श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - पश्चमोऽध्यायः

ऋषभदेवानुचरितः -

[ Right click to 'save audio as' for downloading Audio ]

ऋषभः उवाच
नायं देहो देहभाजां नृलोके
     कष्टान् कामानर्हते विड्भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वं
     शुद्ध्येद्यस्माद्‌ब्रह्मसौख्यं त्वनन्तम् ॥ १ ॥
महत्सेवां द्वारमाहुर्विमुक्ते -
     स्तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता
     विमन्यवः सुहृदः साधवो ये ॥ २ ॥
ये वा मयीशे कृतसौहृदार्था
     जनेषु देहम्भरवार्तिकेषु ।
गृहेषु जायात्मजरातिमत्सु
     न प्रीतियुक्ता यावदर्थाश्च लोके ॥ ३ ॥
नूनं प्रमत्तः कुरुते विकर्म
     यदिन्द्रियप्रीतय आपृणोति ।
न साधु मन्ये यत आत्मनोऽय-
     मसन्नपि क्लेशद आस देहः ॥ ४ ॥
पराभवस्तावदबोधजातो
     यावन्न जिज्ञासत आत्मतत्त्वम् ।
यावत्क्रियास्तावदिदं मनो वै
     कर्मात्मकं येन शरीरबन्धः ॥ ५ ॥
एवं मनः कर्मवशं प्रयुङ्क्ते
     अविद्ययाऽऽत्मन्युपधीयमाने ।
प्रीतिर्न यावन्मयि वासुदेवे
     न मुच्यते देहयोगेन तावत् ॥ ६ ॥
यदा न पश्यत्ययथा गुणेहां
     स्वार्थेप्रमत्तः सहसा विपक्षित् ।
गतस्मृतिर्विन्दति तत्र तापा-
     नासाद्य मैथुन्यमगारमज्ञः ॥ ७ ॥
पुंसः स्त्रिया मिथुनीभावमेतं
     तयोर्मिथो हृदयग्रन्थिमाहुः ।
अतो गृहक्षेत्रसुताप्तवित्तै -
     जनस्य मोहोऽयमहं ममेति ॥ ८ ॥
यदा मनोहृदयग्रन्थिरस्य
     कर्मानुबद्धो दृढ आश्लथेत ।
तदा जनः सम्परिवर्ततेऽस्माद्
     मुक्तः परं यात्यतिहाय हेतुम् ॥ ९ ॥
हंसे गुरौ मयि भक्त्यानुवृत्त्या
     वितृष्णया द्वन्द्वतितिक्षया च ।
सर्वत्र जन्तोर्व्यसनावगत्या
     जिज्ञासया तपसेहानिवृत्या ॥ १० ॥
मत्कर्मभिर्मत्कथया च नित्यं
     मद्देवसङ्गाद् गुणकीर्तनान्मे ।
निर्वैरसाम्योपशमेन पुत्रा
     जिहासया देहगेहात्मबुद्धेः ॥ ११ ॥
अध्यात्मयोगेन विविक्तसेवया
     प्राणेन्द्रियात्माभिजयेन सध्र्यक्।
सच्छ्रद्धया ब्रह्मचर्येण शश्वद्
     असम्प्रमादेन यमेन वाचाम् ॥ १२ ॥
सर्वत्र मद्‌भावविचक्षणेन
     ज्ञानेन विज्ञानविराजितेन ।
योगेन धृत्युद्यमसत्त्वयुक्तो
     लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३ ॥
कर्माशयं हृदयग्रन्थिबन्ध-
     मविद्ययाऽऽसादितमप्रमत्तः ।
अनेन योगेन यथोपदेशं
     सम्यग्व्यपोह्योपरमेतयोगात् ॥ १४ ॥
पुत्रांश्चशिष्यांश्चनृपो गुरुर्वा
     मल्लोककामो मदनुग्रहार्थः ।
इत्थं विमन्युरनुशिष्यादतज्ज्ञान्
     न योजयेत्कर्मसु कर्ममूढान् ।
कं योजयन्मनुजोऽर्थं लभेत
     निपातयन्नष्टदृशं हि गर्ते ॥ १५ ॥
लोकः स्वयं श्रेयसि नष्टदृष्टि-
     र्योऽर्थान् समीहेत निकामकामः ।
अन्योन्यवैरः सुखलेशहेतो-
     रनन्तदुःखं च न वेद मूढः ॥ १६ ॥
कस्तं स्वयं तदभिज्ञो विपश्चिद्
     अविद्यायामन्तरे वर्तमानम् ।
दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं
     प्रयोजयेदुत्पथगं यथान्धम् ॥ १७ ॥
गुरुर्न स स्यात्स्वजनो न सस्यात्
     पिता न स स्याज्जननी न सा स्यात् ।
दैवं न तत्स्यान्न पतिश्च स स्या-
     न्न मोचयेद्यः समुपेतमृत्युम् ॥ १८ ॥
इदं शरीरं मम दुर्विभाव्यं
     सत्त्वं हि मे हृदयं यत्र धर्मः ।
पृष्ठे कृतो मेयदधर्म आराद्
     अतो हि मामृषभं प्राहुरार्याः ॥ १९ ॥
तस्माद्‌भवन्तो हृदयेन जाताः
     सर्वे महीयांसममुं सनाभम् ।
अक्लिष्टबुद्ध्या भरतं भजध्वं
     शुश्रूषणं तद्‌भरणं प्रजानाम् ॥ २० ॥
भूतेषु वीरुद्‌भ्य उदुत्तमा ये
     सरीसृपास्तेषु सबोधनिष्ठाः ।
ततो मनुष्याः प्रमथास्ततोऽपि
     गन्धर्वसिद्धा विबुधानुगा ये ॥ २१ ॥
देवासुरेभ्यो मघवत्प्रधाना
     दक्षादयो ब्रह्मसुतास्तु तेषाम् ।
भवः परः सोऽथ विरिञ्चवीर्यः
     स मत्परो ऽहं द्विजदेवदेवः ॥ २२ ॥
न ब्राह्मणैस्तुलये भूतमन्यत्
     पश्यामि विप्राः किमतः परं तु ।
यस्मिन्नृभिः प्रहुतं श्रद्धयाह-
     मश्नामि कामं न तथाग्निहोत्रे ॥ २३ ॥
धृता तनूरुशती मे पुराणी
     येनेह सत्त्वं परमं पवित्रम् ।
शमो दमः सत्यमनुग्रहश्च
     तपस्तितिक्षानु भवश्च यत्र ॥ २४ ॥
मत्तो ऽप्यनन्तात्परतः परस्मात्
     स्वर्गापवर्गाधिपतेर्न किश्चित् ।
येषां किमु स्यादितरेण तेषा -
     मकिञ्चनानां मयि भक्तिभाजाम् ॥ २५ ॥
सर्वाणि मद्धिष्ण्यतया भवद्‌भि -
     श्चराणि भूतानि सुता ध्रुवाणि ।
सम्भावितव्यानि पदे पदे वो
     विविक्तदृग्भिस्तदुहार्हणं मे ॥ २६ ॥
मनोवचोदृक्करणेहितस्य
     साक्षात्कृतं मे परिबर्हणं हि ।
विना पुमान् येन महाविमोहात्
     कृतान्तपाशातन्न विमोक्तुमीशेत् ॥ २७ ॥
श्रीशुक उवाच
एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि
लोकानुशासनार्थं महानुभावः परमसुहृद्‌भगवानृष-
भापदेश उपशमशीलानामुपरतकर्मणां महामुनीनां
भक्तिज्ञानवैराग्यलक्षणं पारमहंस्य धर्म -
मुपशिक्षमाणः स्वतनयशतज्येष्ठं परमभागवतं
भगवज्जनपरायणं भरतं धरणिपालनायाभिषिच्य
स्वयं भवन एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त
इव गगनपरिधानः प्रकीर्णकेश आत्मन्यारोपिता -
हवनीयो ब्रह्मावर्तात्प्रवव्राज ॥ २८ ॥
जडान्धमूकबधिरपिशाचोन्मादकवदवधूत -
वेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रत -
स्तूष्णीं बभूव ॥ २९ ॥
तत्र तत्र पुरग्रामाकरखेटवाटखर्वट -
शिबिरव्रजघोषसार्थगिरिवनाश्रमादिष्वनुपथ -
मवनिचरापसदैः परिभूयमानो मक्षिकाभिरिव
वनगजस्तर्जनताडनावमेहनष्ठीवनग्रावशकृद्रजः -
प्रक्षेपपूतिवातदुरुक्तैस्तदविगणयन्नेवासत्संस्थान
एतस्मिन् देहोपलक्षणे सदपदेश उभयानुभव -
स्वरूपेण स्वमहिमावस्थानेनासमारोपिताहंममा -
भिमानत्वादविखण्डितमनाः पूथिवीमेकचरः
परिबभ्राम ॥ ३० ॥
अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंस -
गलवदनाद्यवयवविन्यासः प्रकृतिसुन्दरस्वभाव -
हाससुमुखो नवनलिनदलायमानशिशिरतारारुणा -
यतनयनरुचिरः सदृशसुभगकपोलकर्णकण्ठनासो
विगूढस्मितवदनमहोत्सवेन पुरवनितानां मनसि
कुसुमशरासनमुपदधानः परागवलम्बमानकुटिल -
जटिलकपिशकेशभूरिभारोऽवधूतमलिन निज -
शरीरेण ग्नहगृहीत इवादृश्यत ॥ ३१ ॥
यर्हि वाव स भगवान् लोकमिमं योगस्याद्धा
प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्मबीभत्सितम्
इति व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति
खादत्यवमेहति हदति स्म चेष्टमान उच्चरित
आदिग्धोद्देशः ॥ ३२ ॥
तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं
देशं दशयोजनं समन्तात् सुरभिं चकार ॥ ३३ ॥
एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः
शयानः काकमृगगोचरितः पिबति खादत्यवमेहति स्म ॥ ३४ ॥
इति नानायोगचर्याचरणो भगवान् कैवल्य -
पतिर्ऋषभोऽविरतपरममहानन्दानुभव आत्मनि
सर्वेषां भूतानामात्मभूते भगवति वासुदेव
आत्मनोऽव्यव धानानन्तरोदरभावेन सिद्ध -
समस्तार्थपरिपूर्णो योगैश्वर्याणि वैहायसमनोजवा -
न्तर्धानपरकायप्रवेशदूरग्रहणादीनि यदृच्छ -
योपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत् ॥ ३५ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ऋषभदेवानुचरिते पञ्चमोऽध्यायः ॥ ५ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP