केनोपनिषत्

ॐ आप्यायन्तु ममाङ्गानि वाक् प्राणः चक्षुः श्रोत्रं अथ बलं इन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं | माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत् अनिराकरणं अस्तु
अनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
ॐ शान्तिः शान्तिः शान्तिः ॥


प्रथमः खण्डः


ॐ केनेषितं पतति प्रेषितं मनः
     केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचं इमां वदन्ति
     चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥
श्रोत्रस्य श्रोत्रं मनसो मनो यत्
     वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः
     प्रेत्यास्माल्लोकात् अमृता भवन्ति ॥ २ ॥
न तत्र चक्षुर्गच्छति न वाक् गच्छति नो मनः ।
न विद्मो न विजानीमो यथ एतत् अनुशिष्यात् ।
अन्यदेव तत् विदितात् अथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ३ ॥
यद्वाचाऽनभ्युदितं येन वाक् अभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि न इदं यत् इदं उपासते ॥ ४ ॥
यन्मनसा न मनुते येन आहुः मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि न इदं यत् इदं उपासते ॥ ५ ॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि न इदं यत् इदं उपासते ॥ ६ ॥
यच्छ्रोत्रेण न श्रृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि न इदं यत् इदं उपासते ॥ ७ ॥
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि न इदं यत् इदं उपासते ॥ ८ ॥
॥ इति केनोपनिषदि प्रथमः खण्डः ॥



द्वितीयः खण्डः


यदि मन्यसे सुवेद इति दभ्रं एवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।
यत् अस्य त्वं यत् अस्य देवेषु अथ नु
मीमांस्यं एव ते मन्ये विदितम् ॥ १ ॥
नाहं मन्ये सुवेद् इति नो न वेदेति वेद च ।
यो नस्तत् वेद तत् वेद नो न वेदेति वेद च ॥ २॥
यस्य अमतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातं अविजानताम् ॥ ३ ॥
प्रतिबोध विदितं मतं अमृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥
इह चेत् अवेदीदथ सत्यमस्ति न चेत् इह अवेदीत् महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकात् अमृता भवन्ति ॥ ५ ॥
॥ इति केनोपनिषदि द्वितीयः खण्डः ॥



तृतीयः खण्डः


ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ॥ १ ॥
त ऐक्षन्त अस्माकं एव अयं विजयो अस्माकं एव अयं महिमा इति ।
तत् ह एषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किं इदं यक्षमिति ॥ २ ॥
तेऽग्निं अब्रुवन् जातवेद एतत् विजानीहि किं एतत् यज्षं इति तथा इति ॥ ३ ॥
तत् अभ्यद्रवत् तं अभ्यवदत् कोऽसि इति ।
अग्निर्वा अहं अस्मि इति अब्रवीत् जातवेदा वा अहमस्मि इति ॥ ४ ॥
तस्मिँस्त्वयि किं वीर्यं इति अपि इदँ सर्वं दहेयं यदिदं पृथिव्यां इति ॥ ५॥
तस्मै तृणं निदधावेतद् दह इति । तत् उपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं
स तत एव निववृते न एतत् अशकं विज्ञातुं यत् एतद् यक्षं इति ॥ ६॥
अथ वायुं अब्रुवन् वायव एतत् विजानीहि किं एतत् यक्षं इति तथा इति ॥ ७ ॥
तत् अभ्यद्रवत् तं अभ्यवदत् कोऽसि इति ।
वायुर्वा अहं अस्मि इति अब्रवीत् मातरिश्वा वा अहं अस्मि इति ॥ ८ ॥
तस्मिन् स्त्वयि किं वीर्यं इति अपीदं सर्वं आददीयं यदिदं पृथिव्यां इति ॥ ९ ॥
तस्मै तृणं निदधावेतत् आदत्स्व इति ।
तत् उपप्रेयाय सर्वजवेन तन्न शशाक आदातुं स तत एव
निववृते न एतत् अशकं विज्ञातुं यत् एतत् यक्षं इति ॥ १० ॥
अथ इन्द्रं अब्रुवन् मघवन् एतत् विजानीहि किं एतत् यक्षं इति तथा इति
तत् अभ्यद्रवत् तस्मात् तिरोदधे ॥ ११ ॥
स तस्मिन् एव आकाशे स्त्रियं आजगाम बहुशोभमानां
उमां हैमवतीं तां होवाच किं एतत् यक्षं इति ॥ १२ ॥
॥ इति केनोपनिषदि तृतीयः खण्डः ॥



चतुर्थः खण्डः


सा ब्रह्मा इति होवाच ब्रह्मणो वा एतत् विजये महीयध्वं इति
ततो हि एव हैव विदाञ्चकार ब्रह्मा इति ॥ १ ॥
तस्माद्वा एते देवा अतितरां इव अन्यान् देवान् यत् अग्निः वायुः इन्द्रः ते
हि एनत् नेदिष्ठं पस्पृशुः ते हि एनत् प्रथमो विदाञ्चकार ब्रह्मा इति ॥ २ ॥
तस्मात् वा इन्द्रः अतितरां इव अन्यान् देवान् स हि एनत् नेदिष्ठं पस्पर्श
स हि एनत् प्रथमो विदाञ्चकार ब्रह्मा इति ॥ ३ ॥
तस्य एष आदेशो यत् एतत् विद्युतो व्यद्युतत् आ ३ इति
इत् न्यमीमिषत् आ ३ इति अधिदैवतम् ॥ ४ ॥
अथ अध्यात्मं यत एतत् गच्छतीव च मनो अनेन
च एतत् उदुपस्मरति अभीक्ष्णं सङ्कल्पः ॥ ५ ॥
तत् ह तत्‌वनं नाम तद्‌वनं इति उपासितव्यं
सः यः एतत् एवं वेद अभि ह एनं सर्वाणि भूतानि संवाञ्छन्ति ॥ ६॥
उपनिषदं भो ब्रूहि इति उक्ता ते उपनिषद् ब्राह्मीं वाव ते उपनिषदं अब्रूम इति ॥ ७॥
तस्यै तपो दमः कर्म इति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यं आयतनम् ॥ ८॥
यो वा एतां एवं वेद अपहत्य पाप्मानं अनन्ते
स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥
॥ इति केनोपनिषदि चतुर्थः खण्डः ॥
ॐ आप्यायन्तु ममाङ्गानि वाक् प्राणः चक्षुः श्रोत्रं अथ बलं इन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं | माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत् अनिराकरणं अस्तु
अनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति केनोपनिषत् ॥