणी ॥ १३४ ॥
विप्रपादोदकं भुङ्क्ष्व वर्षं च संयतः शुचिः ।
कामदेवस्वरूपश्च रोगहीनो भविष्यसि ॥ १३५ ॥
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।
तावत्पुष्करपत्रेषु पिबन्ति पितरो जलम् ॥ १३६ ॥
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।
सागरे यानि तीर्थानि विप्रपादेषु तानि च ॥ १३७ ॥
विप्रपादोदकं चैव पापव्याधिविनाशनम् ।
सर्वतीर्थोदकसमं भुक्तिमुक्तिप्रदं शुभम् ॥ १३८ ॥
विप्रो मानवरूपी च देवदेवो जनार्दनः ।
विप्रेण दत्तं द्रव्यं च भुञ्जते सर्वदेवताः ॥ १३९ ॥
इत्येवमुक्त्वा विप्रश्च गृहीत्वा तस्य पूजनम् ।
जगाम गृहमित्युक्त्वा त्वायास्ये वत्सरान्तरे ॥ १४० ॥
भक्त्या च बुभुजे राजा विप्रपादोदकं शिवे ।
विप्रांश्च पूजयामास भोजयामास वत्सरम् ॥ १४१ ॥
संवत्सरे व्यतीते तु निर्मुक्तो व्याधितो नृपः ।
आजगाम मुनिश्रेष्ठः सुतपाः कश्यपाग्रणीः ॥ १४२ ॥
राधापूजाविधानं च स्तोत्रं च कवचं मनुम् ।
ध्यानं च सामवेदोक्तं ददौ तस्मै नृपाय सः ॥ १४३ ॥
राजन्निर्गम्यतां शीघ्रमित्युक्त्वा तपसे मुनिः ।
जगाम स्वालयाद्‌दुर्गं निर्जगाम त्वरन्नृपः ॥ १४४ ॥
रुरुदुर्बान्धवाः सर्वे त्रिरात्रं शोकमूर्च्छिताः ।
भार्याश्च तत्यजुः प्राणान्पुत्रो राजा बभूव ह ॥ १४५ ॥
सुयशः पुष्करं गत्वा चक्रे वै दुष्करं तपः ।
दिव्यं वर्षशतं राजा जजाप परमं मनुम् ॥ १४६ ॥
तदा ददर्श गगने रथस्थां परमेश्वरीम् ।
स तद्‌दर्शनमात्रेण निष्पापश्च बभूव ह ॥ १४७ ॥
तत्याज मानुषं देहं दिव्यां मूर्तिं दधार ह ।
सा देवी तेन यानेन रत्‍नेन्द्रैर्निमितेन च ॥ १४८ ॥
नृपं नीत्वा च गोलोकं तत्र चैषा ययौ तदा ।
राजा ददर्श गोलोकं नद्या विरजयाऽऽवृतम् ॥ १४९ ॥
वेष्टितं पर्वतेनैव शतशृङ्‌गेण चारुणा ।
श्रीवृन्दावनसंयुक्तं रासमण्डलमण्डितम् ॥ १५० ॥
गोगोपगोपीनिकरैः शोभितं परिसेवितैः ।
रत्‍नेन्द्रसारखचितैर्मन्दिरैः सुमनोहरैः ॥ १५१ ॥
नानाचित्रविचित्रैश्च राजितं परिशोभितम् ।
सप्तत्रिंशद्‌‍भिराक्रीडैः कल्पवृक्षसमन्वितैः ॥ १५२ ॥
पारिजातद्रुमाकीणैर्वेष्टितं कामधेनुभिः ।
आकाशवत्सुविस्तीर्णं वर्तुलं चन्द्रबिम्बवत् ॥ १५३ ॥
अत्यूर्ध्वमपि वैकुण्ठात्पञ्चाशत्कोटियोजनम् ।
शून्ये स्थितं निराधारं ध्रुवमेवेश्वरेच्छया ॥ १५४ ॥
आत्माकाशसमं नित्यमस्माकं च सुदुर्लभम् ।
अहं नारायणोऽनन्तो ब्रह्मा विष्णुर्महान्विराट् ॥ १५५ ॥
धर्मक्षुद्रविराट्संघो गङ्‌गा लक्ष्मी सरस्वती ।
त्वं विष्णुमाया सावित्री तुलसी च गणेश्वरः ॥ १५६ ॥
सनत्कुमारः स्कन्दश्च नरनारायणावृषी ।
कपिलो दक्षिणा यज्ञो ब्रह्मपुत्राश्च योगिनः ॥ १५७ ॥
पवनो वरुणश्चन्द्रः सूर्यो रुद्रो हुताशनः ।
कृष्णमन्त्रोपासकाश्च भारतस्थाश्च वैष्णवाः ॥ १५८ ॥
एभिर्दृष्टश्च गोलोको नान्यैर्दृष्टः कदाचन ।
निरामये च तत्रैव रत्‍नसिंहासने स्थितम् ॥ १५९ ॥
रत्‍नमालाकिरीटैश्च भूषितं रत्‍नभूषणैः ।
सुनिर्मलैः पीतवस्त्रैर्वह्निशुद्धैर्विराजितम् ॥ १६० ॥
चन्दनोक्षितसर्वाङ्‌गं किशोरं गोपरूपिणम् ।
नवीननीरदश्यामं श्वेतपङ्‌कजलोचनम् ॥ १६१ ॥
शरत्पार्वणचन्द्रास्यमीषद्धास्यं मनोहरम् ।
द्विभुजं मुरलीहस्तं भक्तानुग्रहविग्रहम् ॥ १६२ ॥
स्वेच्छामयं परं ब्रह्म निर्गुणं प्रकृतेः परम् ।
ध्यानसाध्यं दुराराध्यमस्माकं च सुदुर्लभम् ॥ १६३ ॥
प्रियैर्द्वादशगोपालैः सेवितं श्वेतचामरैः ।
वीक्षितं गोपिकावृन्दैः सस्मितैः सुमनोहरैः ॥ १६४ ॥
पीडितैः कामबाणैश्च शश्वत्सुस्थिरयौवनैः ।
वह्निशुद्धांशुकाधानै रत्‍नभूषणभूषितैः ॥ १६५ ॥
रासमण्डलमध्यस्थं श्रीकृष्णं च परात्परम् ।
ददर्श राजा तत्रैव राधया दर्शितं तदा ॥ १६६ ॥
स्तुतं चतुर्भिर्वेदैश्च मूर्तिमद्‌भिर्मनोहरैः ।
रागिणीनां च रागाणामतीव सुमनोहरम् ॥ १६७ ॥
श्रुतवन्तं च संगीतं यन्त्रवक्त्रोत्थितं शिवे ।
नित्यया च सनातन्या प्रकृत्या च सह त्वया ॥ १६८ ॥
शश्वत्पूजितपादाब्जमखण्डतुलसीदलैः ।
कस्तूरीकुङ्‌कुमाक्तैश्च गन्धचन्दनचर्चितैः ॥ १६९ ॥
दूर्वाभिरक्षताभिश्च पारिजातप्रसूनकैः ।
निर्मलैर्विरजातोयैर्दत्तार्घ्यैरतिशोभितम् ॥ १७० ॥
सुप्रसन्नं स्वतन्त्रं च सर्वकारणकारणम् ।
सर्वेषां चान्तरात्मानं सर्वेशं सर्वजीवनम् ॥ १७१ ॥
सर्वाधारं परं पूज्यं ब्रह्मज्योतिः सनातनम् ।
सर्वसंपत्स्वरूपं च दातारं सर्वसंपदाम् ॥ १७२ ॥
सर्वमङ्‌गलरूपं च सर्वमङ्‌गलकारणम् ।
सर्वमङ्‌गलदं सर्वमङ्‌गलानां च मङ्‌गलम् ॥ १७३ ॥
तं दृष्ट्‍वा नृपतिस्त्रस्तो ह्यवरुह्य रथात्त्वरन् ।
साश्रूनेत्रः पुलकितो मूर्ध्ना स प्रणनाम च ॥ १७४ ॥
परमात्मा ददौ तस्मै स्वदास्यं च शुभाशिषम् ।
स्वभक्तिं निश्चलां सत्यामस्माकं च सुदुर्लभाम् ॥ १७५ ॥
राधाऽवरुह्य स्वरथात्कृष्णवक्षस्युवास सा ।
गोपीभिः सुप्रियाभिश्च सेविता श्वेतचामरैः ॥ १७६ ॥
संभाषिता श्रीकृष्णेन सस्मितेन च पूजिता ।
समुत्थितेन सहसा भक्त्या वै संभ्रमेण च ॥ १७७ ॥
आदौ राधां समुच्चार्य पश्चात्कृष्णं च माधवम् ।
प्रवदन्ति च वेदेषु वेदविद्‌भिः पुरातनैः ॥ १७८ ॥
विपर्ययं ये वदन्ति ये निन्दन्ति जगत्प्रसूम् ।
कृष्णप्राणाधिकां प्रेममयीं शक्तिं च राधिकाम् ॥ १७९ ॥
ते पच्यन्ते कालसूत्रे यावच्चन्द्रदिवाकरौ ।
भवन्ति स्त्रीपुत्रहीना रोगिणः शतजन्मसु ॥ १८० ॥
इत्येवं कथितं दुर्गे राधिकाख्यानमुत्तमम् ।
सा त्वं सती भगवती वैष्णवी च सनातनी ॥ १८१ ॥
नारायणी विष्णुमाया मूलप्रकृतिरीश्वरी ।
मायया मां पृच्छसि त्वं सर्वज्ञा सर्वरूपिणी ॥ १८२ ॥
स्त्रीजातिष्वधिदेवी च परा जातिस्मरा वरा ।
कथितं राधिकाख्यानं किं भूयः श्रोतुमिच्छसि ॥ १८३ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे हरगौरीसंवादे राधोपाख्याने
सुयज्ञोपाख्याने सुयज्ञगोलोकगमनं
नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥


GO TOP