शुक्ल यजुर्वेदः - चतुर्विंशोऽध्यायः



अश्वस्तूपरो गोमृगस्ते प्राजापत्याः कृष्णग्रीवऽ आग्नेयो रराटे पुरस्तात्सारस्वती मेष्यधस्ताद्धन्वोराश्विनावधोरामौ बाह्वोः सौमापौष्णः श्यामो नाभ्याँ सौर्यरामौ श्वेतश्च कृष्णश्च पार्श्वयोस्त्वाष्ट्रौ लोमशसक्थौ सक्थ्योर्वायव्यः श्वेतः पुच्छऽ इंद्राय स्वपस्याय वेहद्वैष्णवो वामनः ॥ १ ॥ रोहितो धूम्ररोहितः कर्कन्धुरोहितस्ते सौम्या बभ्रुररुणबभ्रुः शुकबभ्रुस्ते वारुणाः शितिरन्ध्रोऽन्यतः शितिरन्ध्रः समन्तशितिरन्ध्रस्ते सावित्राः शितिबाहुरन्यतः शितिबाहुः समन्तशितिबाहुस्ते बार्हस्पत्याः पृषती क्षुद्रपृषती ता मैत्रावरुण्यः ॥ २ ॥ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽ आश्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामाऽ अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥ ३ ॥ पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निस्ते मारुताः फल्गूर्लोहितोर्णी पलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णोऽध्यालोहकर्णस्ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षोऽञ्जिसक्थस्तऽ ऐन्द्राग्नाः कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिस्तऽ उपस्याः ॥ ४ ॥ शिल्पा वैश्वदेव्यो रोहिण्यस्त्र्यवयो वाचेऽविज्ञाताऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥ ५ ॥ कृष्णग्रीवाऽ आग्नेयाः शितिभ्रवो वसूनाँ रोहिता रुद्राणाँ श्वेताऽ अवरोकिणऽ आदित्यानां नभोरूपाः पर्जन्याः ॥ ६ ॥ उन्नतऽ ऋषभो वामनस्तऽ ऐन्द्रावैष्णवाऽ उन्नतः शितिबाहुः शितिपृष्ठस्तऽ ऐन्द्राबार्हस्पत्याः शुकरूपा वाजिनाः कल्माषाऽ आग्निमारुताः श्यामाः पौष्णाः ॥ ७ ॥ एताऽ ऐन्द्राग्ना द्विरूपाऽ अग्निषोमिया वामनाऽ अनड्वाहऽ आग्नावैष्णवा वशा मैत्रावरुण्योऽन्यतऽ एन्यो मैत्र्यः ॥ ८ ॥ कृष्णग्रीवाऽ आग्नेया बभ्रवः सौम्याः श्वेता वायव्याऽ अविज्ञाताऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥ ९ ॥ कृष्णा भौमा धूम्राऽ आन्तरिक्षा बृहन्तो दिव्याः शबला वैद्युताः सिध्मास्तारकाः ॥ १० ॥ धूम्रान्वसन्तायालभते श्वेतान्ग्रीष्माय कृष्णान्वर्षाभ्योऽरुणाञ्छरदे पृषतो हेमन्ताय पिशङ्‍गाञ्छिशिराय ॥ ११ ॥ त्र्यवयो गायत्र्यै पञ्चावयस्त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्साऽ अनुष्टुभे तूर्यवाहऽ उष्णिहे ॥ १२ ॥ पष्ठवाहो विराजऽ उक्षाणो बृहत्याऽ ऋषभाः ककुभेऽनड्वाहः पङ्‍क्त्यै धेनवोऽतिच्छन्दसे ॥ १३ ॥ कृष्णग्रीवाऽ आग्नेया बभ्रवः सौम्याऽ उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिवीयाः ॥ १४ ॥ उक्ताः सञ्चराऽ एताऽ ऐन्द्राग्नाः कृष्णा वारुणाः पृश्नयो मारुताः कायास्तूपराः ॥ १५॥ अग्नयेऽनीकवते प्रथमजानालभते मरुद्‍भ्यः सान्तपनेभ्यः सवात्यान्मरुद्‍भ्यो गृहमेधिभ्यो बष्किहान्मरुद्‍भ्यः क्रीडिभ्यः सँसृष्टान्मरुद्‍भ्यः स्वतवद्भ्योऽनुसृष्टान् ॥ १६ ॥ उक्ताः सञ्चराऽ एताऽ ऐन्द्राग्नाः प्राशृङ्‍गा माहेन्द्रा बहुरूपा वैश्वकर्मणाः ॥ १७ ॥ धूम्रा बभ्रुनीकाशाः पितृणाँ सोमवतां बभ्रवो धूम्रनीकाशाः पितृणाँ बर्हिषदां कृष्णा बभ्रुनीकाशाः पितॄणामग्निष्वात्तानां कृष्णाः पृषन्तस्त्रैयम्बकाः ॥ १८ ॥ उक्ताः सञ्चराऽ एताः शुनासीरीयाः श्वेता वायव्याः श्वेताः सौर्याः ॥ १९ ॥ वसन्ताय कपिञ्जलानालभते ग्रीष्माय कलविङ्‍कान्वर्षाभ्यस्तित्तिरीञ्छरदे वर्त्तिका हेमन्ताय ककराञ्छिशिराय विककरान् ॥ २० ॥ समुद्राय शिमारानालभते पर्जन्याय मण्डुकानद्‍भ्यो मत्स्यान्मित्राय कुलीपयान्वरुणाय नाक्रान् ॥ २१ ॥ सोमाय हँसानालभते वायवे बलाकाऽ इन्द्राग्निभ्यां क्रुञ्चान्मित्राय मद्‍गून्वरुणाय चक्रवाकान् ॥ २२ ॥ अग्नये कुटरूनालभते वनस्पतिभ्यऽ उलूकानग्नीषोमाभ्यां चाषानश्विभ्यां मयूरान्मित्रावरुणाभ्यां कपोतान् ॥ २३ ॥ सोमाय लवानलभते त्वष्ट्रे कौलीकान्गोषादीर्देवानां पत्नीभ्यः कुलीका देवजामिभ्योऽग्नये गृहपतये पारुष्णान् ॥ २४ ॥ अह्ने पारावतानालभते रात्र्यै सीचापूरहोरात्रयोः सन्धिभ्यो जतूर्मासेभ्यो दात्यौहान्त्संवसराय महतः सुपर्णान् ॥ २५ ॥ भूम्याऽ आखूनालभतेऽन्तरिक्षाय पाङ्‍क्त्रान्दिवे कशान्दिग्भ्यो नकुलान्बभ्रुकानवान्तरदिशाभ्यः ॥ २६ ॥ वसुभ्यऽ ऋश्यानालभते रुद्रेभ्यो रुरूनादित्येभ्यो न्यङ्‍कून्विश्वेभ्यो देवेभ्यः पृषतान्त्साध्येभ्यः कुलुङ्‍गान् ॥ २७ ॥ ईशानाय परस्वतऽ आलभते मित्राय गौरान्वरुणाय महिषान्बृहस्पतये गवयाँस्त्वष्ट्रऽ उष्ट्रान् ॥ २८ ॥ प्रजापतये पुरुषान्हस्तिनऽ आलभते वाचे प्लुँषीश्चक्षुषे मशकाञ्छ्रोत्राय भृङ्‍गाः ॥ २९ ॥ प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुष्यराजाय मर्कटः शार्दूलाय रोहिदृषभाय गवयी क्षिप्रश्येनाय वर्तिका नीलङ्‍गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती ॥ ३० ॥ मयुः प्राजापत्यऽ उलो हलिक्ष्णो वृषदँशस्ते धात्रे दिशां कङ्‍को धुङ्‍क्षाग्नेयी कलविङ्‍को लोहिताहिः पुष्करसादस्ते त्वाष्ट्रा वाचे क्रुञ्चः ॥ ३१ ॥ सोमाय कुलुङ्‍गऽ आरण्योऽजो नकुलः शका ते पौष्णाः क्रोष्टा मायोरिन्द्रस्य गौरमृगः पिद्वो न्यङ्‍कुः कक्कटस्तेऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकः ॥ ३२ ॥ सौरी बलाका शार्गः सृजयः शयाण्डकस्ते मैत्राः सरस्वत्यै शारिः पुरुषवाक् श्वाविद्‍भौमी शार्दूलो वृकः पृदाकुस्ते मन्यवे सरस्वते शुकः पुरुषवाक् ॥ ३३ ॥ सुपर्णः पार्जन्यऽ आतिर्वाहसो दर्विदा ते वायवे बृहस्पतये वाचस्पतये पैङ्‍गराजोऽलजऽ आन्तरिक्षः प्लवो मद्‍गुर्मत्स्यस्ते नदीपतये द्यावापृथिवीयः कूर्मः ॥ ३४ ॥ पुरुषमृगश्चन्द्रमसो गोधा कालका दार्वाघाटस्ते वनस्पतीनां कृकवाकुः सावित्रो हँसो वातस्य नाक्रोः मकरः कुलीपयस्तेऽकूपारस्य ह्रियै शल्यकः ॥ ३५ ॥ एण्यह्नो मण्डूको मूषिका तित्तिरिस्ते सर्पाणां लोपाशऽ आश्विनः कृष्णो रात्र्याऽ ऋक्षो जतूः सुपिलीका तऽ इतरजनानां जहका वैष्णवी ॥ ३६ ॥ अन्यवापोऽर्धमासानामृश्यो मयूरः सुपर्णस्ते गन्धर्वाणामपामुद्रो मासां कश्यपो रोहितकुण्डृणाची गोलत्तिका तेऽप्सरसां मृत्यवेऽसितः ॥ ३७ ॥ वर्षाहूर्‍ऋतूनामाखुः कशो मान्थालस्ते पितॄणां बलायाजगरो वसूनां कपिञ्जलः कपोतऽ उलूकः शशस्ते निर्‍ऋत्यै वरुणायारण्यो मेषः ॥ ३८ ॥ श्वित्रऽ आदित्यानामुष्ट्रो घृणीवान्वार्ध्रीनसस्ते मत्याऽ अरण्याय सृमरो रुरू रौद्रः क्वायः कुटरुर्दात्यौहस्ते वाजिनां कामाय पिकः ॥ ३९ ॥ खड्गो वैश्वदेवः श्वा कृष्णः कर्णो गर्दभस्तरक्षुस्ते रक्षसामिन्द्राय सूकरः सिँहो मारुतः कृकलासः पिप्पका शकुनिस्ते शरव्यायै विश्वेषां देवानां पृषतः ॥ ४० ॥ ॥ इति चतुर्विंशोऽध्यायः ॥


ॐ तत् सत्



GO TOP