श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - सप्तमोऽध्यायः

समुद्रमंथनारम्भः, समुद्रोद्‍भूतहालाहलविषभयेन
भीतेर्देवैः स्तुतस्य भगवतः शिवस्य विषपानं च -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
(अनुष्टुप्)
ते नागराजमामंत्र्य फलभागेन वासुकिम् ।
परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः ॥ १ ॥
आरेभिरे सुसंयत्ता अमृतार्थे कुरूद्वह ।
हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् ॥ २ ॥
तन्नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् ।
न गृह्णीमो वयं पुच्छमहेरङ्‌गममङ्‌गलम् ॥ ३ ॥
स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः ।
इति तूष्णीं स्थितान्दैत्यान् विलोक्य पुरुषोत्तमः ।
स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ॥ ४ ॥
कृतस्थानविभागास्त एवं कश्यपनन्दनाः ।
ममन्थुः परमायत्ता अमृतार्थं पयोनिधिम् ॥ ५ ॥
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ।
ध्रियमाणोऽपि बलिभिः गौरवात् पाण्डुनन्दन ॥ ६ ॥
ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः ।
आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा ॥ ७ ॥
विलोक्य विघ्नेशविधिं तदेश्वरो
     दुरन्तवीर्योऽवितथाभिसन्धिः ।
कृत्वा वपुः कच्छपमद्‍भुतं महत्
     प्रविश्य तोयं गिरिमुज्जहार ॥ ८ ॥
तमुत्थितं वीक्ष्य कुलाचलं पुनः
     समुद्यता निर्मथितुं सुरासुराः ।
दधार पृष्ठेन स लक्षयोजन-
     प्रस्तारिणा द्वीप इवापरो महान् ॥ ९ ॥
सुरासुरेन्द्रैर्भुजवीर्यवेपितं
     परिभ्रमन्तं गिरिमङ्‌ग पृष्ठतः ।
बिभ्रत् तदावर्तनमादिकच्छपो
     मेनेङ्‌गकण्डूयनमप्रमेयः ॥ १० ॥
तथासुरानाविशदासुरेण
     रूपेण तेषां बलवीर्यमीरयन् ।
उद्दीपयन्देवगणांश्च विष्णु-
     र्दैवेन नागेन्द्रमबोधरूपः ॥ ११ ॥
उपर्यगेन्द्रं गिरिराडिवान्य
     आक्रम्य हस्तेन सहस्रबाहुः ।
तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यै-
     रभिष्टुवद्‌भिः सुमनोऽभिवृष्टः ॥ १२ ॥
उपर्यधश्चात्मनि गोत्रनेत्रयोः
     परेण ते प्राविशता समेधिताः ।
ममन्थुरब्धिं तरसा मदोत्कटा
     महाद्रिणा क्षोभितनक्रचक्रम् ॥ १३ ॥
अहीन्द्रसाहस्रकठोरदृङ्‌मुख-
     श्वासाग्निधूमाहतवर्चसोऽसुराः ।
पौलोमकालेयबलील्वलादयो
     दवाग्निदग्धाः सरला इवाभवन् ॥ १४ ॥
देवांश्च तच्छ्‍वासशिखाहतप्रभान्
     धूम्राम्बरस्रग्वरकञ्चुकाननान् ।
समभ्यवर्षन्भगवद्वशा घना
     ववुः समुद्रोर्म्युपगूढवायवः ॥ १५ ॥
(अनुष्टुप्)
मथ्यमानात्तथा सिन्धोः देवासुरवरूथपैः ।
यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् ॥ १६ ॥
मेघश्यामः कनकपरिधिः कर्णविद्योतविद्यु-
     न्मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः ।
जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा
     मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो द्धृताद्रिः ॥ १७ ॥
निर्मथ्यमानादुदधेरभूद्विषं
     महोल्बणं हालहलाह्वमग्रतः ।
सम्भ्रान्तमीनोन् मकराहिकच्छपात्
     तिमिद्विपग्राहतिमिङ्‌गलाकुलात् ॥ १८ ॥
तदुग्रवेगं दिशि दिश्युपर्यधो
     विसर्पदुत्सर्पदसह्यमप्रति ।
भीताः प्रजा दुद्रुवुरङ्‌ग सेश्वरा
     अरक्ष्यमाणाः शरणं सदाशिवम् ॥ १९ ॥
विलोक्य तं देववरं त्रिलोक्या
     भवाय देव्याभिमतं मुनीनाम् ।
आसीनमद्रावपवर्गहेतो-
     स्तपो जुषाणं स्तुतिभिः प्रणेमुः ॥ २० ॥
प्रजापतय ऊचुः -
(अनुष्टुप्)
देवदेव महादेव भूतात्मन् भूतभावन ।
त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद् विषात् ॥ २१ ॥
त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः ।
तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ २२ ॥
गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान्विभो ।
धत्से यदा स्वदृग् भूमन्ब्रह्मविष्णुशिवाभिधाम् ॥ २३ ॥
त्वं ब्रह्म परमं गुह्यं सदसद्‍भावभावनम् ।
नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः ॥ २४ ॥
त्वं शब्दयोनिर्जगदादिरात्मा
     प्राणेन्द्रियद्रव्यगुणः स्वभावः ।
कालः क्रतुः सत्यमृतं च धर्म-
     स्त्वय्यक्षरं यत्त्रिवृदामनन्ति ॥ २५ ॥
अग्निर्मुखं तेऽखिलदेवतात्मा
     क्षितिं विदुर्लोकभवाङ्‌घ्रिपंकजम् ।
कालं गतिं तेऽखिलदेवतात्मनो
     दिशश्च कर्णौ रसनं जलेशम् ॥ २६ ॥
नाभिर्नभस्ते श्वसनं नभस्वान्
     सूर्यश्च चक्षूंषि जलं स्म रेतः ।
परावरात्माश्रयणं तवात्मा
     सोमो मनो द्यौर्भगवञ्छिरस्ते ॥ २७ ॥
कुक्षिः समुद्रा गिरयोऽस्थिसंघा
     रोमाणि सर्वौषधिवीरुधस्ते ।
छन्दांसि साक्षात् तव सप्त धातव-
     स्त्रयीमयात्मन् हृदयं सर्वधर्मः ॥ २८ ॥
मुखानि पञ्चोपनिषदस्तवेश
     यैस्त्रिंशदष्टोत्तरमंत्रवर्गः ।
यत् तच्छिशिवाख्यं परमात्मतत्त्वं
     देव स्वयंज्योतिरवस्थितिस्ते ॥ २९ ॥
छाया त्वधर्मोर्मिषु यैर्विसर्गो
     नेत्रत्रयं सत्त्वरजस्तमांसि ।
सांख्यात्मनः शास्त्रकृतस्तवेक्षा
     छन्दोमयो देव ऋषिः पुराणः ॥ ३० ॥
न ते गिरित्राखिललोकपाल-
     विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् ।
ज्योतिः परं यत्र रजस्तमश्च
     सत्त्वं न यद्‍ब्रह्म निरस्तभेदम् ॥ ३१ ॥
कामाध्वरत्रिपुरकालगराद्यनेक-
     भूतद्रुहः क्षपयतः स्तुतये न तत् ते ।
यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र-
     वह्निस्फुलिङ्‌गशिखया भसितं न वेद ॥ ३२ ॥
ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्‌घ्रि-
     द्वन्द्वं चरन्तमुमया तपसाभितप्तम् ।
कत्थन्त उग्रपरुषं निरतं श्मशाने
     ते नूनमूतिमविदंस्तव हातलज्जाः ॥ ३३ ॥
तत्तस्य ते सदसतोः परतः परस्य
     नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः ।
ब्रह्मादयः किमुत संस्तवने वयं तु
     तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥ ३४ ॥
(अनुष्टुप्)
एतत् परं प्रपश्यामो न परं ते महेश्वर ।
मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः ॥ ३५ ॥
शुक उवाच -
तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः ।
सर्वभूतसुहृद् देव इदमाह सतीं प्रियाम् ॥ ३६ ॥
श्रीशिव उवाच -
अहो बत भवान्येतत् प्रजानां पश्य वैशसम् ।
क्षीरोदमथनोद्‍भूतात् कालकूटादुपस्थितम् ॥ ३७ ॥
आसां प्राणपरीप्सूनां विधेयमभयं हि मे ।
एतावान् हि प्रभोरर्थो यद् दीनपरिपालनम् ॥ ३८ ॥
प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्‌गुरैः ।
बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥ ३९ ॥
पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः ।
प्रीते हरौ भगवति प्रीयेऽहं सचराचरः ।
तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥ ४० ॥
शुक उवाच -
एवमामंत्र्य भगवान्भवानीं विश्वभावनः ।
तद् विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥ ४१ ॥
ततः करतलीकृत्य व्यापि हालाहलं विषम् ।
अभक्षयन्महादेवः कृपया भूतभावनः ॥ ४२ ॥
तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः ।
यच्चकार गले नीलं तच्च साधोर्विभूषणम् ॥ ४३ ॥
तप्यन्ते लोकतापेन साधवः प्रायशो जनाः ।
परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥ ४४ ॥
निशम्य कर्म तच्छम्भोः देवदेवस्य मीढुषः ।
प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ॥ ४५ ॥
प्रस्कन्नं पिबतः पाणेर्यत् किञ्चित् जगृहुः स्म तत् ।
वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे ॥ ४६ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे अमृतमथने सप्तमोऽध्यायः ॥ ७ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP