ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - चतुश्चत्वारिंशोऽध्यायः

मङ्‌गलचण्डिकोपाख्याने तत्स्तोत्रादिकथनम् -


नारायण उवाच
कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथागमम् ।
देवी मङ्‌गलचण्डी या तदाख्यानं निशामय ॥ १ ॥
तस्याः पूजादिकं सर्वं धर्मवक्त्राच्च यच्छ्रुतम् ।
श्रुतिसंमतमेवेष्टं सर्वेषां विदुषामपि ॥ २ ॥
चण्डा या वर्तते चण्डी जाग्रती शत्रुमण्डले ।
मङ्‌गलेषु च या दक्षा मङ्‌गला सैव चण्डिका ॥ ३ ॥
दुर्गायां विद्यते चण्डी मङ्‌गलोऽपि महीसुतः ।
मङ्‌गलाऽभीष्टदेवी या सा स्यान्मङ्‌गलचण्डिका ॥ ४ ॥
मङ्‌गलो मनुवंशश्च सप्तद्वीपावनीपतिः ।
तस्य पूज्याऽभीष्टदेवी तेन मङ्‌गलचण्डिका ॥ ५ ॥
मूर्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी ।
कृपारूपाऽतिप्रत्यक्षा योषितामिष्टदेवता ॥ ६ ॥
प्रथमे पूजिता सा च शंकरेण पुरा परा ।
त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च ॥ ७ ॥
ब्रह्मन्ब्रह्मोपदेशेन दुर्गप्रस्थे च संकटे ।
आकाशात्पतिते याने रुषा दैत्येन पातिते ॥ ८ ॥
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शंकरः ।
सा च मङ्‌गलचण्डीयमभवद्‌रूपभेदतः ॥ ९ ॥
उवाच परतः शंभोर्भयं नास्तीति ते प्रभो ।
भगवान्वृषरूपश्च सर्वेशश्च बभूव ह ॥ १० ॥
युद्धशक्तिस्वरूपाऽहं भविष्यामि तदाज्ञया ।
मयाऽऽत्मना च हरिणा सहायेन वृषध्वज ।
जहि दैत्यं च देवेश सुराणां पदघातकम् ॥ ११ ॥
इत्युक्त्वाऽन्तर्हिता देवी शंभोः शक्तिर्बभूव सा ।
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः ॥ १२ ॥
मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः ।
तुष्टुवुः शंकरं देवा भक्तिनम्रात्मकंधराः ॥ १३ ॥
सद्यः शिरसि शंभोश्च पुष्पवृष्टिर्बभूव ह ।
ब्रह्मा विष्णुश्च संतुष्टो ददौ तस्मै शुभाशिषम् ॥ १४ ॥
ब्रह्मविष्णूपदिष्टश्च सुस्नातः शंकरः शुचिः ।
पूजयामास तां शक्तिं देवीं मङ्‌गलचण्डिकाम् ॥ १५ ॥
पाद्यार्घ्याचमनीयैश्च बलिभिर्विविधैरपि ।
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ॥ १६ ॥
छागैर्मेषैश्च महिषैर्गण्डैर्मायाविभिर्वरैः ।
वस्त्रालंकारमाल्यैश्च पायसैः पिष्टकैरपि ॥ १७ ॥
मधुभिश्च सुधाभिश्च पक्वैर्नानाविधैः फलैः ।
संगीतैर्नर्तनैर्वाद्यैरुत्सवैः कृष्णकीर्तनैः ॥ १८ ॥
ध्यात्वा माध्यंदिनोक्तेन ध्यानेन विधिपूर्वकम् ।
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ॥ १९ ॥
ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्‌गलचण्डिके ।
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविंशाक्षरो मनुः ॥ २० ॥
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ।
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ २१ ॥
मन्त्रसिद्धिर्भवेद्यस्य स विष्णुः सर्वकामदः ।
ध्यानं च श्रूयतां ब्रह्मन्वेदोक्तं सर्वसंमतम् ॥ २२ ॥
देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् ।
सर्वरूपगुणाढ्यां च कोमलाङ्‌गीं मनोहराम् ॥ २३ ॥
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।
वह्निशुद्धांशुकाधानां रत्‍नभूषणभूषिताम् ॥ २४ ॥
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् ।
बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥ २५ ॥
ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् ।
जगद्धात्रीं च दात्री च सर्वेभ्यः सर्वसंपदाम् ॥ २६ ॥
संसारसागरे घोरे पोतरूपां वरां भजे ॥ २७ ॥
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ।
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः ॥ २८ ॥
शंकर उवाच
रक्ष रक्ष जगन्मातर्देवि मङ्‌गलचण्डिके ।
संहर्त्रि विपदां राशेर्हर्षमङ्‌गलकारिके ॥ २९ ॥
हर्षमङ्‌गलदक्षे च हर्षमङ्‌गलचण्डिके ।
शुभे मङ्‌गलदक्षे च शुभमङ्‌गलचण्डिके ॥ ३० ॥
मङ्‌गले मङ्‌गलार्हे च सर्वमङ्‌गलमङ्‌गले ।
सतां मङ्‌गलदे देवि सर्वेषां मङ्‌गलालये ॥ ३१ ॥
पूज्या मङ्‌गलवारे च मङ्‌गलाभीष्टदेवते ।
पूज्ये मङ्‌गलभूपस्य मनुवंशस्य संततम् ॥ ३२ ॥
मङ्‌गलाधिष्ठातृदेवि मङ्‌गलानां च मङ्‌गले ।
संसारमङ्‌गलाधारे मोक्षमङ्‌गलदायिनि ॥ ३३ ॥
सारे च मङ्‌गलाधारे पारे त्वं सर्वकर्मणाम् ।
प्रतिमङ्‌गलवारे च पूज्ये त्वं मङ्‌गलप्रदे ॥ ३४ ॥
स्तोत्रेणानेन शंभुश्च स्तुत्वा मङ्‌गलचण्डिकाम् ।
प्रतिमङ्‌गलवारे च पूजां कृत्वा गतः शिवः ॥ ३५ ॥
देव्याश्च मङ्‌गलस्तोत्रं यः शृणोति समाहितः ।
तन्मङ्‌गलं भवेच्छश्वन्न भवेत्तदमङ्‌गलम् ॥ ३६ ॥
प्रथमे पूजिता देवी शंभुना सर्वमङ्‌गला ।
द्वितीये पूजिता देवी मङ्‌गलेन ग्रहेण च ॥ ३७ ॥
तृतीये पूजिता भद्रा मङ्‌गलेन नृपेण च ।
चतुर्थे मङ्‌गले वारे सुन्दरीभिश्च पूजिता ॥
पञ्चमे मङ्‌गलाकाङ्‍क्षैर्नरैर्मङ्‌गलचण्डिका ॥ ३८ ॥
पूजिता प्रतिविश्वेषु विश्वेशैः प्रतिमा सदा ।
ततः सर्वत्र संपूज्या सा बभूव सुरेश्वरी ॥ ३९ ॥
देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने ।
देव्याश्च मङ्‌गलस्तोत्रं यः शृणोति समाहितः ॥ ४० ॥
तन्मङ्‌गलं भवेच्छश्वन्न भवेत्तदमङ्‌गलम् ।
वर्धन्ते तत्पुत्रपौत्रा मङ्‌गल च दिने दिने ॥ ४१ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे मङ्‌गलचण्डिकोपाख्याने
तत्स्तोत्रादिकथनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥


GO TOP