ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - त्रयोविंशोऽध्यायः
सावित्र्युपाख्याने सावित्रीस्तोत्रकथनम् -
नारद उवाच
तुलस्युपाख्यानमिदं श्रुतमीश सुधोपमम् ।
यत्तु सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि ॥ १ ॥
पुरा येन समुद्भूता सा श्रुता च श्रुतिप्रसूः ।
केन वा पूजिता देवी प्रथमे कैश्च वाऽपरे ॥ २ ॥
श्रीनारायण उवाच
ब्रह्मणा वेदजननी पूजिता प्रथमे मुने ।
द्वितीये च देवगणैस्तत्पश्चाद्विदुषां गणैः ॥ ३ ॥
तथा चाश्वपतिः पूर्वं पूजयामास भारते ।
तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च ॥ ४ ॥
नारद उवाच
को वा सोऽश्वपतिर्ब्रह्मन्केन वा तेन पूजिता ।
सर्वपूज्या च सावित्री तन्मे व्याख्यातुमर्हसि ॥ ५ ॥
श्रीनारायण उवाच
मद्रदेशे महाराजो बभूवाश्वपतिर्मुने ।
वैरिणां बलहर्ता च मित्राणां दुःखनाशनः ॥ ६ ॥
आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी ।
मालतीति च साऽऽख्याता यथा लक्ष्मीर्गदाभृतः ॥ ७ ॥
सा च राज्ञी महासाध्वी वसिष्ठस्योपदेशतः ।
चकाराऽऽराधनं भक्त्या सावित्र्याश्चैव नारद ॥ ८ ॥
प्रत्यादेशं न सा प्राप महिषी न ददर्श ताम् ।
गृहं जगाम सा दुःखाद्धृदयेन विदूयता ॥ ९ ॥
राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै ।
साविभ्यास्तपसे भक्त्या जगामपुष्करं तदा ॥ १० ॥
तपश्चचार तत्रैव संयतः शतवत्सरम् ।
न ददर्श च सावित्रीं प्रत्यादेशो बभूव ह ॥ ११ ॥
शुश्रावाऽऽकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् ।
गायत्रीदशलक्षं च जपं कुर्विति नारद ॥ १२ ॥
एतस्मिन्नन्तरे तत्र प्राजगाम पराशरः ।
प्रणनाम नृपस्तं च मुनिर्नृपमुवाच ह ॥ १३ ॥
पराशर उवाच
सकृज्जपश्च गायत्र्याः पापं दिनकृतं हरेत् ।
दशधा प्रजपो नृणां दिवारात्र्यघमेव च ॥ १४ ॥
शतधा च जपाच्चैव पापं मासार्जितं परम् ।
सहस्रधा जपाच्चैवं कल्मषं वत्सरार्जितम् ॥ १५ ॥
लक्षं जन्मकृतं पापं दशलक्षं त्रिजन्मनः ।
सर्वजन्मकृतं पापं शतलक्षे विनश्यति ॥ १६ ॥
करोति मुक्तिं विप्राणां जपो दशगुणस्ततः ।
करं सर्पफणाकारं कृत्वा तद्रन्ध्रमुद्रितम् ॥ १७ ॥
मानममूर्धमचलं प्रजपेत्प्राङ्मुखो द्विजः ।
अनामिकामध्यदेशादधो वामक्रमेण च ॥ १८ ॥
तर्जनीमूऽलपर्यन्तं जपस्यैष क्रमः करे ।
श्वेतपङ्कजबीजानां स्फाटिकानां च संस्कृताम् ॥ १९ ॥
कृत्वा वा मालिकां राजञ्जपेत्तीर्थं सुरालये ।
संस्थाप्य मालामश्वत्थपत्रसप्तसु संयतः ॥ २० ॥
कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः ।
गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम् ॥ २१ ॥
अथवा पञ्चगव्येन स्नाता माला च संस्कृता ।
अथ गङ्गोदकेनैव स्नाता वाऽतिसुसंस्कृता ॥ २२ ॥
एवंक्रमेण राजर्षे दशलक्षं जपं कुरु ।
साक्षाद्द्रक्ष्यसि सावित्रीं त्रिजन्मपातकक्षयात् ॥ २३ ॥
नित्यं नित्यं त्रिसंध्यं च करिष्यसि दिने दिने ।
मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा ॥ २४ ॥
संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥ २५ ॥
नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ॥ २६ ॥
यावज्जीवनपर्यन्तं यस्त्रिसंध्यं करोति च ।
स च सूर्यसमो विप्रस्तेजसा तपसा सदा ॥ २७ ॥
तत्पादपद्मरजसा सद्यः पूता वसुंधरा ।
जीवन्मुक्तः स तेजस्वी संध्यापूतो हि यो द्विजः ॥ २८ ॥
तीर्थानि च पवित्राणि तस्य स्पर्शनमात्रतः ।
ततः पापानि यान्त्येव वैनतेयादिवोरगाः ॥ २९ ॥
न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् ।
स्वेच्छया चरतश्चैव त्रिसंध्यरहितस्य च ॥ ३० ॥
विष्णुमन्त्रविहीनश्च त्रिसंध्यरहितो द्विजः ।
एकादशीविहीनश्च विषहीनो यथोरगः ॥ ३१ ॥
हरेरनैवेद्यभोजी धावको वृषवाहकः ।
शूद्रान्नभोजी विप्रश्च विषहीनो यथोरगः ॥ ३२ ॥
शवदाही च शूद्राणां यो विप्रो वृषलीपतिः ।
शूद्राणां सूपकारश्च विषहीनो यथोरगः ॥ ३३ ॥
शूद्राणां च प्रतिग्राही शूद्रयाजी च यो द्विजः ।
असिजीवी मषीजिवी विषहीनो यथोरगः ॥ ३४ ॥
यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ।
भगजीवी वार्धुषिको विषहीनो यथोरगः ॥ ३५ ॥
यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी ।
यो विद्याविक्रयी भूप विषहीनो यथोरगः ॥ ३६ ॥
सूर्योदये योऽन्नभोजी मत्स्यभोजी च यो द्विजः ।
शिलापूजादिरहितो विषहीनो यथोरगः ॥ ३७ ॥
इत्युक्त्वा च मुनिश्रेष्ठः सर्वं पूजाविधिक्रमम् ।
तमुवाच च सावित्र्या ध्यानादिकमभीप्सितम् ॥ ३८ ॥
दत्त्वा सर्वं नृपेन्द्राय प्रययौ स्वालयं मुनिः ।
राजा संपूज्य सावित्रीं ददर्श वरमाप च ॥ ३९ ॥
नारद उवाच
किंवा ध्यानं च सावित्र्याः किंवा पूजाविधानकम् ।
स्तोत्रं मन्त्रं च किं दत्त्वा प्रययौ स पराशरः ॥ ४० ॥
नृपः केन विधानेन संपूज्य श्रुतिमातरम् ।
वरं च किंवा संप्राप वद सोऽश्वपतिर्नृपः ॥ ४१ ॥
श्रीनारायण उवाच
ज्येष्ठे शुक्लत्रयोदश्यां शुद्धे काले च संयतः ।
व्रतमेतच्चतुर्दश्यां व्रती भक्त्या समाचरेत् ॥ ४२ ॥
व्रतं चतुर्दशाब्दं च द्विसस्तफलसंयुतम् ।
दत्त्वा द्विसप्तनैवेद्यं पुष्पधूपादिकं तथा ॥ ४३ ॥
वस्त्रं यज्ञोपवीतं च भोज्यं च विधिपूर्वकम् ।
संस्थाप्य मङ्गलघटं फलशाखासमन्वितम् ॥ ४४ ॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।
संपूज्य पूजयेदिष्टं घट आवाहिते मुने ॥ ४५ ॥
शृणु ध्यानं च सावित्र्याश्चोक्तं माध्यंदिने च यत् ।
स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम् ॥ ४६ ॥
तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा ।
ग्रीष्ममध्याह्नमार्तण्डसहस्रसमसुप्रभाम् ॥ ४७ ॥
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानां भक्तानुग्रहकारिकाम् ॥ ४८ ॥
सुखदां मुक्तिदां शान्तां कान्तां च जगतां विधेः ।
सर्वसंपत्स्वरूपां च प्रदात्रीं सर्वसंपदाम् ॥ ४९ ॥
वेदाधिष्ठातृदेवीं च वेदशास्त्रस्वरूपिणीम् ।
वेदे बीजस्वरूपां च भजे त्वां वेदमातरम् ॥ ५० ॥
ध्यात्वा ध्यानेन चानेन दत्त्वा पुष्पं स्वमूर्धनि ।
पुनर्ध्यात्वा घटे भक्त्या देवीमावाहयेद्व्रती ॥ ५१ ॥
दत्त्वा षोडशोपचारं वेदोक्तमन्त्रपूर्वकम् ।
संपूज्य स्तुत्वा प्रणमेदेवं देवीं विधानतः ॥ ५२ ॥
आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् ।
धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् ॥ ५३ ॥
वसनं भूषणं माल्यं गन्धमाचमनीयकम् ।
मनोहरं सुतल्पं च देयान्येतानि षोडश ॥ ५४ ॥
दारुसारविकारं च हेमादिनिर्मितं च वा ।
देवाधारं पुण्यदं च मया तुभ्यं निवेदितम् ॥ ५५ ॥
तीर्थोदकं च पाद्यं च पुण्यदं प्रीतिदं महत् ।
पूजाङ्गभूतं शुद्धं च मया भक्त्या निवेदितम् ॥ ५६ ॥
पवित्ररूपमर्घ्यं च दूर्वापुष्पाक्षतान्वितम् ।
पुण्यदं शङ्खतोयाक्तं मया तुभ्यं निवेदितम् ॥ ५७ ॥
सुगन्धि धात्रीतैलं च देहसौन्दर्यकारणम् ।
मया निवेदितं भक्त्या स्नानीयं प्रतिगृह्यताम् ॥ ५८ ॥
मलयाचलसंभूतं देहशोभाविवर्धनम् ।
सुगन्धयुक्त सुखदं मया तुभ्यं निवेदितम् ॥ ५९ ॥
गन्धद्रव्योद्भवः पुण्यः प्रीतिदो दिव्यगन्धदः ।
मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् ॥ ६० ॥
जगतां दर्शनीयं च दर्शनं दीप्तिकारणम् ।
अन्धकारध्वंसबीजं मया तुभ्यं निवेदितम् ॥ ६१ ॥
तुष्टिदं पुष्टिदं चैव प्रीतिदं क्षुद्विनाशनम् ।
पुण्यदं स्वादुरूपं च नैवेद्यं प्रतिगृह्यताम् ॥ ६२ ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।
तुष्टिदं पुष्टिदं चैव मया भक्तया निवेदितम् ॥ ६३ ॥
सुशीतलं वासितं च पिपासानाशकारणम् ।
जगतां जीवरूपं च जीवनं प्रतिगृह्यताम् ॥ ६४ ॥
देहशोभास्वरूपं च सभाशोभाविवर्धनम् ।
कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम् ॥ ६५ ॥
काञ्चनादिभिराबद्धं श्रीयुक्तं श्रीकरं सदा ।
सुखदं पुण्यदं चैव भूषणं प्रतिगृह्यताम् ॥ ६६ ॥
नानापुष्पलताकीर्णं बहुभासा समन्वितम् ।
प्रीतिदं पुण्यदं चैव माल्यं वै प्रतिगृह्यताम् ॥ ६७ ॥
सर्वमङ्गलरूपश्च सर्वमङ्गलदो वरः ।
पुण्यप्रदश्च गन्धाढ्यो गन्धश्च प्रतिगृह्यताम् ॥ ६८ ॥
शुद्धं शुद्धिप्रदं चैव पुण्यदं प्रीतिदं महत् ।
रम्यमाचनीयं च मया दत्तं प्रगृह्यताम् ॥ ६९ ॥
रत्नसारादिनिर्माणं पुष्पचन्दनसंयुतम् ।
सुखदं पुण्यदं चैव सुतल्पं प्रतिगृह्यताम् ॥ ७० ॥
नानावृक्षसमुद्भूतं नानारूपसमन्वितम् ।
फलस्वरूपं फलदं फलं च प्रतिगृह्यताम् ॥ ७१ ॥
सिन्दूरं च वरं रम्यं भालशोभाविवर्धनम् ।
भूषणं भूषणानां च सिन्दुरं प्रतिगृह्यताम् ॥ ७२ ॥
विशुद्धग्रन्थिसंयुक्तं पुण्यसूत्रविनिर्मितम् ।
पवित्रं वेदमन्त्रेण यज्ञसूत्रं च गृह्यताम् ॥ ७३ ॥
द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः ।
ततः प्रणम्य विप्राय व्रती दद्याच्च दक्षिणाम् ॥ ७४ ॥
सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च ।
लक्ष्मीमायाकामपूर्वं मन्त्रमष्टाक्षरं विदुः ॥ ७५ ॥
श्रीं ह्रीं क्लीं सावित्र्यै स्वाहा ।
माध्यंदिनोक्तं स्तोत्रं च सर्ववाञ्छाफलप्रदम् ।
विप्रजीवनरूपं च निबोध कथयामि ते ॥ ७६ ॥
कृष्णेन दत्ता सावित्री गोलोके ब्रह्मणे पुरा ।
न याति सा तेन सार्धं ब्रह्मलोकं तु नारद ॥ ७७ ॥
ब्रह्मा कृष्णाज्ञया भक्त्या पर्यष्टौद्वेदमातरम् ।
तदा सा परितुष्टा च ब्रह्माणं चकमे सती ॥ ७८ ॥
ब्रह्मोवाच
नारायणस्वरूपे च नारायणि सनातनि ।
नारायणात्समुद्भूते प्रसन्ना भव सुन्दरि ॥ ७९ ॥
तेजः स्वरूपे परमे परमानन्दरूपिणि ।
द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि ॥ ८० ॥
नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि ।
सर्वमङ्गलरूपेण प्रसन्ना भव सुन्दरि ॥ ८१ ॥
सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे ।
सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि ॥ ८२ ॥
विप्रपापेध्मदाहाय ज्वलदग्निशिखोपमे ।
ब्रह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि ॥ ८३ ॥
कायेन मनसा वाचा यत्पापं कुरुते द्विजः ।
तत्ते स्मरणमात्रेण भस्मीभूतं भविष्यति ॥ ८४ ॥
इत्युक्त्वा जगतां धाता तत्र तस्थौ च संसदि ।
सावित्री ब्रह्मणा सार्धं ब्रह्मलोकं जगाम सा ॥ ८५ ॥
अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः ।
ददर्श तां च सावित्रीं वरं प्राप मनोगतम् ॥ ८६ ॥
स्तवराजमिदं पुण्यं त्रिःसंध्यायां च यः पठेत् ।
पाठे चतुर्णां वेदानां यत्फलं तल्लभेद्ध्रुवम् ॥ ८७ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे सावित्र्युपाख्याने
सावित्रीस्तोत्रकथनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
GO TOP
|