श्रीमद्‌भागवत महापुराण

अथ एकषष्टितमोऽध्यायः

श्रीकृष्णसंततीनां वर्णनम्; अनिरुद्धविवाहे रुक्मिणो वधश्च -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
एकैकशस्ताः कृष्णस्य पुत्रान् दशदशाबलाः ।
अजीजनन्ननवमान्पितुः सर्वात्मसंपदा ॥ १ ॥
गृहादनपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम् ।
प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्त्वविदः स्त्रियः ॥ २ ॥
( वसंततिलका )
चार्वब्जकोशवदनायतबाहुनेत्र-
     सप्रेमहासरसवीक्षितवल्गुजल्पैः ।
संमोहिता भगवतो न मनो विजेतुं
     स्वैर्विभ्रमैः समशकन् वनिता विभूम्नः ॥ ३ ॥
स्मायावलोकलवदर्शितभावहारि-
     भ्रूमण्डलप्रहितसौरतमंत्रशौण्डैः ।
पत्‍न्यस्तु शोडशसहस्रमनङ्‌गबाणै-
     र्यस्येन्द्रियं विमथितुं करणैर्न शेकुः ॥ ४ ॥
इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता
     ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।
भेजुर्मुदाविरतमेधितयानुराग-
     हासावलोकनवसङ्‌गमलालसाद्यम् ॥ ५ ॥
प्रत्युद्‌गमासनवरार्हणपादशौच-
     तांबूलविश्रमणवीजनगन्धमाल्यैः ।
केशप्रसारशयनस्नपनोपहार्यै-
     र्दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥ ६ ॥
( अनुष्टुप् )
तासां या दशपुत्राणां कृष्णस्त्रीणां पुरोदिताः ।
अष्टौ महिष्यस्तत्पुत्रान् प्रद्युम्नादीन् गृणामि ते ॥ ७ ॥
चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान् ।
सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः ॥ ८ ॥
चारुचन्द्रो विचारुश्च चारुश्च दशमो हरेः ।
प्रद्युम्नप्रमुखा जाता रुक्मिण्यां नावमाः पितुः ॥ ९ ॥
भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा ।
चन्द्रभानुर्बृहद्‌भानुरतिभानुस्तथाष्टमः ॥ १० ॥
श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश ।
साम्बः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् ॥ ११ ॥
विययश्चित्रकेतुश्च वसुमान् द्रविडः क्रतुः ।
जाम्बवत्याः सुता ह्येते सांबाद्याः पितृसंमताः ॥ १२ ॥
वीरश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान् वृषः ।
आमः शङ्‌कुर्वसुः श्रीमान् कुन्तिर्नाग्नजितेः सुताः ॥ १३ ॥
श्रुतः कविर्वृषो वीरः सुबाहुर्भद्र एकलः ।
शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमकोऽवरः ॥ १४ ॥
प्रघोषो गात्रवान्सिंहो बलः प्रबल ऊर्धगः ।
माद्र्याः पुत्रा महाशक्तिः सह ओजोऽपराजितः ॥ १५ ॥
वृको हर्षोऽनिलो गृध्रो वर्धनोऽन्नाद एव च ।
महांश: पावनो वह्निर्मित्रविन्दात्मजाः क्षुधिः ॥ १६ ॥
सङ्‌ग्रामजिद् बृहत्सेनः शूरः प्रहरणोऽरिजित् ।
जयः सुभद्रो भद्राया वाम आयुश्च सत्यकः ॥ १७ ॥
दीप्तिमांस्ताम्रतप्ताद्या रोहिण्यास्तनया हरेः ।
प्रद्युम्नाच्चानिरुद्धोऽभूद् रुक्मवत्यां महाबलः ॥ १८ ॥
पुत्र्यां तु रुक्मिणो राजन् नाम्ना भोजकटे पुरे ।
एतेषां पुत्रपौत्राश्च बभूवुः कोटिशो नृप ।
मातरः कृष्णजातानां सहस्राणि च षोडश ॥ १९ ॥
राजोवाच -
कथं रुक्म्यरिपुत्राय प्रादाद् दुहितरं युधि ।
कृष्णेन परिभूतस्तं हन्तुं रन्ध्रं प्रतीक्षते ।
एतदाख्याहि मे विद्वन् द्विषोर्वैवाहिकं मिथः ॥ २० ॥
अनागतमतीतं च वर्तमानमतीन्द्रियम् ।
विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः ॥ २१ ॥
शुक उवाच -
वृतः स्वयंवरे साक्षादनङ्‌गोऽङ्‌गयुतस्तया ।
राज्ञः समेतान् निर्जित्य जहारैकरथो युधि ॥ २२ ॥
यद्यप्यनुस्मरन् वैरं रुक्मी कृष्णावमानितः ।
व्यतरद्‌ भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम् ॥ २३ ॥
रुक्मिण्यास्तनयां राजन् कृतवर्मसुतो बली ।
उपयेमे विशालाक्षीं कन्यां चारुमतीं किल ॥ २४ ॥
दौहित्रायानिरुद्धाय पौत्रीं रुक्म्यददाद्धरेः ।
रोचनां बद्धवैरोऽपि स्वसुः प्रियचिकीर्षया ।
जानन्नधर्मं तद् यौनं स्नेहपाशानुबन्धनः ॥ २५ ॥
तस्मिन्नभ्युदये राजन् रुक्मिणी रामकेशवौ ।
पुरं भोजकटं जग्मुः साम्बप्रद्युम्नकादयः ॥ २६ ॥
तस्मिन् निवृत्त उद्वाहे कालिङ्‌गप्रमुखा नृपाः ।
दृप्तास्ते रुक्मिणं प्रोचुर्बलमक्षैर्विनिर्जय ॥ २७ ॥
अनक्षज्ञो ह्ययं राजन्नपि तद्‌व्यसनं महत् ।
इत्युक्तो बलमाहूय तेनाक्षै रुक्म्यदीव्यत ॥ २८ ॥
शतं सहस्रमयुतं रामस्तत्राददे पणम् ।
तं तु रुक्म्यजयत्तन्न कालिङ्‌गः प्राहसद् बलम् ।
दन्तान् सन्दर्शयन्नुच्चैर्नामृष्यत्तद्धलायुधः ॥ २९ ॥
ततो लक्षं रुक्म्यगृह्णाद् ग्लहं तत्राजयद् बलः ।
जितवानहमित्याह रुक्मी कैतवमाश्रितः ॥ ३० ॥
मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि ।
जात्यारुणाक्षोऽतिरुषा न्यर्बुदं ग्लहमाददे ॥ ३१ ॥
तं चापि जितवान् रामो धर्मेणच्छलमाश्रितः ।
रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति ॥ ३२ ॥
तदाब्रवीन्नभोवाणी बलेनैव जितो ग्लहः ।
धर्मतो वचनेनैव रुक्मी वदति वै मृषा ॥ ३३ ॥
तामनादृत्य वैदर्भो दुष्टराजन्यचोदितः ।
सङ्‌कर्षणं परिहसन् बभाषे कालचोदितः ॥ ३४ ॥
नैवाक्षकोविदा यूयं गोपाला वनगोचराः ।
अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः ॥ ३५ ॥
रुक्मिणैवमधिक्षिप्तो राजभिश्चोपहासितः ।
क्रुद्धः परिघमुद्यम्य जघ्ने तं नृम्णसंसदि ॥ ३६ ॥
कलिङ्‌गराजं तरसा गृहीत्वा दशमे पदे ।
दन्तानपातयत् क्रुद्धो योऽहसद् विवृतैर्द्विजैः ॥ ३७ ॥
अन्ये निर्भिन्नबाहूरुशिरसो रुधिरोक्षिताः ।
राजानो दुद्रवर्भीता बलेन परिघार्दिताः ॥ ३८ ॥
निहते रुक्मिणि श्याले नाब्रवीत् साध्वसाधु वा ।
रक्मिणीबलयो राजन् स्नेहभङ्‌गभयाद्धरिः ॥ ३९ ॥
( मिश्र )
ततोऽनिरुद्धं सह सूर्यया वरं
     रथं समारोप्य ययुः कुशस्थलीम् ।
रामादयो भोजकटाद् दशार्हाः
     सिद्धाखिलार्था मधुसूदनाश्रयाः ॥ ४० ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
अनिरुद्धविवाहे रुक्मिवधो नाम एकषष्टितमोऽध्यायः ॥ ६१ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP