ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - षड्विंशोऽध्यायः

सावित्र्युपाख्याने कर्मविपाके कर्मानुरूपस्थानगमनम् -


श्रीनारायण उवाच
सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः ।
प्रहस्य वक्तुमारेभे कर्मपाकं च जीविनाम् ॥ १ ॥
यम उवाच
कन्या द्वादशवर्षीया वत्से त्वं वयसाऽधुना ।
ज्ञानं ते सर्वविदुषां योगिनां ज्ञानिनां परम् ॥ २ ॥
सावित्रीवरदानेन त्वं सावित्रीकला सति ।
प्राप्या पुरा भूभृता च तपसा तत्समा शुभे ॥ ३ ॥
यथा श्रीः श्रीपतेः क्रोडे भवानी च भवोरसि ।
यथा राधा च श्रीकृष्णे सावित्री ब्रह्मवक्षसि ॥ ४ ॥
धर्मोरसि यथा मूर्तिः शतरूपा मनौ यथा ।
कर्दमे देवहूतिश्च वसिष्ठेऽरुन्धती यथा ॥ ५ ॥
अदितिः कश्यपे चापि यथाऽऽहल्या च गौतमे ।
यथा शची महेन्द्रे च यथा चन्द्रे च रोहिणी ॥ ६ ॥
यथा रतिः कामदेवे यथा स्वाहा हुताशने ।
यथा स्वधा च पितृषु यथा संज्ञा दिवाकरे ॥ ७ ॥
वरुणानी च वरुणे यज्ञे च दक्षिणा यथा ।
यथा धरा वराहे च देवसेना च कार्तिके ॥ ८ ॥
सौभाग्या सुप्रिया त्वं च भव सत्यवति प्रिये ।
इति तुभ्यं वरं दत्तमपरं च यदीप्सितम् ।
वृणु देवि महाभागे सर्वं दास्यामि निश्चितम् ॥ ९ ॥
सावित्र्युवाच
सत्यवदौरसेनैव पुत्राणां शतकं मम ।
भविष्यति महाभाग वरमेतन्मदीप्सितम् ॥ १० ॥
मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी ।
राज्यलाभो भवत्वेवं वरमेवं मदीप्सितम् ॥ ११ ॥
अन्ते सत्यवता सार्धं यास्यामि हरिमन्दिरम् ।
समतीते लक्षवर्षे देहीमं मे जगत्प्रभो ॥ १२ ॥
जीवकर्मविपाकं च श्रोतुं कौतूहलं च मे ।
विश्वविस्तारबीजं च तन्मे व्याख्यातुमर्हसि ॥ १३ ॥
यम उवाच
भविष्यति महासाध्वि सर्वं मानसिकं तव ।
जीवकर्मविपाकं च कथयामि निशामय ॥ १४ ॥
शुभानामशुभानां च कर्मणां जन्म भारते ।
पुण्यक्षेत्रेऽत्र सर्वत्र नान्यत्र भुञ्जते जनाः ॥ १५ ॥
सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः ।
नराश्च कर्मजनका न सर्वे समजीविनः ॥ १६ ॥
विशिष्टजीविनः कर्म भुञ्जते सर्वयोनिषु ।
शुभाशुभं च सर्वत्र स्वर्गेषु नरकेषु च ॥ १७ ॥
विशेषतो मानवाश्च भ्रमन्ति सर्वयोनिषु ।
शुभाशुभं भुञ्जते च कर्म पूर्वार्जितं परम् ॥ १८ ॥
शुभेन कर्मणा यान्ति ते स्वर्गादिकमेव च ।
कर्मणा चाशुभेनैव भ्रमन्ति नरकेषु च ॥ १९ ॥
कर्मनिर्मूलने मुक्तिः सा चोक्ता द्विविधा मता ।
निर्वाणरूपा सेवा च कृष्णस्य परमात्मनः ॥ २० ॥
रोगी कुकर्मणा जीवश्चारोगी शुभकर्मणा ।
दीर्घजीवी च क्षीणायुः सुखी दुःखी च निश्चितम् ॥ २१ ॥
अन्धादयश्चाङ्गहीनाः कुत्सितेन च कर्मणा ।
सिद्ध्यादिकमवाप्नोति सर्वोत्कृष्टेन कर्मणा ॥ २२ ॥
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ।
सुदुर्लभं सुभोग्यं च पुराणेषु श्रुतिष्वपि ॥ २३ ॥
दुर्लभा मानवी जातिः सर्वजातिषु भारते ।
सर्वाभ्यो ब्राह्मणः श्रेष्ठः प्रशस्तः सर्वकर्मसु ॥ २४ ॥
विष्णुभक्तो द्विजश्चैव गरीयान्भारते ततः ।
निश्कामश्च सकामश्च वैष्णवो द्विविधः सति ॥ २५ ॥
सकामश्च प्रधानश्च निष्कामो भक्त एव च ।
कर्मभोगी सकामश्च निष्कामो निरुपद्रवः ॥ २६ ॥
स याति देहं त्यक्त्वा च पदं विष्णोनिरामयम् ।
पुनरागमनं नास्ति तेषां निष्कामिणां सति ॥ २७ ॥
ये सेवन्ते च द्विभुजं कृष्णमात्मानमीश्वरम् ।
गोलोकं यान्ति ते भक्ता दिव्यरूपविधारिणः ॥ २८ ॥
ये च नारायणं भक्ताः सेवन्ते च चतुर्भुजम् ।
वैकुण्ठं यान्ति ते सर्वे दिव्यरूपविधारिणः ॥ २९ ॥
सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च ।
भारतं पुनरायान्ति तेषां जन्म द्विजातिषु ॥ ३० ॥
कालेन ते च निष्कामा भविष्यन्ति क्रमेण च ।
भक्तिं च निर्मलां बुद्धिं तेभ्यो दास्यति निश्चितम् ॥ ३१ ॥
ब्राह्मणाद्‌वैष्णवादन्ये सकामाः सर्वजन्मसु ।
न तेषां निर्मला बुद्धिर्विष्णुभक्तिविवर्जिताः ॥ ३२ ॥
तीर्थाश्रिता द्विजा ये च तपस्यानिरताः सति ।
ते यान्ति ब्रह्मलोकं च पुनरायान्ति भारतम् ॥ ३३ ॥
स्वधर्मनिरता विप्राः सूर्यभक्ताश्च भारतं ।
व्रजन्ति सूर्यलोकं तं पुनरायान्ति भारतम् ॥ ३४ ॥
स्वधर्मनिरता विप्राः शैवाः शाक्ताश्च गाणपाः ।
तं यान्ति शिवलोकं च पुनरायान्ति भारतम् ॥ ३५ ॥
ये विप्रा अन्यदेवेष्टाः स्वधर्मनिरताः सति ।
ते गत्वा शक्रलोकं च पुनरायान्ति भारतम् ॥ ३६ ॥
हरिभक्ताश्च निष्कामाः स्वधर्मरहिता द्विजाः ।
तेऽपि यान्ति हरेर्लोकं क्रमाद्‌भक्तिबलादहो ॥ ३७ ॥
स्वधर्मरहिता विप्रा देवान्यसेविनः सदा ।
भ्रष्टाचाराश्च वामाश्च ते यान्ति नरकं ध्रुवम् ॥ ३८ ॥
स्वधर्मनिरताश्चैवं वर्णाश्चत्वार एव च ।
भवन्त्येव शुभस्यैव कर्मणः फलभागिनः ॥ ३९ ॥
स्वधर्मरहितास्ते च नरकं यान्ति हि ध्रुवम् ।
भारते च भवन्त्येव कर्मणः फलभागिनः ॥ ४० ॥
स्वधर्मनिरता विप्राः स्वधर्मनिरताय च ।
कन्यां ददति विप्राय चन्द्रलोकं व्रजन्ति ते ॥ ४१ ॥
वसन्ति तत्र ते साध्वि यावदिन्द्राश्चतुर्दश ।
सालंकृताया दानेन द्विगुणं फलमुच्यते ॥ ४२ ॥
सकामा यान्ति तल्लोकं न निष्कामाश्च वैष्णवा ।
ते प्रयान्ति विष्णुलोकं फलसंधानवर्जिताः ॥ ४३ ॥
गव्यं च रजतं भार्यां वस्त्रं सस्यं फलं जलम् ।
ये ददत्येव विप्रेभ्यस्तल्लोकं हि व्रजन्ति च ॥ ४४ ॥
वसन्ति ते च तल्लोकं यावन्मन्वन्तरं सति ।
कालं च सुचिरं वासं कुर्वन्ति तत्र ते जनाः ॥ ४५ ॥
ये ददति सुवर्णं च गां च ताम्रादिकं सति ।
ते यान्ति सूर्यलोकं च शुचये ब्राह्मणाय च ॥ ४६ ॥
वसन्ति तत्र ते लोके वर्षाणामयुतं सति ।
विपुलं सुचिरं वासं कुर्वन्ति च निरामयाः ॥ ४७ ॥
ददाति भूमिं विप्रेभ्यो धान्यानि विपुलानि च ।
स याति विष्णुलोकं च श्वेतद्वीपं मनोहरम् ॥ ४८ ॥
तत्रैव निवसत्येव यावच्चन्द्रदिवाकरौ ।
विपुलं विपुले वासं करोति पुण्यवान्सति ॥ ४९ ॥
गृहं ददति विप्राय ये जना भक्तिपूर्वकम् ।
ते यान्ति सुरलोकं च चिरं तत्र भवन्ति ते ॥ ५० ॥
गृहरेणुप्रमाणाब्दं दानं पुण्यदिने यदि ।
विपुलं विपुले वासं कुर्वन्ति मानवाः सति ॥ ५१ ॥
यस्मै यस्मै च देवाय यो ददाति गृहं नरः ।
स याति तस्य लोकं च रेणुमानाब्दमेव च ॥ ५२ ॥
सौधे चतुर्गुणं पुण्यं घृतं शतगुणं फलम् ।
प्रकृष्टेऽष्टगुणं तस्मादित्याह कमलोद्‌भवः ॥ ५३ ॥
यो ददाति तडागं च सर्वभूताय भारते ।
स याति जनलोकं च वर्षाणामयुतं सति ॥ ५४ ॥
वाप्यां फलं शतगुणं प्राप्नोति मानवस्ततः ।
तथा सेतुप्रदानेन तडागस्य फलं लभेत् ॥ ५५ ॥
धनुश्चतुःसहस्रेण दैर्ध्यमानेन निश्चितम् ।
न्यूना वा तावती प्रस्थे सा वापी परिकीर्तिता ॥ ५६ ॥
दशवापीसमा कन्या यदि पात्रे प्रदीयते ।
फलं ददाति द्विगुणं यदि सालंकृता भवेत् ॥ ५७ ॥
यत्फलं च तडागे च पङ्‌कोद्धारेण तत्फलम् ।
वाप्याश्च पङ्‍कोद्धारेण वापीतुल्यफलं लभेत् ॥ ५८ ॥
अश्वत्यवृक्षमारोप्य प्रतिष्ठां च करोति यः ।
स याति तपसो लोकं वर्षाणामयुतं परम् ॥ ५९ ॥
पुष्पोद्यानं यो ददाति सावित्रि सर्वभूतये ।
स वसेद्ध्रुवलोके च वर्षाणामयुतं ध्रुवम् ॥ ६० ॥
यो ददाति विमानं च विष्णवे भारते सति ।
विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं परम् ॥ ६१ ॥
चित्रयुक्ते च विपुले फलं तस्य चतुर्गुणम् ।
रथार्धं शिबिकादाने फलमेव लभेद्ध्रुवम् ॥ ६२ ॥
यो ददाति भक्तियुक्तो हरये दोलमन्दिरम् ।
विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं परम् ॥ ६३ ॥
राजमार्गं सौधयुक्तं यः करोति पतिव्रते ।
वर्षाणामयुतं सोऽपि शक्रलोके महीयते ॥ ६४ ॥
ब्राह्मणेभ्योऽपि देवेभ्यो दाने समफलं लभेत् ।
यच्च दत्तं हि तद्‌भोक्तुर्न दत्तं नोपतिष्ठते ॥ ६५ ॥
भुक्त्या स्वर्गादिकं सौख्यं पुनरायान्ति भारते ।
लभेद्‌विप्रकुलेष्वेव क्रमेणैवोत्तमादिषु ॥ ६६ ॥
भारते पुण्यवान्विप्रो भुक्त्वा स्वर्गादिकं परम् ।
पुनः सोऽपि भवेद्विप्रो न पुनः क्षत्रियादयः ॥ ६७ ॥
क्षत्रियो वापि वैश्यो वा कल्पकोटिशतेन च ।
तपसा ब्राह्मणत्वं च न प्राप्नोति श्रुतौ श्रुतम् ॥ ६८ ॥
स्वधर्मरहिता विप्रा नानायोनिं व्रजन्ति च ।
भुक्त्वा च कर्मभोगं च विप्रयोनिं लभेत्पुनः ॥ ६९ ॥
नाऽभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ७० ॥
देवतीर्थे सहायेन कायव्यूहेन शुध्यति ।
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ ७१ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे सावित्र्युपाख्याने कर्मविपाके
कर्मानुरूपस्थानगमनं नाम षड्विशोऽध्यायः ॥ २६ ॥


GO TOP