श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - द्वाविंशोऽध्यायः

ज्योतिश्चक्रसूर्यरथमण्डलवर्णनम् -

[ Right click to 'save audio as' for downloading Audio ]

यदेतद्‌भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन
परिक्रामतो राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं
भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति ॥ १ ॥
स होवाच
यथा कुलालचक्रेण भ्रमता सह भ्रमतां
तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरे-
ष्वप्युपलभ्यमानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन
कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह
परिधावमानानां तदाश्रयाणां सूर्यादीनां गृहाणां
गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे चोपलभ्यमानत्वात् ॥ २ ॥
स एष भगवानादिपुरुष एव साक्षान्नारायणो
लोकानां स्वस्तयआत्मानं त्रयीमयं कर्मविशुद्धिनिमित्तं
कविभिरपि च वेदेन विजिज्ञास्यमानो
द्वादशधा विभज्य षट्सु वसन्तादिष्वृतुषु
थोपजोषमृतुगुणान् विदधाति ॥ ३ ॥
तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमाचारानुपथा
उक्षावचैः कर्मभिराम्नातैर्योगवितानैश्च
श्रद्धया यजन्तोऽञ्जसाश्रेयः समधिगच्छन्ति ॥ ४ ॥
अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण
नभोवलयस्य कालचक्रगतो द्वादशमासान् भुङ्क्ते
राशिसंज्ञान् संवत्सरावयवान्मासः पक्षद्वयं दिवा नक्तं
चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं
भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः ॥ ५ ॥
अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं
कालमयनमाचक्षते ॥ ६ ॥
अथ च यावन्नभोमण्डलं स ह द्यावापृथिव्यो-
र्मण्डलाभ्यां कार्त्स्न्येन सह भुञ्जीत तं कालं
संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति
भानोर्मान्द्यशैघ्र्यसमगतिभिः समामनन्ति ॥ ७ ॥
एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टा-
ल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं
पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव
पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते ॥ ८ ॥
अथ चापूर्यमाणाभिश्च कलाभिरमराणां
क्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि
पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीवनिवहप्राणो
जीवश्चैकमेकं नक्षत्रं त्रिंशता मुहूर्तैर्भुङ्क्ते ॥ ९ ॥
य एष षोडशकलः पुरुषो भगवान्मनोमयो-
ऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षि-
सरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय
इतिवर्णयन्ति ॥ १० ॥
तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि मेरुं
दक्षिणेनैव कालायन ईश्वरयोजितानि सहाभि-
जिताष्टाविंशतिः ॥ ११ ॥
तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते
पुरतः पश्चात्सहैव वार्कस्य शैघ्र्यमान्द्यसाम्याभि-
र्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव
प्रायेण वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भ-
ग्रहोपशमनः ॥ १२ ॥
उशनसा बुधो व्याख्यातस्तत उपरिष्टाद्
द्विलक्षयोजनतो बुधः सोमसुत उपलभ्यमानः
प्रायेण शुभकृद्यदार्काद् व्यतिरिच्येत तदा-
तिवाताभ्रप्रायानावृष्ट्यादिभयमाशंसते ॥ १३ ॥
अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय
उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो राशी -
न्द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणा -
शुभग्रहोऽघशंसः ॥ १४ ॥
तत उपरिष्टाद् द्विलक्षयोजनान्तरगतो भगवान्
बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं
चरति यदि न वक्रः स्यात्प्रायेणानुकूलो ब्राह्मण -
कुलस्य ॥ १५ ॥
तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः
शनै श्चर एकैकस्मिन् राशौ त्रिंशन्मासान्
विलम्बमानः सर्वानेवानुपर्येति तावद्‌भिरनुवत्सरैः
प्रायेण हि सर्वेषामशान्तिकरः ॥ १६ ॥
तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर
उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो भगवतो
विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ज्योतिश्चक्रवर्णने द्वाविंशोऽध्यायः ॥ २२ ॥


हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP