अग्निपुराणम्

अष्टचत्वारिंशोध्यायः

चतुर्विंशतिमूर्तिस्तोत्रकथनम् -


भगवानुवाच -
ॐरूपः केशवः पद्मशङ्खचक्रगदाधरः ।
नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणम् ॥ १ ॥
ततो गदो माधवोरिशङ्खपद्मी नमामि तम् ।
चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ॥ २ ॥
मोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक् ।
शङ्खचक्राब्जगदिनं मधुसूदनमानमे ॥ ३ ॥
भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि ।
शङ्खचक्रगदापद्मी वामनः पातु मां सदा ॥ ४ ॥
गदितः श्रीधरः पद्मी चक्रशार्ङ्‌गी च शङ्ख्यपि ।
हृषीकेशो गदाचक्रौ पद्मी चक्रशङ्खी च पातु नः ॥ ५ ॥
वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः ।
दामोदरः पद्मशङ्खगदाचक्रौ नमामि तम् ॥ ६ ॥
तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत् ।
सङ्‌कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः ॥ ७ ॥
गदी चक्री शङ्खगदी प्रद्युम्नः पद्मभृत् प्रभुः ।
अनिरुद्धश्चक्रगदी शङ्खी पद्मी च पातु नः ॥ ८ ॥
सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुषोत्तमः ।
अधोऽक्षजः पद्मगदी शङ्खी चक्री च पातु वः ॥ ९ ॥
देवो नृसिंहश्चक्राब्जगदाशङ्खी नमामि तम् ।
अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः ॥ १० ॥
बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्‌म्यपि ।
जनार्दनः पद्मचक्री शङ्खधारी गदाधरः ॥ ११ ॥
शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः ।
कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः ॥ १२ ॥
आदिमूर्तिर्वासुदेवस्तस्मात् सङ्‌कर्षणोऽभवत् ।
सङ्‌कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः ॥ १३ ॥
केशवादिप्रभेदेन ऐकैकस्य त्रिधाक्रमात् ।
द्वादशाक्षरकं स्तोत्रं चतुर्विंशतिमूर्तिमत् ।
यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् ॥ १४ ॥
इति आदिमहापुराणे आग्नेये
चतुर्विंशतिमूर्तिस्तोत्रकथनं नाम अष्टाचत्वारिंशोऽध्यायः ॥ ४८ ॥


GO TOP