ब्रह्मवैवर्तपुराणम्

प्रथमं ब्रह्मखण्डम् - सप्तमोऽध्यायः

सृष्टिनिरूपणम् -


सौतिरुवाच
तथा ब्रह्मा तपः कृत्वा सिद्धिं प्राप्य यथेप्सिताम् ।
ससृजे पृथिवीमादौ मधुकैटभमेदसा ॥ १॥
भणे पर्वतानष्टौ प्रधानान्सुमनोहरान् ।
क्षुद्रानसंख्यान्किं ब्रूमः प्रधानाख्यां निशामय ॥२॥
सुमेरुं चैव कैलासं मलयं च हिमालयम् ।
उदयं च तथाऽस्तं च सुवेलं गन्धमादनम् ॥३॥
समुद्रान्ससृजे सप्त नदान्कतिविधा नदीः ।
वृक्षांश्च ग्रामनगरं समुद्राख्या निशामय ॥४॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवान् ।
लक्षयोजनमानेन द्विगुणांश्च परात्परान् ॥५॥
सप्तद्वीपांश्च तद्भूमिमण्डले कमलाकृते ।
उपद्वीपांस्तथा सप्त सीमाशैलांश्च सप्त च ॥६॥
निबोध विप्र द्वीपाख्यां पुरा या विधिना कृता ।
जम्बूशाककुशप्लक्षक्रौञ्चन्यग्रोधपौष्करान् ॥७॥
मेरोरष्टसु शृङ्गेषु ससृजेऽष्टौ पुरीः प्रभुः ।
अष्टानां लोकपालानां विहाराय मनोहराः॥८॥
मूलेऽनन्तस्य नगरीं निर्माय जगतां पतिः ।
ऊर्ध्वे स्वर्गाश्च सप्तैव तेषामाख्यां निशामय ॥९॥
भूर्लोकं च भुवर्लोकं स्वर्लोकं सुमनोहरम् ।
जनोलोकं तपोलोकं सत्यलोकं च शौनक ॥ १०॥
शृङ्गमूर्ध्नि ब्रह्मलोकं जरादिपरिवर्जितम् ।
तदूर्ध्वे ध्रुवलोकं च सर्वतः सुमनोहरम् ॥ ११॥
तदधः सन्त पातालान्निर्ममे जगदीश्वरः ।
स्वर्गातिरिक्तभोगाढ्यानधोऽधः क्रमतो मुने ॥ १२॥
अतलं वितलं चैव सुतलं च तलातलम् ।
महातलं च पातालं रसातलमधस्ततः ॥ १३॥
सप्तद्वीपैः सप्तनाकैः सप्तपातालसंज्ञकैः ।
एभिर्लोकैश्च ब्रह्माण्डं ब्रह्माधिकृतमेव च ॥ १४॥
एवं चासंख्यब्रह्माण्डं सर्व कृत्रिममेव च ।
महाविष्णोश्च लोम्नां च विवरेषु च शौनक ॥ १५॥
प्रतिविश्वेषु दिक्पाला ब्रह्मविष्णुमहेश्वराः ।
सुरा नरादयः सर्वे सन्ति कृष्णस्य मायया ॥ १६॥
ब्रह्माण्डगणनां कर्तुं न क्षमो जगतां पतिः ।
न शंकरो न धर्मश्च न च विष्णुश्च के सुराः ॥ १७॥
संख्यातुमीश्वरः शक्तो न संख्यातुं तथाऽपि सः ।
विश्वाकाशदिशां चैव सर्वतो यद्यपि क्षमः ॥ १८॥
कृत्रिमाणि च विश्वानि विश्वस्थानि च यानि च ।
अनित्यानि च विप्रेन्द्र स्वप्नवन्नश्वराणि च ॥१९॥
वैकुण्ठः शिवलोकश्च गोलोकश्च तयोः परः ।
नित्यो विश्वबहिर्भूतश्चाऽऽत्माकाशदिशो यथा ॥२०॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे
ब्रह्मखण्डं सृष्टिनिरूपणं नाम सप्तमोऽध्यायः ॥७॥


GO TOP