ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - दशमोऽध्यायः

गङ्गोपाख्यानम् -


नारद उवाच
श्रुतं पृथिव्युपाख्यानमतीव सुमनोहरम् ।
गङ्गोपाख्यानमधुना वद वेदविदां वर ॥ १ ॥
भारतं भारतीशापादाजगाम सुरेश्वरी ।
विष्णुस्वरूपा परमा स्वयं विष्णुपदी सती ॥ २ ॥
कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा ।
तत्क्रमं श्रोतुमिच्छामि पापघ्नं पुण्यदं शुभम् ॥ ३ ॥
नारायण उवाच
राजराजेश्वरः श्रीमान्सगरः सूर्यवंशजः ।
तस्य भार्या च वैदर्भी शैव्या च द्वे मनोहरे ॥ ४ ॥
सत्यस्वरूपः सत्येष्ठः सत्यवाक्सत्यभावनः ।
सत्यधर्मविचारज्ञः परं सत्ययुगोद्‌भवः ॥ ५ ॥
एकस्यामेव पुत्रश्च बभूव सुमनोहरः ।
असमञ्ज इति ख्यातः शैव्यायां कुलवर्धनः ॥ ६ ॥
अन्या चाऽऽराधयामास शंकरं पुत्रकामुकी ।
बभूव गर्भस्तस्याश्च शिवस्य तु वरेण च ॥ ७ ॥
गते शताब्दे पूर्णे च मांसपिण्डं सुषाव सा ।
तद्‌ दृष्ट्‍वा च शिवं ध्यात्वा रुरोदोच्चैः पुनः पुनः ॥ ८ ॥
शंभुर्ब्राह्मणरूपेण तत्समीपं जगाम ह ।
चकार संविभज्यैतत्पिण्डं षष्टिसहस्रधा ॥ ९ ॥
सर्वे बभूवुः पुत्राश्च महाबलपराक्रमाः ।
ग्रीष्ममध्याह्नमार्तण्डप्रभाजुष्टकलेवराः ॥ १० ॥
कपिलर्षेः कोपदृष्ट्या बभूवुर्भस्मसाच्च ते ।
राजा रुरोद तच्छ्रुत्वा जगाम मरणं शुचा ॥ ११ ॥
तपश्चकारासमञ्जो गङ्गानयनकारणात् ।
तपः कृत्वा लक्षवर्षं ममार कालयोगतः ॥ १२ ॥
दिलीपस्तस्य तनयो गङ्गानयनकारणात् ।
तपः कृत्वा लक्षवर्षं ययौ लोकान्तरं नृपः ॥ १३ ॥
अंशुमांस्तस्य पुत्रश्च गङ्गानयनकारणात् ।
तपः कृत्वा लक्षवर्षं मृतश्च कालयोगतः ॥ १४ ॥
भगीरथस्तस्य पुत्रो महाभागवतः सुधीः ।
वैष्णवो विष्णुभक्तश्च गुणवानजरामरः ॥ १५ ॥
तपः कृत्वा लक्षवर्षं गङ्गानयनकारणात् ।
ददर्श कृष्णं हृष्टास्यं सूर्यकोटिसमप्रभम् ॥ १६ ॥
द्विभुजं मुरलीहस्तं किशोरं गोपवेषकम् ।
परमात्मानमीशं च भक्तानुग्रहविग्रहम् ॥ १७ ॥
स्वेच्छामयं परं ब्रह्म परिपूर्णतमं विभुम् ।
ब्रह्मविष्णुशिवाद्यैश्च स्तुतं मुनिगणैर्नुतम् ॥ १८ ॥
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् ।
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकारकम् ॥ १९ ॥
वह्निशुद्धांशुकाधानं रत्‍नभूषणभूषितम् ।
तुष्टाव दृष्ट्‍वा नृपतिः प्रणम्य च पुनः पुनः ॥ २० ॥
लीलया च वरं प्राप्य वाञ्छितं वंशतारकम् ।
तत्राऽऽजगाम गङ्गा सा स्मरणात्परमात्मनः ॥ २१ ॥
तं प्रणम्य प्रतस्थौ च तत्पुरः संपुटाञ्जलिः ।
उवाच भगवांस्तत्र तां दृष्ट्‍वा सुमनोहराम् ।
कुर्वतो स्तवनं दिव्यं पुलकाञ्चितविग्रहाम् ॥ २२ ॥
श्रीकृष्ण उवाच
भारतं भारतीशापाद्‌गच्छ शीघ्रं सुरेश्वरि ॥ २३ ॥
सगरस्य सुतान्सर्वान्पूतान्कुरु ममाऽज्ञया ।
त्वत्स्पर्शवायुना पूता यास्यन्ति मम मन्दिरम् ॥ २४ ॥
बिभ्रतो दिव्यमूर्तिं ते दिव्यस्यन्दनगामिनः ।
मत्पार्षदा भविष्यन्ति सर्वकालं निरामयाः ॥ २५ ॥
कर्मभोगं समुच्छिद्य कृतं जन्मनि जन्मनि ।
नानाविधं महत्स्वल्पं पापं स्याद्‌भारते नृभिः ॥ २६ ॥
गङ्गायाः स्पर्शवातेन नश्यतीति श्रुतौ श्रुतम् ।
स्पर्शनं दर्शनाद्‌देव्याः पुण्यं दशगुणं ततः ॥ २७ ॥
मौसलस्नानमात्रेण सामान्यदिवसे नृणाम् ।
कोटिजन्मार्जितं पापं नश्यतीति श्रुतौ श्रुतम् ॥ २८ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
नानाजन्माजितान्येव कामतोऽपि कृतानि च ॥ २९ ॥
तानि सर्वाणि नश्यन्ति मौसलस्नानतो नृणाम् ।
पुण्याहस्नानजं पुण्यं वेदा नैव विदन्ति च ॥ ३० ॥
केचिद्विदन्ति ते देवि फलमेव यथागमम् ।
ब्रह्मविष्णुशिवाद्याश्च सर्वं नैव विदन्ति च ॥ ३१ ॥
सामान्यदिवसस्नानसंकल्पं शृणु सुन्दरि ।
पुण्यं दशगुणं चैव मौसलस्नानतः परम् ॥ ३२ ॥
ततस्त्रिंशद्‌गुणं पुण्यं रविसंक्रमणे दिने ।
अमायां चापि तत्तुल्यं द्विगुणं दक्षिणायने ॥ ३३ ॥
ततो दशगुणं पुण्यं नराणामुत्तरायणे ।
चातुर्मास्यां पौर्णमास्यामनन्तं पुण्यमेव च ॥ ३४ ॥
अक्षयायां च तत्तुल्यं नैतद्वेदे निरूपितम् ।
असंख्यपुण्यफलदमेतेषु स्नानदानकम् ॥ ३५ ॥
सामान्यदिवसे स्नानं ध्यानाच्छतगुणं फलम् ।
मन्वन्तरेषु देवेशि युगादिषु तथैव च ॥ ३६ ॥
माघस्य सितसप्तम्यां भीष्माष्टम्यां तथैव च ।
तथाऽशोकाष्टमीतिथ्यां नवम्यां च तथा हरेः ॥ ३७ ॥
ततोऽपि द्विगुणं पुण्यं नन्दायां तव दुर्लभम् ।
दशपापहरायां तु दशम्यां सुमहत्फलम् ॥ ३८ ॥
नन्दोपमं च वारुण्यां महत्पूर्वं चतुर्गुणम् ।
ततश्चतुर्गुणं पुण्यं द्विमहत्पूर्वके सति ॥ ३९ ॥
पुण्यं कोटिगुणं चैव सामान्यस्नानतो भवेत् ।
चन्द्रसूर्योपरागेषु स्मृतं दशगुणं ततः ॥ ४० ॥
पुण्येऽप्यर्धोदये काले ततः शतगुणं फलम् ।
सर्वेषामेव संकल्पो वैष्णवानां विपर्ययः ॥ ४१ ॥
फलसंधानरहिता जीवन्मुक्ताश्च वैष्णवाः ।
मत्प्रीतिभक्तिकामास्ते सर्वदा सर्वकर्मसु ॥ ४२ ॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशेत्परः ।
जीवन्मुक्त वैष्णवं तं वेदाः सर्वे वदन्ति च ॥ ४३ ॥
पुरुषाणां शतं पूर्वं पैतृकं च परं शतम् ।
मातामहस्य च तात मातरं मातृमातरम् ॥ ४४ ॥
भगिनीं भ्रातरं चैव भागिनेयं च मातुलम् ।
श्वश्रूं च श्वशुरं चैव गुरुपत्‍नीं गुरोः सुतम् ॥ ४५ ॥
गुरुं च ज्ञानदातारं मित्रं च सहचारिणम् ।
भृत्यं शिष्यं तथा चेटीं प्रजां स्याश्रमसंनिधौ ॥ ४६ ॥
उद्धरेदात्मना सार्धं मन्त्रग्रहणमात्रतः ।
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ॥ ४७ ॥
तस्य संस्पर्शनात्पूतं तीर्थं च भुवि भारते ।
तस्यैव पादरजसा सद्यः पूता वसुंधरा ॥ ४८ ॥
पादोदकस्थानमिदं तीर्थमेव भवेद्ध्रुवम् ।
अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदितम् ॥ ४९ ॥
खादन्ति नो वैष्णवाश्च सदा नैवेद्यभोजिनः ।
विष्णोनिवेदितान्नं च नित्यं ये भुञ्जते नराः ॥ ५० ॥
पूतानि सर्वतीर्थानि तेषां च स्पर्शनादहो ।
विष्णोः पादोदकं पुण्यं नित्यं ये भुञ्जते नराः ॥ ५१ ॥
तत्पापानि पलायन्ते वैनतेयादिवोरगाः ।
तेषां दर्शनमात्रेण पूतं च भुवनत्रयम् ॥ ५२ ॥
विष्णोः सुदर्शनं चक्रं सततं तांश्च रक्षति ।
मद्‌गुणश्रवणाद्ये च पुलकाङ्कितविग्रहाः ॥ ५३ ॥
गद्‌गदाः साश्रुनेत्राश्च नरास्ते वैष्णवोत्तमाः ।
पुत्रादपि परः स्नेहो मयि येषां निरन्तरम् ॥
गृहाद्याश्च मयि न्यस्तास्ते नरा वैष्णवोत्तमाः ॥ ५४ ॥
आब्रह्मस्तम्बपर्यन्तं मत्तः सर्वं चराचरम् ।
सर्वेषामहमेवेश इतिज्ञा वैष्णवोत्तमाः ॥ ५५ ॥
असंख्यकोटिब्रह्माण्डं ब्रह्मविष्णुशिवादयः ।
प्रलये मयि लीयन्ते चेतिज्ञा वैष्णवोत्तमाः ॥ ५६ ॥
तेजः स्वरूपं परमं भक्तानुग्रहविग्रहम् ।
स्वेच्छामयं निर्गुणं च निरीहं प्रकृतेः परम् ॥ ५७ ॥
सर्वे प्राकृतिका मत्त आविर्भूतास्तिरोहिताः ।
इति जानन्ति ये देवि ते नरा वैष्णवोत्तमाः ॥ ५८ ॥
इत्येवमुक्त्वा देवेशो विरराम तयोः पुरः ।
उवाच तं त्रिपथगा भक्तिनम्रात्मकंधरा ॥ ५९ ॥
गङ्गोवाच
यामि चेद्‌भारतं नाथ भारतीशापतः पुरा ।
तवाऽऽज्ञया च राजेन्द्र तपसा चैव सांप्रतम् ॥ ६० ॥
यानिकानि च पापानि मह्यं दास्यन्ति पापिनः ।
तानि मे केन नश्यन्ति तदुपायं वद प्रभो ॥ ६१ ॥
कति कालं परिमितं स्थितिर्मे तत्र भारते ।
कदा यास्यामि सर्वेश तद्विष्णोः परमं पदम् ॥ ६२ ॥
ममान्यद्वाञ्छितं यद्यत्सर्वं जानासि सर्ववित् ।
सर्वान्तरात्मन्सर्वज्ञ तदुपायं वद प्रभो ॥ ६३ ॥
श्रीकृष्ण उवाच
जानामि वाञ्छितं गङ्गे तव सर्वं सुरेश्वरि ।
पतिस्ते रुद्ररूपोऽयं लवणोदो भविष्यति ॥ ६४ ॥
ममैवांशः समुद्रश्च त्वं च लक्ष्मीस्वरूपिणी ।
विदग्धाया विदग्धेन संगमो गुणवान्भुवि ॥ ६५ ॥
यावत्यः सन्ति नद्यश्च भारत्याद्याश्च भारते ।
सौभाग्यं तव तास्वेव लवणोदस्य सौरते ॥ ६६ ॥
अद्यप्रभृति देवेशि कलेः पञ्चसहस्रकम् ।
वर्षं स्थितिस्ते भारत्या भुवि शापेन भारते ॥ ६७ ॥
नित्यं वारिधिना सार्धं करिष्यसि रहो रतिम् ।
त्वमेव रसिका देवी रसिकेन्द्रेण संयुता ॥ ६८ ॥
त्वां तोषयन्ति स्तोत्रेण भगीरथकृतेन च ।
भारतस्था जनाः सर्वे पूजयिष्यन्ति भक्तितः ॥ ६९ ॥
ध्यानेन कौथुमोक्तेन ध्यात्वा त्वां पूजयिष्यति ।
यः स्तौति प्रणमेन्नित्यं सोऽश्वमेधफलं लभेत् ॥ ७० ॥
गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ७१ ॥
सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति ।
मद्‌भक्तदर्शने तावत्तदेव हि विनश्यति ॥ ७२ ॥
पापिनां तु सहस्राणां शवस्पर्शेन यत्तव ।
मन्मन्त्रोपासकस्नानात्तदघं च विनश्यति ॥ ७३ ॥
यत्र यत्र भवेद्‌गङ्गे मन्नामगुणकीर्तनम् ।
तत्रैव त्वमधिष्ठानं करिष्यस्यघमोचनात् ॥ ७४ ॥
सार्धं सरिद्‌भिः श्रेष्ठाभिः सरस्वत्यादिभिः शुभे ।
तत्तु तीर्थं भवेत्सद्यो यत्र मद्‌गुणकीर्तनम् ॥ ७५ ॥
यद्‌रेणुस्पर्शमात्रेण पूतो भवति पातकी ।
रेणुप्रमाणं वर्षं च स वैकुण्ठे वसेद्ध्रुवम् ॥ ७६ ॥
स्नास्यन्ति त्वयि ये भक्ता मन्नामस्मृतिपूर्वकम् ।
समुत्सृजन्ति प्राणांश्च ते गच्छन्ति हरेः पदम् ॥ ७७ ॥
पार्षदप्रवरास्ते च भविष्यन्ति हरेश्चिरम् ।
असंख्यकं प्राकृतिकं लयं द्रक्ष्यन्ति ते नराः ॥ ७८ ॥
मृतस्य बहुपुण्येन तच्छवं त्वयि विन्यसेत् ।
प्रयाति स च वैकुण्ठं यावदस्थ्नां स्थितिस्त्वयि ॥ ७९ ॥
कायव्यूहं ततः कृत्वा भोजयित्वा स्वकर्मजम् ।
तस्मै ददामि सारूप्यं तं करोमि च पार्षदम् ॥ ८० ॥
अज्ञानी त्वज्जलस्पर्शाद्यदि प्राणान्समुत्सृजेत् ।
तस्मै ददामि सारूप्यं तं करोमि च पार्षदम् ॥ ८१ ॥
अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ।
तस्मै ददामि सारूप्यमसंख्यं प्राकृतं लयम् ॥ ८२ ॥
अन्यत्र वा त्यजेत्प्राणान्मन्नामस्मृतिपूर्वकम् ।
तस्मै ददामि सालोक्यं यावद्वै ब्रह्मणो वयः ॥ ८३ ॥
तीर्थेऽप्यतीर्थे मरणे विशेषो नास्ति कश्चन ।
मन्मन्त्रोपासकानां च नित्यं नैवेद्यभोजिनाम् ॥ ८४ ॥
पूतं कर्तुं स शक्तो हि लीलया भुवनत्रयम् ।
रत्‍नेन्द्रसारनिर्माणयानेन सह पार्षदैः ॥
सद्यः स याति गोलोकं मम तुल्यो भवेद्‌ध्रुवम् ॥ ८५ ॥
मद्‌भक्तबान्धवा ये ये ते ते पुण्यधियः शुभे ।
ते यान्ति रत्‍नयानेन गोलोकं च सुदुर्लभम् ॥ ८६ ॥
यत्र यत्र मृता ये च ज्ञानाज्ञानेन वा सति ।
जीवन्मुक्ताश्च ते पूता भक्तसंनिधिमात्रतः ॥ ८७ ॥
इत्युक्त्वा श्रीहरिस्तां च तमुवाच भगीरथम् ।
स्तुहि गङ्गामिमां भक्त्या पूजां कुरु च सांप्रतम् ॥ ८८ ॥
भगीरथस्तां तुष्टाव पूजयामास भक्तितः ।
ध्यानेन कौथुमोक्तेन स्तोत्रेण च पुनः पुनः ॥ ८९ ॥
श्रीकृष्णं प्रणनामाथ परमात्मानमीश्वरम् ।
भगीरथश्च गङ्गा च सोऽन्तर्धानं गतो हरिः ॥ ९० ॥
नारद उवाच
स्तोत्रेण केन ध्यानेन केन पूजाक्रमेण च ।
पूजां चकार नृपतिर्वद वेदविदां वर ॥ ९१ ॥
श्रीनारायण उवाच
स्नात्वा नित्यक्रियां कृत्वा धृत्वा धौते च वाससी ।
पादौ प्रक्षाल्य चाऽऽचम्य संयतो भक्तिपूर्वकम् ॥ ९२ ॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवम् ।
संपूजयेन्नरः शुद्धः सोऽधिकारी च पूजने ॥ ९३ ॥
गणेशं विघ्ननाशाय निष्पापाय दिवाकरम् ।
वह्निं स्वशुद्धये विष्णुं मुक्तये पूजयेन्नरः ॥ ९४ ॥
शिवं ज्ञानाय ज्ञानेशं शिवां बुद्धिविवृद्धये ।
संपूज्यैतल्लभेत्प्राज्ञो विपरीतमतोऽन्यथा ॥ ९५ ॥
दध्यावनेन तद्ध्यानं शृणु नारद तत्त्वतः ।
ध्यानं च कौथुमोक्तं वै सर्वपापप्रणाशनम् ॥ ९६ ॥
श्वेतचम्पकवर्णाभां गङ्गा पापप्रणाशिनीम् ।
कृष्णविग्रहसंभूतां कृष्णतुल्यां परां सतीम् ॥ ९७ ॥
वह्निशुद्धाशुकाधानां रत्‍नभूषणभूषिताम् ।
शरत्पूर्णेन्दुशतकप्रभाजुष्टकलेवराम् ॥ ९८ ॥
ईषद्धासप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ।
नारायणप्रियां शान्तां सत्सौभाग्यसमन्विताम् ॥ ९९ ॥
बिभृतो कबरीभारं मालतीमाल्यसंयुताम् ।
सिन्दूरबिन्दुललितां सार्धं चन्दनबिन्दुभिः ॥ १०० ॥
कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम् ।
पक्वबिम्बसमानैकचार्वोष्ठपुटमुत्तमम् ॥ १०१ ॥
मुक्तापङ्‍क्तिप्रभाजुष्टदन्तपङ्‍क्तिमनोहराम् ।
सुचारुवक्त्रनयना सकटाक्षमनोरमाम् ॥ १०२ ॥
कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम् ।
बृहच्छ्रोणीं सुकठिनां रम्भास्तम्भविनिन्दिताम् ॥ १०३ ॥
स्थलपद्मप्रभाजुष्टपादपद्मयुगं धराम् ।
रत्‍नाभरणसंयुक्तं कुङ्‍कुमाक्तं सयावकम् ॥ १०४ ॥
देवेन्द्रमौलिमन्दारमकरन्दकणारुणम् ।
सुरसिद्धमुनीन्द्रादिदत्तार्घ्यैः संयुतं सदा ॥ १०५ ॥
तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ।
मुक्तिप्रदं मुमुक्षूणां कामिनां स्वर्गभोगदम् ॥ १०६ ॥
वरां वरेण्या वरदां भक्तानुग्रहविग्रहाम् ।
श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम् ॥ १०७ ॥
इति ध्यानेन चानेन ध्यात्वा त्रिपथगां शुभाम् ।
दत्त्वा संपूजयेद्‌बह्मन्नुपचारांश्च षोडश ॥ १०८ ॥
आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् ।
धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् ॥ १०९ ॥
वसनं भूषणं माल्यं गन्धमाचमनीयकम् ।
मनोहरं सुतल्पं च देयान्येतानि षोडश ॥ ११० ॥
दत्त्वा भक्त्या संप्रणमेत्स्तुत्वा तां संपुटाञ्जलि ।
संपूज्यैवंप्रकारेण सोऽश्वमेधफलं लभेत् ॥ १११ ॥
स्तोत्रं वै कौथुमोक्तं च संवादं विष्णुवेधसोः ।
शृणु नारद वक्ष्यामि पापघ्नं च सुपुण्यदम् ॥ ११२ ॥
ॐ नमो गङ्गायै ।
श्रीब्रह्मोवाच
श्रोतुमिच्छामि देवेश लक्ष्मीकान्त नमः प्रभो ।
विष्णो विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारणम् ॥ ११३ ॥
श्रीनारायण उवाच
शिवसंगीतसंमुग्धश्रीकृष्णाङ्गद्रवोद्‌भवाम् ।
राधाङ्गद्रवसंभूतां तां गङ्गा प्रणमाम्यहम् ॥ ११४ ॥
या जन्मसृष्टेरादौ च गोलके रासमण्डले ।
संनिधाने शंकरस्य तां गङ्गा प्रणमाम्यहम् ॥ ११५ ॥
गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे ।
कार्तिकीपूर्णिमाजातां तां गङ्गा प्रणमाम्यहम् ॥ ११६ ॥
कोटियोजनविस्तीर्णा दैर्घ्ये लक्षगुणा ततः ।
समावृता या गोलोकं तां गङ्गा प्रणमाम्यहम् ॥ ११७ ॥
षष्टिलक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा ।
समावृता या वैकुण्ठं तां गङ्गा प्रणमाम्यहम् ॥ ११८ ॥
विंशल्लक्षैर्योजनैर्या ततोदैर्घ्ये चतुर्गुणा ।
समावृता ब्रह्मलोकं या तां गङ्गा प्रणमाम्यहम् ॥ ११९ ॥
त्रिंशल्लक्षैर्योजनैर्या दैर्घ्ये पञ्चगुणा ततः ।
आवृता शिवलोकं या तां गङ्गा प्रणमाम्यहम्. ॥ १२० ॥
षड्‍योजनसुविस्तीर्णा दैर्घ्ये दशगुणा ततः ।
मन्दाकिनी येन्द्रलोके तां गङ्गा प्रणमाम्यहम् ॥ १२१ ॥
लक्षयोजनविस्तीर्णा दैर्घ्ये शतगुणा ततः ।
आवृता ध्रुवलोकं या तां गङ्गा प्रणमाम्यहम् ॥ १२२ ॥
लक्षयोजनविस्तीर्णा दैर्घ्ये षड्गुणिता ततः ।
आवृता चन्द्रलोकं या तां गङ्गा प्रणमाम्यहम् ॥ १२३ ॥
योजनैः षष्टिसाहस्रैर्दैर्घ्ये दशगुणा ततः ।
आवृता सूर्यलोकं या तां गङ्गा प्रणमाम्यहम् ॥ १२४ ॥
लक्षयोजनविस्तीर्णा दैर्घ्ये षड्गुणिता ततः ।
आवृता सत्यलोकं या तां गङ्गा प्रणमाम्यहम् ॥ १२५ ॥
दशलक्षैयोजनैर्या दैर्घ्ये पञ्चगुणा ततः ।
आवृता या तपोलोकं तां गङ्गा प्रणमाम्यहम् ॥ १२६ ॥
सहस्रयोजना या च दैर्घ्ये सप्तगुणा ततः ।
आवृता जनलोकं या तां गङ्गा प्रणमाम्यहम् ॥ १२७ ॥
सहस्रयोजनायामा दैर्ध्ये सप्तगुणा ततः ।
आवृता या च कैलासं तां गङ्गा प्रणमाम्यहम् ॥ १२८ ॥
पाताले या भोगवती विस्तीर्णा दशयोजना ।
कतो दशगुणा दैर्ध्ये तां गङ्गा प्रणमाम्यहम् ॥ १२९ ॥
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा न कुत्रचित् ।
क्षितौ चालकनन्दा या तां गङ्गा प्रणमाम्यहम् ॥ १३० ॥
सत्ये या क्षीरवर्णा च त्रेतायामिन्दुसंनिभा ।
द्वापरे चन्दनाभा च तां गङ्गा प्रणमाम्यहम् ॥ १३१ ॥
जलप्रभा कलौ या च नान्यत्र पृथिवीतले ।
स्वर्गे च नित्यं क्षीराभा तां गङ्गा प्रणमाम्यहम् ॥ १३२ ॥
यस्याः प्रभाव अतुलः पुराणे च श्रुतौ श्रुतः ।
या पुण्यदा पापहर्त्री तां गङ्गा प्रणमाम्यहम् ॥ १३३ ॥
यत्तोयकणिकास्पर्शः पापिनां च पितामह ।
ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ १३४ ॥
इत्येवं कथितं ब्रह्मन्गङ्गापद्यैकविंशतिम् ।
स्तोत्ररूपं च परमं पापघ्नं पुण्यबीजकम् ॥ १३५ ॥
नित्यं यो हि पठेद्‌भक्त्या संपूज्य च सुरेश्वरीम् ।
अश्वमेधफलं नित्यं लभते नात्र संशयः ॥ १३६ ॥
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् ।
रोगान्मुच्येत रोगी च बद्धो मुच्येत बन्धनात् ॥ १३७ ॥
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।
यः पठेत्प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ॥ १३८ ॥
शुभं भवेत्तु दुःस्वप्नं गङ्गास्नानफलं भवेत् ॥ १३९ ॥
नारायण उवाच
भगीरथोऽनया स्तुत्या स्तुत्वा गङ्गा च नारद ।
जगाम तां गृहीत्वा च यत्र नष्टाश्च सागराः ॥ १४० ॥
वैकुण्ठं ते ययुस्तूर्णं गङ्गायाः स्पर्शवायुना ।
भगीरथेन साऽऽनीता तेन भागीरथी स्मृता ॥ १४१ ॥
इत्येवं कथितं सर्वं गङ्गोपाख्यानमुत्तमम् ।
पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ १४२ ॥
नारद उवाच
शिवसंगीतसंमुग्धे श्रीकृष्णे द्रवतां गते ।
द्रवतां च गतायां च राधायां किं बभूव ह ॥ १४३ ॥
तत्रस्थाश्च जना ये ये ते च किं चक्रुरुद्यमम् ।
एतत्सर्वं सुविस्तीर्णं प्रभो वक्तुमिहार्हसि ॥ १४४ ॥
नारायण उवाच
कार्तिकीपूर्णिमायां च राधायाः सुमहोत्सवे ।
कृष्णा संपूज्य तां राधामवसद्‌रासमण्डले ॥ १४५ ॥
कृष्णेन पूजितां तां तु संपूज्याऽऽदृतमानसाः ।
ऊचुर्ब्रह्मादयः सर्वे ऋषयः सनकादयः ॥ १४६ ॥
एतस्मिन्नन्तरे कृष्णसंगीतं च सरस्वती ।
जगौ सुन्दरतानेन वीणया च मनोहरम् ॥ १४७ ॥
तुष्टो ब्रह्मा ददौ तस्यै महारत्‍नाढ्यमालिकाम् ।
शिरोमणीन्द्रसारं च सर्वब्रह्माण्डदुर्लभम् ॥ १४८ ॥
कृष्णः कौस्तुभरत्‍नं च सर्वरत्‍नात्परं वरम् ।
अमूल्यरत्‍नखचितं हारसारं च राधिका ॥ १४९ ॥
नारायणश्च भगवान्वनमालां मनोहराम् ।
अमूल्यरत्‍नकलितं लक्ष्मीर्मकरकुण्डलम् ॥ १५० ॥
विष्णुमाया भगवती मूलप्रकृतिरीश्वरी ।
दुर्गा नारायणीशानी विष्णुभक्तिं सुदुर्लभाम् ॥ १५१ ॥
धर्मबुद्धिं च धर्मस्तु यशश्च विपुलं भवे ।
वह्निशुद्धांशुकं वह्निर्वायुश्च मणिनूपुरम् ॥ १५२ ॥
एतस्मिन्नन्तरे शंभुर्ब्रह्मणा प्रेरितो मुहुः ।
जगौ श्रीकृष्णसंगीतं रासोल्लाससमन्वितम् ॥ १५३ ॥
मूर्छां प्रापुः सुराः सर्वे चित्रपुत्तलिका यथा ।
क्षणेन चेतनां प्राप्य ददृशुः रासमण्डलम् ॥ १५४ ॥
स्थलं सर्वं जलाकीर्णं हीनराधाहरिं तथा ।
अत्युच्चैः रुरुदुः सर्वे गोपा गोप्यः सुरा द्विजाः ॥ १५५ ॥
ध्यानेन धाता बुबुधे सर्वमेतदभीप्सितम् ।
गतश्च राधया सार्धं श्रीकृष्णो द्रवतामिति ॥ १५६ ॥
ततो ब्रह्मादयः सर्वे तुष्टुवुः परमेश्वरम् ।
स्वमूर्तिं दर्शय विभो वाञ्छितो वर एष नः ॥ १५७ ॥
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ।
तामेव शुश्रुवुः सर्वे सुव्यक्तां मधुरां शुभाम् ॥ १५८ ॥
सर्वात्माऽहमियं शक्तिर्भक्तानुग्रहविग्रहा ।
ममाप्यस्याश्च हे देवा देहेन च किमावयोः ॥ १५९ ॥
मनवो मानवाः सर्वे मुनयश्चैव वैष्णवाः ।
मन्मन्त्रपूता मां द्रष्टुमागमिष्यन्ति मत्पदम् ॥ १६० ॥
मूर्तिं द्रष्टुं च सुव्यग्रा यूयं यदि सुरेश्वराः ।
करोतु शंभुस्तत्रैव मदीयं वाक्यपालनम् ॥ १६१ ॥
स्वयं विधाता त्वं ब्रह्मन्नाज्ञां कुरु जगद्‌गुरो ।
कर्तुं शास्त्रविशेषं च वेदाङ्गं सुमनोहरम् ॥ १६२ ॥
अपूर्वमन्त्रनिकरैः सर्वाभीष्टफलप्रदैः ।
स्तोत्रैश्च कवचैर्ध्यानैर्युतं पूजाविधिक्रमैः ॥ १ ६३ ॥
मन्मन्त्रं कवचं स्तोत्रं कृत्वा यत्‍नेन गोपय ।
भवन्ति विमुखा ये न जनानां यत्करिष्यति ॥ १६४ ॥
सहस्रेषु शतेष्वेको मन्मन्त्रोपासको भवेत् ।
ते ते जना मन्त्रपूताश्चाऽऽगमिष्यन्ति मत्पदम् ॥ १६५ ॥
अन्यथा च भविष्यन्ति सर्वे गोलोकवासिनः ।
निष्फलं भविता सर्वं ब्रह्माण्डं चैव वेधसः ॥ १६६ ॥
जनाः पञ्चप्रकाराश्च युक्ताः स्रष्टुर्भवे भवे ।
पृथिवीवासिनः केचित्केचित्स्वर्गनिवासिनः ॥ १६७ ॥
अधोनिवासिनः केचिद्‌ब्रह्मलोकनिवासिनः ।
केचिद्वा वैष्णवाः केचिन्मम लोकनिवासिनः ॥ १६८ ॥
इदं कर्तुं महादेवः करोतु सुरसंसदि ।
प्रतिज्ञां सुदृढां सद्यस्ततो मूर्तिं च पश्यसि ॥ १६९ ॥
इत्येवमुक्त्वा गगने विरराम सनातनः ।
तद्‌ दृष्ट्‍वा तां जगद्धाता तमुवाच शिवं मुदा ॥ १७० ॥
ब्राह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनां वरः ।
गङ्गातोयं करे धृत्वा स्वीचकार वचस्तु सः ॥ १७१ ॥
संयुक्तं विष्णुमायाद्यैर्मन्त्राद्यैः शास्त्रमुत्तमम् ।
वेदसारं करिष्यामि कृष्णाज्ञापालनाय च ॥ १७२ ॥
गङ्गातोयमुपस्पृश्य मिथ्या यदि वदेज्जनः ।
स याति कालसूत्रं च यावद्वै ब्रह्मणो वयः ॥ १७३ ॥
इत्युक्ते शंकरे ब्रह्मन्गोलोके सुरसंसदि ।
आविर्बभूव श्रीकृष्णो राधया सह तत्पुरः ॥ १७४ ॥
ते तं दृष्टा च संहृष्टाः संस्तूय पुरुषोत्तमम् ।
परमानन्दपूर्णाश्च चक्रुश्च पुनरुत्सवम् ॥ १७५ ॥
कालेन शंभुर्भगवाञ्छास्त्रदीपं चकार सः ।
इत्येवं कथितं सर्वं सुगोप्यं च सुदुर्लभम् ॥ १७६ ॥
सा चैवं द्रवरूपा या गङ्गा गोलोकसंभवा ।
राधाकृष्णाङ्गसंभूता भुक्तिमुक्तिफलप्रदा ॥ १७७ ॥
स्थाने स्थाने स्थापिता सा कृष्णेन परमात्मना ।
कृष्णस्वरूपा परमा सर्वब्रह्माण्डपूजिता ॥ १७८ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे गङ्गोपाख्यानं नाम दशमोऽध्यायः ॥ १० ॥


GO TOP