॥ हंसोपनिषद ॥

हंसाख्योपनिषत्प्रोक्तनादालिर्यत्र विश्रमेत् ।
तदाधारं निराधारं ब्रह्ममात्रमहं महः ॥
ॐ पूर्णमद पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।
ॐ शान्तिः शान्तिः शान्तिः ॥

गौतम उवाच -
भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ॥ १ ॥
सनत्कुमार उवाच -
विचार्य सर्वधर्मेषु मतं ज्ञात्वा पिनाकिनः ।
पार्वत्या कथितं तत्त्वं श्रृणु गौतम तन्मम ॥ २ ॥
अनाख्येयमिदं गुह्यं योगिनां कोशसंनिभम् ।
हंसस्याकृतिविस्तारं भुक्तिमुक्तिफलप्रदम् ॥ ३ ॥

हंसविद्याऽधिकारिस्वरूपम् -
अथ हंसपरमहंसनिर्णयं व्याख्यास्यामो ब्रह्मचारिणे शान्ताय दान्ताय गुरुभक्ताय हंसहंसेति सदा ध्यायन् ॥ ४ ॥

हंसस्वरूपं तज्ज्ञानफलं च -
सर्वेषु देहेषु व्याप्य वर्तते यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव । तं विदित्वा मृत्युमेति ॥ ५ ॥

हंसज्ञानोपायो योगः -
गुदमवष्टभ्याधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदिक्षिणीकृत्य मणिपूरकं गत्वा अनाहतमतिक्रम्य शिश्ननाभे पार्श्वे भवतः । विशुद्धौ प्राणान्निरुध्याज्ञामनुध्यायन् ब्रह्मरन्ध्रं ध्यायन् त्रिमात्रोऽहमित्येवं सर्वदा पश्यत्यनाकारश्च भवति ॥ ६ ॥
एषोऽसौ परमहंसो भानुकोटिप्रतीकाशो येनेदं सर्वं व्याप्तम् ॥ ७ ॥

हृत्पद्मे हंसभावनया तुर्यात्मदर्शनम् -

तस्याष्टधा वृत्तिर्भवति । पूर्वदले पुण्ये मतिः । आग्नेये निद्रासस्यादयो भवति । याम्ये क्रौर्ये मतिः । नैर्‌ऋते पापे मनीषा । वारुण्यां क्रीडा । वायव्यां गमनादौ बुद्धिः । सौम्ये रतिप्रीतिः । ईशान्ये द्रव्यादानम् । मध्ये वैराग्यम् । केसरे जाग्रदवस्था । कर्णिकायां स्वप्नम् । लिङ्गे सुषुप्तिः । पद्मत्यागे तुरीयम् । यदा हंसे नादो विलीनो भवति तत् तुरीयातीतम् ॥ ८ ॥
अथो नाद आधाराद्‌ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसंकाशः स वै ब्रह्म परमात्मेत्युच्यते ॥ ९ ॥

अजपाहंसमंत्रजपप्रकारः -
अथ हंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् ॥ १० ॥
षट् सङ्ख्यया अहोरात्रयोरेकविंशतिसहस्राणि षट् शतान्यधिकानि भवन्ति । सूर्याय सोमाय निरञ्जनाय निराभासायातनुसूक्ष्म प्रचोदयादिति ॥ ११ ॥
अग्नीषोमाभ्यां वौषट् हृदयाद्यङ्गन्यासकरन्यासौ भवतः ॥ १२ ॥
एवं कृत्वा हृदये हंसात्मानं ध्यायेत् ॥ १३ ॥

सगुणहंसध्यानेन परमात्मदर्शनम् -
अग्नीषोमौ पक्षावोङ्कारः शिर उकारो बिन्दुस्त्रिनेत्रं मुखं रुद्रो रुद्राणी चरणौ बाहू द्विविधं कण्ठतः कुर्यादित्युन्मनाः अजपोपसंहार इत्यभिधीयते ॥ १४ ॥
एवं हंसवशान्मनो विचार्यते ॥ १५ ॥

अजपाजपेन दशनादानुभवः -
अस्यैवजपकोट्या नादमनुभवति । स च दशविधो जायते । चिणीति प्रथमः । चिणिचिणीति द्वितीयः । घण्टानादस्तृतीयः । शङ्खनादश्चतुर्थः । पञ्चमतन्त्रीनादः । षष्ठस्तालनादः । सप्तमो वेणुनादः । अष्टमो भेरीनादः । नवमो मृदङ्गनादः । दशमो मेघनादः ॥ १६ ॥

केवलदशनादाभ्यासविधिः -
नवमं परित्यज्य दशमेवाभ्यसेत् ॥ १७ ॥

तत्तन्नादानुभवफलम् -
प्रथमे चिञ्चिणीगात्रं द्वितीये गात्रभञ्जनम् ।
तृतीये भेदनं याति चतुर्थे कम्पते शिरः ॥ १८ ॥
पञ्चमे स्रवते तालु षष्ठेऽमृतनिषेवणम् ।
सप्तमे गूढविज्ञानं परा वाचा तथाऽष्टमे ॥ १९ ॥
अदृश्यं नवमे देहं दिव्यं चक्षुस्तथाऽमलम् ।
दशमं च परमं ब्रह्म भवेद्‍ब्रह्मात्मसंनिधौ ॥ २० ॥

मनोलयात् ब्रह्मात्मत्वप्रकाशः -
तस्मिन्मनो विलीयते मनसि सङ्कल्पविकल्पे दग्धे पुण्यपापे सदाशिवः शक्‍त्यात्मा सर्वत्रावस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्ततमः प्रकाशयतीति वेदानुवचनं भवति ॥ २१ ॥
॥ इत्युपनिषत् ॥
ॐ पूर्णमद पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।
ॐ शान्तिः शान्तिः शान्तिः ॥
इति हंसोपनिषत्समाप्ता ॥