अग्निपुराणम्

त्रयोदशोऽध्यायः

भारताख्यानम् -


अग्निरुवाच -
भारतं सम्प्रवक्ष्यामि कृष्णमाहात्म्यलक्षणम् ।
भूभारमहरद्विष्णुः निमित्तीकृत्य पाण्डवान् ॥ १ ॥
विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः ।
सोमः सोमाद्‌बुधस्तस्मादैल आसीत् पुरूरवाः ॥ २ ॥
तस्मादायुस्ततो राजा नहुषोऽतो ययातिकः ।
ततः पुरुस्तस्य वंशे भरतोऽथ नृपः कुरुः ॥ ३ ॥
तद्‌वंशे शान्तनुस्तस्माद्‌भीष्मो गङ्गासुतोऽनुजौ ।
चित्राङ्गदो विचित्रश्च सत्यवयाञ्च शान्तनोः ॥ ४ ॥
स्वर्गं गते शान्तनौ च भीष्मो भार्याविवर्जितः ।
अपालयत् भ्रातृराज्यं बालश्चित्राङ्गदो हतः ॥ ५ ॥
चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका ।
अम्बालिका च भीष्मेण आनीते विजितारिणा ॥ ६ ॥
भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः ।
सत्यवत्या ह्यनुमतादम्बिकायां नृपोभवत् ॥ ७ ॥
धृतराष्ट्रोऽम्बालिकायां पाण्डुश्च व्यासतः सुतः ।
गान्धार्यां धृतराष्ट्राच्च दुर्योधनमुखं शतम् ॥ ८ ॥
शतशृङ्गाश्रमपदे भार्यायोगाद् यतो मृतिः ।
ऋषिशापात्ततो धर्मात् कुन्त्यां पाण्डोर्युधिष्ठिरः ॥ ९ ॥
वाताद्‌भीमोऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः ।
नकुलः सहदेवश्च पाण्डुर्माद्रीयुतो मृतः ॥ १० ॥
कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधनाश्रितः ।
कुरुपाण्डवयोर्वैरन्दैवयोगाद्‌बभूव ह ॥ ११ ॥
दुर्योधनो जतुगृहे पाण्डवानदहत् कुधीः ।
दग्धागाराद्विनिष्क्रान्ता मातृपृष्टास्तु पाण्डवाः ॥ १२ ॥
ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने ।
मुनिवेषाः स्थिताः सर्वे निहत्य बकराक्षसम् ॥ १३ ॥
ययौः पाञ्चालविषयं द्रौपद्यास्ते स्वयंवरे ।
सम्प्राप्ता बाहुवेधेन द्रौपदी पञ्चपाण्डवैः ॥ १४ ॥
अर्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः ।
गाण्डीवञ्च धनुर्दिव्यं पावकाद्‌रथमुत्तमम् ॥ १५ ॥
सारथिञ्चार्जुनः सङ्ख्ये कृष्णमक्षय्यशायकान् ।
ब्रह्मास्त्रादींस्तथा द्रोणात्सर्वे शस्त्रविशारदाः ॥ १६ ॥
कृष्णेन सोऽर्जुनो वह्निं खाण्डवे समतर्पयत् ।
इन्द्रवृष्टिं वारयंश्च शरवर्षेण पाण्डवः ॥ १७ ॥
जिता दिशः पाण्डवैश्च राज्यञ्चक्रे युधिष्ठिरः ।
बहुस्वर्णं राजसूयं न सेहे तं सुयोधनः ॥ १८ ॥
भ्रात्रा दुःशासनेनोक्तः कर्णेन प्राप्तभूतिना ।
द्यूतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम् ॥ १९ ॥
अजयत्तस्य राज्यञ्च सभास्थो माययाहसत् ।
जितो युधिष्ठिरो भ्रातृयुक्तश्चारण्यकं ययौ ॥ २० ॥
वने द्वादशवर्षाणि प्रतिज्ञातानि सोऽनयत् ।
अष्टाशीतिसहस्राणि भोजयन् पूर्ववत् द्विजान् ॥ २१ ॥
सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम् ।
कङ्को द्विजो ह्यविज्ञातो राजा भीमोथ सूपकृत् ॥ २२ ॥
बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा ।
अन्यनाम्ना भीमसेनः कीचकञ्चावधीन्निशि ॥ २३ ॥
द्रौपदीं हर्तुकामं तं अर्जुनश्चाजयत् कुरून् ।
कुर्वतो गोग्रहादींश्च तैः ज्ञाताः पाण्डवा अथ ॥ २४ ॥
सुभद्रा कृष्णभगिनी अर्जुनात् समजीजनत् ।
अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम् ॥ २५ ॥
सप्ताक्षौहिणीश आसीद्धर्मराजो रणाय सः ।
कृष्णो दूतोब्रवीद् गत्वा दुर्योधनममर्षणम् ॥ २६ ॥
एकादशाक्षौहिणीशं नृपं दुर्योधनं तदा ।
युधिष्ठिरायार्धराज्यं देहि ग्रामांश्च पञ्च वा ॥ २७ ॥
युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः ।
भूसूच्यग्रं न दास्यामि योत्स्ये सङ्ग्रहणोद्यतः ॥ २८ ॥
विश्वरूपं दर्शयित्वा अधृष्यं विदुरार्चितः ।
प्रागाद्‌युधिष्ठिरं प्राह योधयैनं सुयोधनम् ॥ २९ ॥
इति आदिमहापुराणे आग्नेये
आदिपर्वादिभारताख्यानं नाम त्रयोदशोऽध्यायः ॥ १३ ॥


GO TOP