श्रीगर्गसंहिता
अश्वमेधखण्डः - सप्तत्रिंशोऽध्यायः
दैत्यसहायार्थं समागतः भैरवमोहनः -
वज्रनाभिरुवाच -
कुनंदने हते ब्रह्मन्बल्वले मूर्च्छिते रणे ॥
न कृतं तु सहायं वै रुद्रेण करुणात्मना ॥१॥
कस्मान्न चागतो रुद्रो यज्ञः पूर्णः कथं भवेत् ॥
कथं विमुक्तस्तुरगस्तन्मे व्याख्यातुमर्हसि ॥२॥
सौतिरुवाच -
इति तस्य वचः श्रुत्वा गर्गो ज्ञानवतां वरः ॥
स्मृत्वा सर्वां कथां ब्रह्मन्नुवाच यदुसत्तम् ॥३॥
गर्ग उवाच -
बल्वले मूर्च्छिते राजन्हते शूरे कुनन्दने ॥
महाकोपं शिवश्चक्रे प्रेरितस्तु सुरर्षिणा ॥४॥
आरुह्य नंदिनं क्रुद्धो भक्तरक्षाकरः शिवः ॥
चन्द्ररेखां वहन्मूर्ध्नि जटाजूटांतरे नृप ॥५॥
सर्पहारैर्मुण्डहारैर्भस्मलिप्तो भयंकरः ॥
दशबाहुः पञ्चमुखो नेत्रै: पञ्चदशैर्वृतः ॥६॥
सिंहचर्मांबरधरो मदमत्तो भयंकरः ॥
त्रिशूलपट्टिशधरो धनुर्बाणधरः परः ॥७॥
कुठारपाशपरिघभिंदिपालैर्विभूषितः ॥
सहस्ररविसंकाशः सर्वभूतगणावृतः ॥८॥
हंतुं सर्वान्वृष्णिवरान्कार्ष्णिजप्रमुखान्मृधे ॥
कैलसादाययौ शीघ्रं चालयन्पृथिवीतलम् ॥९॥
कोलाहलो महानासीदाकाशे भूतले नृप ॥
देवदैत्यनराः सर्वे भयं प्रापुश्च विस्मिताः ॥१०॥
सगणं सपरीवारमागतं वीक्ष्य शंकरम् ॥
क्रुद्धं प्रलयकर्तारं भयं प्रापुर्यदूत्तमाः ॥११॥
अनिरुद्धस्य च मुखं निस्तेजस्कमभूद्भयात् ॥
चकंपे हृदयं तस्य दुःखितस्य रणांगणे ॥१२॥
ततः प्रत्याह वचनं निष्ठुरं सर्वयादवान् ॥
शूलं गृहीत्वा हस्तेन गिरीशः क्रोधपूरितः ॥१३॥
शंकर उवाच -
अनिरुद्धः कुत्र गतो गतः कुत्र सुनन्दनः ॥
सांबादयः कुत्र गता भक्तं हत्वा कुनन्दनम् ॥१४॥
बल्वलं मूर्च्छितं कृत्वा मद्भक्तं दैत्यसत्तमम् ॥
तस्यानुगान्मृधे हत्वा कुत्र यास्यंति वृष्णयः ॥१५॥
तस्मात्सर्वान्हनिष्यामि मद्भक्तानां रिपून्मृधे ॥
अहं विष्णुर्विधिश्चैते भक्तं रक्षंति दुःखतः ॥१६॥
गर्ग उवाच -
इत्युदीर्य्यानिरुद्धं स प्रेषयामास भैरवम् ॥
त्वं हि योद्धुं गच्छ शूर कार्ष्णिजं जयिनं मृधे ॥१७॥
सुनंदनं नंदिनं च प्रेषयामास रोषतः ॥
गदं च वीरभद्रं वै सांबं च शिखिवाहनम् ॥१८॥
भानुञ भृंगिणं युद्धे विरूपाक्षः समादिशत् ॥
यदूंश्च प्रेषयामास भूतप्रेतांस्ततः शिवः ॥१९॥
ततस्ते रुद्रवचनाद्भूतप्रेतविनायकाः ॥
भैरवाः प्रमथाश्चैव वेताला ब्रह्मराक्षसाः ॥२०॥
उन्मादाश्चैव कूष्माण्डा आजग्मुः कोटिशो मृधे ॥
भूतानि जघ्नुश्चांगारैर्यादवाश्च विनायकाः ॥२१॥
पट्टिशैर्भैरवाः शूलैः खट्वांगैः प्रमथाः किल ॥
जनानश्वान्गृहीत्वा तु भक्ष्यंति ब्रह्मराक्षसाः ॥२२॥
यातुधानाश्चरर्वयन्तो मनुष्याणां शिरांसि च ॥
कपालैस्तत्र वेतालाः पिबंतो रुधिरं रणे ॥२३॥
पिशाचास्तत्र नृत्यन्ति प्रेता गायंति एव हि ॥
शिरांसि कंदुकानीव क्षेपयंतो मुहुर्मुहुः ॥२४॥
अट्टहासं प्रकुर्वन्तः प्रधावंत इतस्ततः ॥
गजान्रथांश्चर्वयन्तो दृश्यन्ते रणमंडले ॥२५॥
रक्तं पिशाच्यो डाकिन्यः पाययंत्यः सुतान्मृधे ॥
मारोदीरिति वादिन्य अक्षीणि च तदाऽमृजन् ॥२६॥
उन्मादाश्चैव कूष्मांडा निर्माय मुण्डकैः स्रजः ॥
संयच्छंति महेशाय शूराणां स्वर्गगामिनाम् ॥२७॥
हाहाकारस्तदैवासीद्यदुसैन्ये नृपेश्वर ॥
दुद्रुवंतो भयादश्वा धावंतस्तत्र दंतिनः ॥२८॥
वीराः प्रपतिता युद्धे गता मृत्युं सहस्रशः ॥
दृष्ट्वा चेत्थं गणबलं दीप्तिमान्माधवात्मजः ॥२९॥
चापे निधाय विशिखान्मुमुचे परमाद्भुतम् ॥
ते शरा विविशुस्तिग्मा भूतप्रेतविनायकान् ॥३०॥
कोटिशः कोटिशो राजन्यथारण्यं शिखण्डिनः ॥
ततश्च दुद्रुवुर्भिन्नाः सर्वे भूतगणाः शरैः ॥३१॥
केचिन्निपतिता युद्धे केचिद्वै निधनं गताः ॥
न हताश्च शरैः केऽपि पतिताः पूर्वमेव च ॥३२॥
पलायिते प्रेतगणे भैरवः क्रोधपूरितः ॥
त्रिशूली सारमेयस्थ आजगाम कृतांतवत् ॥३३॥
तं दृष्ट्वा कालरूपं च भैरवं तु भयंकरम् ॥
न कोऽपि युयुधे तेनानिरुद्धो युयुधे नृप ॥३४॥
अनिरुद्धः पंचशरैस्तताड भैरवं मृधे ॥
स चापि परिघेणापि बभञ्ज तद्रथं वरम् ॥३५॥
सोऽप्यन्यं रथमारुह्य सज्जं कृत्वा धनुर्दृढम् ॥
तताड दशभिर्बाणै रौद्रं मायाविनं मृधे ॥३६॥
तैर्बाणैर्निहतः सोऽपि किंचित्कश्मलतां गतः ॥
त्रिशूलं त्रिशिखं तस्मै चिक्षेप ज्वलनप्रभम् ॥३७॥
शूलं समागतं दृष्ट्वा बाणैश्चिच्छेद कार्ष्णिजः ॥
छिन्नं स्वीयं त्रिशूलं वै दृष्ट्वा रुद्रसुतो बली ॥३८॥
ससृजे मायया तत्र मुखादनलमेव च ॥
तेनाग्निना जज्वलुश्च मही वृक्षा दिशो दश ॥३९॥
पदातीनां रथानां च हयानां दंतिनां तथा ॥
जज्वलुश्च शरीराणि मुञ्जपुष्पप्रतूलवत् ॥४०॥
केचित्प्रज्वलिता वीराः केचिद्वै भस्मतां गताः ॥
अग्निना पूरितं सैन्यं कृष्णं केचित्स्मरंति हि ॥४१॥
सेनां भयातुरां दृष्ट्वानिरुद्धो धन्विनां वरः ॥
दधार विशिखं चापे ज्ञात्वा मायां विनिर्मिताम् ॥४२॥
मंत्रयित्वा च मंत्रेण पर्जन्यास्त्रेण सायकम् ॥
मुमोच गगने शीघ्रं स्मरन्कृष्णपदांबुजम् ॥४३॥
शरे मुक्ते समागत्य मेघाः प्रववृषुर्जलम् ॥
अग्निः शांतिं गतो राजन्यथा प्रावृट् तथा बभौ ॥४४॥
शिखंडिनः कोकिलाश्च चातकाः सारसादयः ॥
मण्डूकाद्याश्च प्रजगुरिंद्रगोपा विरेजिरे ॥४५॥
पुरंदरस्य चापेन सौदामिन्या बभौ नभः ॥
प्रयासं निष्फलं दृष्ट्वा भैरवो भैरवं रवम् ॥४६॥
चकार स्वमुखेनापि सर्वेषां त्रासयन्मनः ॥
ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥४७॥
विचेलुर्दिग्गजास्तारा राजद्भूखण्डमण्डलम् ॥
तदैव बधिरीभूता बभूवुः पतिता नराः ॥४८॥
पुनश्च भैरवः क्रुद्धो हस्तं हस्तेन पीडयन् ॥
निष्पिषन्नधरं दंतैर्लेलिहानः स्वजिह्वया ॥४९॥
नेत्राभ्यां रक्तवर्णाभ्यां पश्यन्सर्पैर्विभूषितः ॥
जग्राह परशुं तीक्ष्णं तृणीकृत्य यदूत्तमम् ॥५०॥
तदैव जृंभणास्त्रेणानिरुद्धो रणकोविदः ॥
भैरवं मोहयामास श्रीकृष्ण इव शंकरम् ॥५१॥
तेनास्त्रेण रणे राजन्ननिरुद्धस्य पश्यतः ॥
पपात भूतले रौद्रो जृंभितो निद्रितोऽभवत् ॥५२॥
इति श्रीगर्गसंहितायां हयमेधखण्डे भैरवमोहनं नाम सप्तत्रिंशोऽध्यायः ॥३७॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|