ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - षोडशोऽध्यायः

तुलस्युपाख्यानम् -


श्रीनारायण उवाच
तुलसी परितुष्टा सा चास्वाप्सीद्धृष्टमानसा ।
नवयौवनसम्पन्ना प्रशंसन्ती वराङ्‌गना ॥ १ ॥
चिक्षेप पञ्चबाणश्च पञ्च बाणांश्च तां प्रति ।
पुष्पायुधेन सा विद्धा पुष्पचन्दनचर्चिता ॥ २ ॥
पुलकाञ्चितसर्वाङ्‌गी कम्पिता रक्तलोचना ।
क्षणं सा शुष्कतां प्राप क्षणं मूर्च्छामवाप ह ॥ ३ ॥
क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम् ।
क्षणं सा दहनं प्राप क्षणं प्राप प्रमत्तताम् ॥ ४ ॥
क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम् ।
उत्तिष्ठन्तौ क्षणं तल्पाद्‌गच्छन्ती निकटं क्षणम् ॥ ५ ॥
भ्रमन्ती क्षणमुद्वेगाद्‌विवसन्ती क्षणं पुनः ।
क्षणभेव समुद्वेगादस्वाप्सीत्पुनरेव सा ॥ ६ ॥
पुष्पचन्दनतल्पं च तद्‌बभूवातिकण्टकम् ।
विषमाहारकं स्वादु दिव्यरूपं फलं जलम् ॥ ७ ॥
निलयश्च निराकारः सूक्ष्मवस्त्रं हुताशनः ।
सिन्दुरपत्रकं चैव व्रणतुल्यं च दुःखदम् ॥ ८ ॥
क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती ।
सुन्दरं च युवानं च सस्मितं रसिकेश्वरम् ॥ ९ ॥
चन्द्रनोक्षितसर्वाङ्‌गं रत्‍नभूषणभूषितम् ।
आगच्छन्तं माल्यवन्तं पश्यन्तं तन्मुखाम्बुजम् ॥ १० ॥
कथयन्तं रतिकथां चुम्बन्तमधरं मुहुः ।
शयानं पुष्पतल्पे च समाश्लिष्यन्तमङ्‌गकम् ॥ ११ ॥
पुनरेव तु गच्छन्तमागच्छन्तं वसन्तकम् ।
कान्त क्व यासि प्राणेश तिष्ठेत्येवमुवाच सा ॥ १२ ॥
पुनः स्वचेतनां प्राप्य विललाप पुनः पुनः ।
एवं तपोवने सा च तस्थौ तत्रैव नारद ॥ १३ ॥
शङ्खचूडो महायोगी जैगीषव्यान्मनोरमम् ।
कृष्णस्य मन्त्रं सम्प्राप्य प्राप्य सिद्धिं तु पुष्करे ॥ १४ ॥
पठन्सदा तु कवचं सर्वमङ्‌गलमङ्‌गलम् ।
ब्रह्मेशाच्च वरं प्राप्य यत्तन्मनसि वाञ्छितम् ॥ १५ ॥
आज्ञया ब्रह्मणः सोऽपि बदरीं वै समाययौ ।
आगच्छन्तं शङ्खचूडमपश्यत्तुलसी मुने ॥ १६ ॥
नवयौवनसंपन्नं कामदेवसमप्रभम् ।
श्वेतचम्पकवर्णाभं रत्‍नभूषणभूषितम् ॥ १७ ॥
शरत्पार्वणचन्द्रास्यं शरत्पङ्‌कजलोचनम् ।
महारत्‍नगणाक्लृप्तविमानस्थं मनोहरम् ॥ १८ ॥
रत्‍नकुण्डलयुग्माढ्यगण्डस्थलविराजितम् ।
पारिजातप्रसूनाढ्यमाल्यवन्तं च सुस्थितम् ॥ १९ ॥
कस्तूरीकुङ्कुमयुतं सुगन्धितिलकोज्ज्वलम् ।
सा दृष्ट्‍वा संनिधाने तं मुखमाच्छाद्य वाससा ॥ २० ॥
सस्मिता तं निरीक्षन्ती सकटाक्षं पुनः पुनः ।
बभूव सा नम्रमुखी नवसङ्‌गमलज्जिता ॥ २१ ॥
कामुकी कामबाणेन पीडिता पुलकान्विता ।
पिबन्ती तन्मुखाम्भोजं लोचनाभ्यां च संततम् ॥ २२ ॥
ददर्श शङ्खचूडश्च कन्यामेकां तपोवने ।
पुष्पचन्दनतल्पस्थां वसन्तीं वाससाऽऽवृताम् ॥ २३ ॥
पश्यन्तीं तन्मुखं शश्वत्सस्मितां सुमनोहराम् ।
सुपीनकठिनश्रोणीं पीनोन्नतपयोधराम् ॥ २४ ॥
मुक्तापङ्क्तिप्रभाजुष्टदन्तपङ्क्तिं सुबिभ्रतीम् ।
पक्वबिम्बाधरोष्ठीं च सुनासां सुन्दरीं वराम् ॥ २५ ॥
तत्तकाञ्चनवर्णाभां शरच्चन्द्रसमप्रभाम् ।
स्वतेजसा परिवृतां सुखदृश्यां मनोरमाम् ॥ २६ ॥
कस्तूरीबिन्दुभिः सार्धमधश्चन्दनबिन्दुना ।
सिन्दूरबिन्दुना शश्वत्सीमन्ताधःस्थलोज्ज्वलाम् ॥ २७ ॥
निग्ननाभिगभीरां च तदधस्त्रिवलीयुताम् ।
करपद्मतलारक्तां नखचन्द्रैर्विभूषिताम् ॥ २८ ॥
स्थलपद्मप्रभाजुष्टं पादपद्मं च बिभ्रतीम् ।
आरक्तवर्णं ललितमलक्तकसमप्रभम् ॥ २९ ॥
स्थलपद्मैश्च जलजैः पद्मरागविराजिताम् ।
शरदिन्दुविनिन्द्यैकनखेन्द्वोघविराजिताम् ॥ ३० ॥
अमूल्यरत्‍नसंमिश्रयावकेन स्वलंकृताम् ।
मणीन्द्रमुख्यखचितक्वणन्मञ्जीररञ्जिताम् ॥ ३ १ ॥
दधतीं कबरीभारं मालतीमाल्यसंयुतम् ।
अमूल्यरत्‍नसंक्लृप्तमकराकृतिरूपिणा ॥ ३२ ॥
चित्रकुण्डलयुग्मेन गण्डस्थलविराजिताम् ।
रत्‍नेन्द्रमुक्ताहारश्रीस्तनमध्यस्थलोसज्ज्वलाम् ॥ ३३ ॥
रत्‍नकङ्‌कणकेयूरशङ्खभूषणभूषिताम् ।
रत्‍नाङ्‍गुलीयदिव्यैरङ्‍गुल्याबलिभिर्युताम् ॥ ३४ ॥
दृष्ट्‍वा तां ललितां कन्यां सुशीलां सुदतीं सतीम् ।
उवास तत्समीपे च मधुरं तामुवाच सः ॥ ३५ ॥
शङ्खचूड उवाच
कात्वं कस्य च कन्याऽसि धन्येमान्ये सुयोषिताम् ।
का त्वं कामिनि कल्याणिसर्वकल्याणदायिनि ॥ ३६ ॥
स्वर्गभोगादिसारेऽतिविहारे हाररूपिणि ।
संसारदारसारे च मायाधारे मनोहरे ॥ ३७ ॥
जगद्विलक्षणं क्षामे मुनीनां मोहकारिणि ।
मौनं त्यक्त्वा किंकरं मां सम्भाषां कुरु सुन्दरि ॥ ३८ ॥
इत्येवं वचनं श्रुत्वा सकामा वामलोचना ।
सस्मिता नम्रवदना सकामं तमुवाच सा ॥ ३९ ॥
तुलस्युवाच
धर्मध्वजसुताऽहं च तपस्यायां तपोवने ।
तपस्विनीह तिष्ठामि कस्त्वं गच्छ यथासुखम् ॥ ४० ॥
कामिनीं कुलजातां च रहस्येकाकिनीं सतीम् ।
न पृच्छति कुले जात एवमेव श्रुतौ श्रुतम् ॥ ४१ ॥
लम्पटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः ।
येनाश्रुतः क्षुतेरर्थः स कामीच्छति कामिनीम् ॥ ४२ ॥
आपातमधुरामन्ते चान्तकां पुरुषस्य ताम् ।
विषकुम्भाकाररूपाममृतास्यां च संततम् ॥ ४३ ॥
हदये क्षुरधाराभां शश्वन्मधुरभाषिणीम् ।
स्वकार्यपरिनिष्पत्तितत्परां सततं च ताम् ॥ ४४ ॥
कार्यार्थे स्वामिवशगामन्यथैवावशां सदा ।
स्वान्तर्मलिनरूपां च प्रसन्नवदनेक्षणाम् ॥ ४५ ॥
श्रुतौ पुराणे यासां च चरित्रमनिरूपितम् ।
तासु को विश्वसेत्प्राज्ञो ह्यप्राज्ञ इव सर्वदा ॥ ४६ ॥
तासां को वा रिपुर्मित्रं प्रार्थयन्तीं नवं नवम् ।
दृष्ट्‍वा सुवेशं पुरुषमिच्छन्तीं हृदये सदा ॥ ४७ ॥
बाह्ये स्वात्मसतीत्वं च ज्ञापयन्तीं प्रयत्‍नतः ।
शश्वत्कामां च रामां च कामाधारां मनोहराम् ॥ ४८ ॥
बाह्ये छलाच्छादयन्तीं स्वान्तर्मैथुनलालसाम् ।
कान्तं ग्रसन्तीं रहसि बाह्येऽतीव सुलज्जिताम् ॥ ४९ ॥
मानिनीं मैथुनाभावे कोपिनीं कलहाङ्‍कुराम् ।
सुप्रीता भूरिसंभोगात्स्वल्पमैथुनदुःखिताम् ॥ ५० ॥
सुमिष्टान्नं शीततोयमाकाङ्‍क्षन्ती च मानसे ।
सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा ॥ ५१ ॥
सुखात्परमतिस्नेहं कुर्वतीं रतिकर्तरि ।
प्राणाधिकं प्रियतमं संभोगकुशलं प्रियम् ॥ ५२ ॥
पश्यन्तीं रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम् ।
कलहं कुर्वतीं शश्वत्तेन सार्धं सुकापनाम् ॥ ५३ ॥
चर्चया भक्षयन्ती तं कीनाश इव गोरजः ।
दुःसाहसस्वरूपां च सर्वदोषाश्रयां सदा ॥ ५४ ॥
शश्वत्कपटरूपां च दुःसाध्यामप्रतिक्रियाम् ।
ब्रह्मविष्णुशिवादीनां दुस्त्याज्यां मोहरूपिणीम् ॥ ५५ ॥
तपोमार्गार्गलां शश्वन्मुक्तिद्वारकपाटिकाम् ॥ ५६ ॥
हरेर्भक्तिव्यवहितां सर्वमायाकरण्डिकाम् ।
संसारकारागारे च शश्वन्निगडरूपिणीम् ॥ ५७ ॥
इन्द्रजालस्वरूपां च मिथ्यावादिस्वरूपिणीम् ।
बिभ्रतीं बाह्मसौन्दर्यमध्याङ्‌गमतिकुत्सितम् ॥ ५८ ॥
नानाविण्मूत्रपूयानामाधारं मलसंयुतम् ।
दुर्गन्धिदोषसंयुक्तं रक्ताक्तं चाप्यसंस्कृतम् ॥ ५९ ॥
मायारूपं मायिनां च विधिना निर्मितं पुरा ।
विषरूपां मुमुक्षूणामदृश्यां चैव सर्वदा ॥ ६० ॥
इत्युक्त्वा तुलसी तं च विरराम च नारद ।
सस्मितः शङ्खचूडश्च प्रवक्तुमुगचक्रमे ॥ ६१ ॥
शङ्खचूड उवाच
त्वया यत्कथितं देवि न च सर्वमलीककम् ।
किंचित्सत्यमलीकं च किंचिन्मत्तो निशामय ॥ ६२ ॥
निर्मितं विविधं धात्रा स्त्रीरूपं सर्वमोहनम् ।
कृत्यारूप वास्तवं च प्रशस्यं चाप्रशंसितम् ॥ ६३ ॥
लक्ष्मीसरस्वतीदुर्गासावित्रीराधिकादिकम् ।
सृष्टिसूत्रस्वरूपं चाप्याद्यं स्रष्टा तु निर्मितम् ॥ ६४ ॥
एतासामंशरूपं यत्स्त्रीरूपं वास्तवं स्मृतम् ।
तत्प्रशस्यं यशोरूपं सर्वमङ्‌गलकारणम् ॥ ६५ ॥
शतरूपा देवहूतिः स्वधा स्वाहा च दक्षिणा ।
छायावती रोहिणी च वरुणानी शची तथा ॥ ६६ ॥
कुबेरवायुपत्‍नी साऽप्यदितिश्च दितिस्तथा ।
लोपामुद्राऽनसूया च कैटभी तुलसी तथा ॥ ६७ ॥
अहल्याऽरुन्धती मैना तारा मन्दोदरी परा ।
दमयन्ती वेदवती गङ्‌गा च यमुना तथा ॥ ६८ ॥
पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिकाच वसुंधरा ।
षष्ठी मङ्‌गलचण्डी च मूर्तिवै धर्मकामिनी ॥ ६९ ॥
स्वस्तिः श्रद्धा च कान्तिश्च तुष्टिः शान्तिस्तथापरा ।
निद्रा तन्द्रा क्षुत्पिपासा संध्या रात्रिर्दिनानि च ॥ ७० ॥
संपत्तिवृत्तिकीर्त्यश्च क्रिया शोभा प्रमांशकम् ।
यत्स्त्रीरूपं च संभूतमुत्तमं तद् युगे युगे ॥ ७१ ॥
कृत्यास्वरूपं तद्यत्तु स्वर्वेश्यादिकमेव च ।
तदप्रशस्यं विश्वेषु पुंश्चलीरूपमेव च ॥ ७२ ॥
सत्त्वप्रधानं यद्‌रूपं तच्च शुद्धं स्वभावतः ।
तदुत्तमं च विश्वेषु साध्वीरूपं प्रशंसितम् ॥ ७३ ॥
तद्वास्तवं च विज्ञेयं प्रवदन्ति मनीषिणः ।
रजोरूपं तमोरूपं कृत्यासु द्विविधं स्मृतम् ॥ ७४ ॥
स्थानाभावात्क्षणाभावान्मध्यवृत्तेरभावतः ।
देहक्लेशेन रोगेण सत्संसर्गेण सुन्दरी ॥ ७५ ॥
बहुगोष्ठावृतेनैव रिपुराजभयेन च ।
रजोरूपस्य साध्वीत्वमेतेनैवोपजायते ॥ ७६ ॥
इदं मध्यमरूपं च प्रवदन्ति मनीषिणः ।
तमोरूपं दुर्निवार्यमधमं तद्विदुर्बुधाः ॥ ७७ ॥
न पृच्छति कुले जातः पण्डितश्च परस्त्रियम् ।
निर्जने दुर्जने वाऽपि रहस्ये वचसा स्त्रियम् ॥ ७८ ॥
आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना ।
गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ॥ ७९ ॥
अहमेव शङ्खचूडो देवविद्रावकारकः ।
दनुवंशोद्‌भवो विश्वे सुदामाऽहं हरेः पुरे ॥ ८० ॥
अहमष्टसु गोपेषु गोगोपीपार्षदेषु च ।
अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ॥ ८१ ॥
जातिस्मरोऽहं जानामि कृष्णमन्त्रप्रभावतः ।
जातिस्मरा त्वं तुलसी संसक्ता हरिणा पुरा ॥ ८२ ॥
त्वमेव राधिकाकोपाज्जाताऽसि भारते भुवि ।
त्वां संभोक्तुमिच्छुकोऽहं नालं राधाभयात्तदा ॥ ८३ ॥
इत्येवमुक्त्वा स पुमान्विरराम महामुने ।
सस्मिता तुलसी हृष्टा प्रवक्तुमुपचक्रमे ॥ ८४ ॥
तुलस्युवाच
एवंविधो बुधो विश्वे बुधेषु च प्रशंसितः ।
कान्तमेवंविधं कान्ता शश्वदिच्छति कामतः ॥ ८५ ॥
त्वयाऽहमधुना सत्यं विचारेण पराजिता ।
सनिन्दितश्चाप्यशुचिर्यः पुमांश्च स्त्रिया जितः ॥ ८६ ॥
निन्दन्ति पितरोदेवा बान्धवाः स्त्रीजितं जनम् ।
स्त्रीजितं मनसा वाचा पिता भ्राता च निन्दति ॥ ८७ ॥
शुध्येद्विप्रो दशाहेन जातके मृतके तथा ।
भूमिपो द्वादशाहेन वैश्यः पञ्जदशाहतः ॥ ८८ ॥
शूद्रो मासेन वेदेषु मातृवद्वर्णसंकरः ।
अशुचिः स्त्रीजितः शुद्धेच्चितादाहेन कालतः ॥ ८९ ॥
न गृह्णन्तीच्छया तस्य पितरः पिण्डतर्पणम् ।
न गृह्णन्तीच्छया देवास्तस्य पुष्पजलादिकम् ॥ ९० ॥
किं तस्य ज्ञानतपसा जपहोमप्रपूजनैः ।
किं विद्यया वा यशसा स्त्रीभिर्यस्य मनो हृतम् ॥ ९१ ॥
विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः ।
कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ॥ ९२ ॥
वराय गुणहीनाय वृद्धायाज्ञानिने तथा ।
दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च ॥ ९३ ॥
अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च ।
पङ्गुलायाङ्‌गहीनाय चान्धाय बधिराय च ॥ ९४ ॥
जडाय चैव मूकाय क्लीबतुल्याय पापिने ।
ब्रह्महत्यां लभेत्सोऽपि यः स्वकन्यां ददाति च ॥ ९५ ॥
शान्ताय गुणिने चैव यूने च विदुषेऽपि च ।
वैष्णवाय सुतां दत्त्वा दशवाजिफलं लभेत् ॥ ९६ ॥
यः कन्यापालनं कृत्वा करोति विक्रयं यदि ।
विपदा धनलोभेन कुम्भीपाकं स गच्छति ॥ ९७ ॥
कन्यामूत्रपुरीषं च तत्र भक्षति पातकी ।
कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश ॥ ९८ ॥
तदन्ते व्याधयोनौ च लभते जन्म निश्चितम् ।
विक्रीणाति मांसभारं वहत्येव दिवानिशम् ॥ ९९ ॥
इत्येवमुक्त्वा तुलसी विरराम तपोवने ।
एतस्मिन्नन्तरे ब्रह्मा तयोरन्तिकमाययौ ॥ १०० ॥
मूर्ध्ना ननाम तुलसी शङ्खचूडश्च नारद ।
उवास तत्र देवेशश्चोवाच च तयोहितम् ॥ १०१ ॥
ब्रह्मोवाच
किं करोषि शङ्खचूड संवादमनया सह ।
गान्धर्वेण विवाहेन त्वमस्या ग्रहणं कुरु ॥ १०२ ॥
त्वं च पुरुषरत्‍नं च स्त्रीरत्‍नं स्त्रीष्वियं सती ।
विदग्धाया विदग्धेन संगमो गुणवान्भवेत् ॥ १०३ ॥
निर्विरोधमुखं राजन्को वा त्यजति दुर्लभम् ।
योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ॥ १०४ ॥
किमुपेक्षसि त्वं कान्तमीदृशं गुणिनं सति ।
देवानामसुराणां च दानवानां विमर्दनम् ॥ १०५ ॥
यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका ।
यथा मयि च सावित्री भवानी च भवे यथा ॥ १०६ ॥
यथा धरा वराहे च यथा मेना हिमालये ।
यथाऽत्रावनसूया च दमयन्ती नले यथा ॥ १०७ ॥
रोहिणी च यथा चन्द्रे यथाकामे रतिः सती ।
यथाऽदितिः कश्यपे च वसिष्ठेऽरुन्धती यथा ॥ १०८ ॥
यथाऽहल्या गौतमे च देवहूतिश्च कर्दमे ।
यथा बृहस्पतौ तारा शतरूपा मनौ यथा ॥ १०९ ॥
यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने ।
यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे ॥ ११० ॥
देवसेना यथा स्कन्दे धर्मे मूर्तिर्यथा सती ।
सौभाग्यासु प्रिया त्वं च शङ्खचूडे तथा भव ॥ १११ ॥
अनेन सार्धं सुचिरं सुन्दरेण च सुन्दरि ।
स्थाने स्थाने विहारं च यथेच्छं कुरु संततम् ॥ ११२ ॥
पश्चात्प्राप्स्यसि गोविन्दं गोलोके पुनरेव च ।
चतुर्भुजं च वैकुण्ठे शङ्खचूडे मृते सति ॥ ११३ ॥
इत्येवमाशिषं कृत्वा स्वालयं प्रययौ विधिः ।
गान्धर्वेण विवाहेन जगृहे तां च दानवः ॥ ११४ ॥
स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ।
स रेमे रामया सार्धं वासगेहे मनोहरे ॥ ११५ ॥
मूर्च्छा संप्राप तुलसी नवसंगमसंगता ।
निमग्ना निर्जने साध्वी संभोगसुखसागरे ॥ ११६ ॥
चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ।
कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् ॥ ११७ ॥
अङ्गप्रत्यङ्गसंश्लेषपूर्वकं स्त्रीमनोहरम् ।
तत्सर्वं सुखशृङ्गारं चकार रसिकेश्वरः ॥ ११८ ॥
अतीव रम्ये देशे च सर्वजन्तुविवर्जिते ।
पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना ॥ ११९ ॥
पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ।
गृहीत्वा रसिका रामां पुष्पचन्दनचर्चिताम् ॥ १२० ॥
भूषितां भूषणैः सर्वैरतीवसुमनोहराम् ।
सुरतेर्विरतिर्नास्ति तयोः सुरतविज्ञयोः ॥ १२१ ॥
जहार मानसं भर्तुर्लीलया तुलसी सती ।
चेतनां रसिकायाश्च जहार रसभाववित् ॥ १२२ ॥
वक्षसश्चन्दनं बाह्वोस्तिलकं विजहार सा ।
स च जग्राह तस्याश्च सिन्दूरबिन्दुपत्रकम् ॥ १२३ ॥
स तद्वक्षसि तस्याश्च नखरेखां ददौ मुदा ।
सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् ॥ १२४ ॥
राजा तदोष्ठपुटके ददौ दशनदंशनम् ।
तद्‌गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् ॥ १२५ ॥
सुरतेविरतौ तौ च समुत्थाय परस्परम् ।
सुवेशं चक्रतुस्तत्र यत्तन्मनसि वाञ्छितम् ॥ १२६ ॥
कुङ्कुमाक्तचन्दनेन सा तस्मै तिलकं ददौ ।
सर्वाङ्‌गे सुन्दरे रम्ये चकार चानुलेपनम् ॥ १२७ ॥
सुवासितं च ताम्बूलं वह्निशुद्धे च वाससी ।
पारिजातस्य कुसुमं माल्यं चैव सुशोभनम् ॥ १२८ ॥
अमूल्यरत्‍ननिर्माणमङ्गुलीयकमुत्तमम् ।
सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् ॥ १२९ ॥
दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ।
ननाम परया भक्त्या स्वामिनं गुणशालिनम् ॥ १३० ॥
सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पपौ पुनः ।
निमेषरहिताभ्यां च सकटाक्षं च सुन्दरम् ॥ १३१ ॥
स च तां च समाकृष्य चकार वक्षसि प्रियाम् ।
सस्मितं वाससा छन्नं ददर्शं मुखपंकजम् ॥ १३२ ॥
चुचुम्ब कठिने गण्डबिम्बोष्ठे पुनरेव च ।
ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् ॥ १३३ ॥
तदा हृतां रत्‍नमालां त्रिषु लोकेषु विश्रुताम् ॥ १३४ ॥
ददौमञ्जीरयुग्मं च स्वाहायाश्च हृतं चयत् ।
केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ॥ १३५ ॥
अङ्गुलीयकरत्‍नानि रत्याश्च वरभूषणम् ।
शङ्खं सुरुचिरं चित्रं यद्‌दत्तं विश्वकर्मणा ॥ १३६ ॥
विचित्रपीठकश्रेणीं शय्यां चापि सुदुर्लभाम् ।
भूषणानि च दत्त्वा च परीहारं चकार ह ॥ १३७ ॥
निर्ममे कबरीभारं तस्याश्च माल्यसंयुतम् ।
सुचित्रं पत्रकं गण्डे जयलेखसमं तथा ॥ १३८ ॥
चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना ।
परितः परितश्चित्रैः सार्धं कुङ्कुमबिन्दुभिः ॥ १३९ ॥
ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ ।
तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ॥ १४० ॥
चित्रालक्तकरागं च नखरेषु ददौ मुदा ।
स्ववक्षसि मुहुर्न्यस्तं सरागं चरणाम्बुजम् ॥ १४१ ॥
हे देवि तव दासोऽहमित्युच्चार्य पुनः पुनः ।
रत्‍ननिर्माणयानेन तां च कृत्वा स्ववक्षसि ॥ १४२ ॥
तपोवनं परित्यज्य राजा स्थानान्तरं ययौ ।
मलये देवनिलये शैले शैले वने वने ॥ १४३ ॥
स्थाने स्थानेऽतिरम्ये च पुष्पोद्यानेऽतिनिर्जने ।
कन्दरे कन्दरे सिन्धुतीरे तीरेऽतिसुन्दरे ॥ १४४ ॥
पुष्पभद्रानदीतीरे नीरवातमनोहरे ।
पुलिने पुलिने दिव्यं नद्यां नद्यां नदे नदे ॥ १४५ ॥
मधौ मधुकराणां च मधुरध्वनिनादिते ।
विनिस्यन्दे सूपवने नन्दने गन्धमादने ॥ १४६ ॥
देवोद्याने देववने चित्रे चन्दनकानने ।
चम्पकानां केतकीनां माधवीनां च माधवे ॥ १४७ ॥
कुन्दानां मालतीनां च कुमुदाम्भोजकानने ।
कल्पवृक्षे कल्पवृक्षे पारिजातवने वने ॥ १४८ ॥
निर्जने काञ्चनस्थाने धन्ये काञ्चनपर्वते ।
काञ्चीवने किञ्जलके कञ्चुकेकाञ्चनाकरे ॥ १४९ ॥
पुष्पचन्दनतल्पे च पुंस्कोकिलरुते श्रुते ।
पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना ॥ १५० ॥
कामुक्या कामुकः कामात्स रेमे रामया सह ।
न तृप्तो दानवेन्द्रश्च तृप्ति नैव जगाम सा ॥ १५१ ॥
हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः ।
तया सह समागत्य स्वाश्रमं दानवस्ततः ॥ १५२ ॥
रम्यं क्रीडालयं कृत्वा विजहार पुनस्ततः ।
एवं संबुभुजे राज्यं शङ्खचूडः प्रतापवान् ॥ १५३ ॥
एकमन्वन्तरं पूर्णं राजराजेश्वरो बली ।
देवानामसुराणां च दानवानां च संततम् ॥ १५४ ॥ ।
गन्धर्वाणां किन्नराणां राक्षसानां च शास्तिदः ।
हृताधिकारा देवाश्च चरन्ति भिक्षुका यथा ॥ १५५ ॥ ।
पूजाहोमादिकं तेषां जहार विषयं बलात् ।
आश्रयं चाधिकारं च शस्त्रास्त्रभूषणादिकम् ॥ १५६ ॥
निरुद्यमा सुराः सर्वे चित्रपुत्तलिका यथा ।
ते च सर्वे विषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् ॥ १५७ ॥
वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः ।
तदा ब्रह्मा सुरैः सार्धं जगाम शंकरालयम् ॥ १५८ ॥
सर्वं संकथयामास विधाता चन्द्रशेखरम् ।
ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगाम ह ॥ १५९ ॥
सुदुर्लभं परं धाम जरामृत्युहरं परम् ।
संप्राप च वरं द्वारमाश्रमाणां हरेरहो ॥ १६० ॥
ददर्श द्वारपालाश्च रत्‍नसिंहासनस्थितान् ।
शोभितान्पीतवस्त्रांश्च रत्‍नभूषणभूषितान् ॥ १६१ ॥
वनमालान्वितान्सर्वाञ्श्यामसुन्दरविग्रहान् ।
शङ्खचक्रगदापद्मधरांश्चैव चतुर्भुजान् ॥ १ ६२ ॥
सस्मितान्पद्मवक्त्रांश्च पद्मनेत्रान्मनोहरान् ।
ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् ॥ १६३ ॥
तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ।
एवं च षोडश द्वारान्निरीक्ष्य कमलोद्‌भवः ॥ १६४ ॥
देवः सार्धं तानतीत्य प्रविवेश हरेः सभाम् ।
देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः ॥ १६५ ॥
नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः ।
पूर्णेन्दुमण्डलाकारां चतुरस्रा मनोहरम् ॥ १६६ ॥
मणीन्द्रसारनिर्माणां हीरासारसुशोभिताम् ।
अमूल्यरत्‍नखचितां रचितां स्वेच्छया हरेः ॥ १६७ ॥
माणिक्यमालाजालाढ्यां मुक्तापङ्क्तिविभूषिताम् ।
मण्डितां मण्डलाकारै रत्‍नदर्पणकोटिभिः ॥ १ ६८ ॥
विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम् ।
पद्मरागेन्द्ररचितै रचितां पद्मकृत्रिमैः ॥ १६९ ॥
सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः ।
पट्टसूत्रग्रन्थियुतैश्चारुचन्दनपल्लवै ॥ १७० ॥
इन्द्रनीलमणिस्तम्भैर्वेष्टितां सुमनोरमाम् ।
सद्‌रत्‍नपूर्णकुम्भानां समूहैश्च समन्विताम् ॥ १७१ ॥
पारिजातप्रसूनानां मालाजालैर्विराजिताम् ।
कस्तूरीकुङ्‌कमाक्तैश्च सुगन्धिचन्दनद्रवैः ॥ १७२ ॥
सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना ।
विद्याधरीसमूहानां संगीतैश्च मनोहराम् ॥ १७३ ॥
सहस्रयोजनायामां परिपूर्णां च किंकरैः ।
ददर्श श्रीहरिं ब्रह्मा शंकरश्च सुरैः सह ॥ १७४ ॥
वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम् ।
अमूल्यरत्‍ननिर्माणचित्रसिंहासनस्थितम् ॥ १७५ ॥
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ।
शङ्‌खचक्रगदापद्मधारिणं च चतुर्भुजम् ॥ १७६ ॥
नवीननीरदश्यामं सुन्दरं सुमनोहरम् ।
अमूल्यरत्‍ननिर्माणसर्वाभरणभूषितम् ॥ १७७ ॥
चन्दनोक्षितसर्वाङ्‌गं बिभ्रतं केलिपङ्‌कजम् ।
पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा ॥ १७८ ॥
शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् ।
भक्तप्रदत्तताम्बूलं भुक्तवन्तं सुवासितम् ॥ १७९ ॥
गङ्‌गया परया भक्त्या सेवितं श्वेतचामरैः ।
सर्वैश्च स्तूयमानं च भक्तिनम्रात्मत्मकंधरैः ॥ १८० ॥
एवं विशिष्टं तं दृष्ट्‍वा परिपूर्णतमं विभुम् ।
ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा ॥ १८१ ॥
पुलकाङ्‌कितसर्वाङ्‌गाः साश्रूनेत्राः सगद्‌गदा ।
भक्त्या परमया भक्ता भीता नम्रात्मकंधराः ॥ १८२ ॥
पुटाञ्जलियुतो भूत्वा विधाता जगतामपि ।
वृत्तान्तं कथयामास विनयेन हरेः पुरः ॥ १८३ ॥
हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् ।
प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ॥ १८४ ॥
शङ्‌खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज ।
मद्‌भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ १८५ ॥
सुराः शृणुत तत्सर्वमितिहासं पुरातनम् ।
गोलोकस्यैव चरितं पापघ्नं पुण्यकारणम् ॥ १८६ ॥
सुदामा नाम गोपश्च पार्षदप्रवरो मम ।
स प्राप दानवीं योनिं राधाशापात्सुदारुणात् ॥ १८७ ॥
तत्रैकदाऽहमगमं स्वालयाद्‌रासमण्डलम् ।
विहाय मानिनीं राधां मम प्रणाधिकां पराम् ॥ १८८ ॥
सा मां विरजया सार्धं विज्ञाय किंकरीमुखात् ।
पश्चात्क्रुधा साऽऽजगाम मां ददर्श च तत्र च ॥ १८९ ॥
विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् ।
पुनर्जगाम सा रुष्टा स्वालयं सखिभिःसह ॥ १९० ॥
मां दृष्ट्‍वा मन्दिरेदेवी सुदामसहितं पुरा ।
भृशं मां भर्त्सयामास मौनीभूतं च सुस्थिरम् ॥ १९१ ॥
तच्छ्रुत्वा च सुमहांश्च सुदामा तां चुकोप ह ।
स च तां भर्त्सयामास कोपेन मम संनिधौ ॥ १९२ ॥
तच्छ्रुत्वा सा कोपयुक्ता रक्तपङ्‌कजलोचना ।
बहिष्कर्तुं चकाराऽज्ञां संत्रस्ता मम संसदि ॥ १९३ ॥
सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोज्ज्वलम् ।
बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः ॥ १९४ ॥
सा च तद्वचनं श्रुत्वा समारुष्टा शशाप तम् ।
याहि रे दानवीं योनिमित्येवं दारुणं वचः ॥ १९५ ॥
तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च ।
वारयामास सा तुष्टा रुदती कृपया पुनः ॥ १ ९६ ॥
हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः ।
समुच्चार्य च तत्पश्चाज्जगाम सा च विस्मिताः ॥ १९७ ॥
गोप्यश्च रुरुदुः सर्वा गोपाश्चेति सुदुःखिताः ।
ते सर्वे राधिका चापि तत्पश्चाद्‌बोधिता मया ॥ १९८ ॥
आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् ।
सुदामंस्त्वमिहाऽऽगच्छेत्युवाच सा निवारिता ॥ १९९ ॥
गोलोकस्य क्षणार्धेन चैकमन्वन्तरं भवेत् ।
पृथिव्यां जगतां धातुरित्येवं वचनं ध्रुवम् ॥ २०० ॥
स एव शङ्खचूडश्च पुनस्तत्रैव यास्यति ।
महाबलिष्ठो योगीशः सर्वमायाविशारदः ॥ २०१ ॥
मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् ।
शिवः करोतु संहारं मम शूलेन रक्षसः ॥ २०२ ॥
ममैव कवचं कण्ठे सर्वमङ्‌गलमङ्‌गलम् ।
बिभर्ति दानवः शश्वत्संसारविजयी ततः ॥ २०३ ॥
कवचे संस्थिते तत्र न कोऽपि हिंसितुं क्षमः ।
तद्याच्यां च करिष्यामि विप्ररूपोऽहमेव च ॥ २०४ ॥
सतीत्वभङ्‌गस्तत्पत्‍न्या यत्र काले भविष्यति ।
तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया ॥ २०५ ॥
तत्पत्‍न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् ।
तत्क्षणेनैव तन्मृत्युर्भविष्यति न संशयः ॥ २०६ ॥
पश्चात्सा देहमुत्सृज्य भविष्यति प्रिया मम ।
इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च ॥ २०७ ॥
शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरं मुदा ।
भारतं च ययुर्देवा ब्रह्मरुद्रपुरोगमाः ॥ २०८ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे तुलस्युपाख्याने षोडशोऽध्यायः ॥ १६ ॥


GO TOP