श्रीगर्गसंहिता

अश्वमेधखण्डः - षष्ठोऽध्यायः

कृष्णचरितवर्णनम् -


श्रीगर्ग उवाच -
पुनस्ते कथयिष्यामि यशः संक्षेपतो हरेः ॥
चकार हास्यं भगवान्‍रुक्मिण्या सह चाद्‌भुतम् ॥१॥
अनिरुद्धविवाहे चावधीद्‌भ्रात्रा तु रुक्मिणम् ॥
ऊषास्वप्नकथा चित्रलेखया हरणं हरेः ॥२॥
पौत्रस्य बन्धनं चापि बाणयादवसंयुगः ॥
कृष्णशंकरयोर्युद्धे ज्वरसंस्तवनं ततः ॥३॥
बाणबाहुच्छिदो रुद्रस्तुतिर्बाणस्य रक्षणे ॥
ऊषाप्राप्तिर्नृगाख्यानं बलस्य च व्रजागमम् ॥४॥
गोपीविलापो रामस्य स्तुतिर्गोपीभिरेव च ॥
यमुनाकर्षणं काशीपतिपौंड्रकघातनम् ॥५॥
कृत्योत्पत्तिर्दाहनं च काश्याः कपिवधस्ततः ॥
सांबस्य बन्धने रामविक्रमो गजसाह्वये ॥६॥
उग्रसेनराजसूये जघान शकुनिं हरिः ॥
नारदेन हरेर्लीलादर्शनं गृहमेधिनाम् ॥७॥
आह्निकं वासुदेवस्य राजदूतेन वै स्तुतिः ॥
इन्द्रप्रस्थे च गमनमुद्धवेन च यादवैः ॥८॥
जरासन्धं च भीमेन निजघान गिरिव्रजे ॥
सहदेवाभिषेकं च राजभिश्च कृता स्तुतिः ॥९॥
राजसूये हरेः पूजा शिशुपालवधस्तथा ॥
दुर्योधनाभिमानस्य भंगः प्रद्युम्नशाल्वयोः ॥१०॥
युद्धं त्रिनवरात्रं च कृष्णस्यागमनं ततः ॥
शाल्वस्य दन्तवक्त्रस्य तद्‌भ्रातुर्लीलया वधः ॥११॥
ततो गजाह्वये राजन्दुर्द्यूतेन च कौरवैः ॥
विनिर्जितो भ्रातृयुक्तः सभार्यस्तु युधिष्ठिरः ॥१२॥
वनं जगाम संस्थाप्य पृथां च विदुरगृहे ॥
गत्वारण्ये निवासं वै चकार बहुभिर्दिनैः ॥१३॥
ततश्च पालयामास महीं दुर्योधनो मुदा ॥
प्रजास्तं नाभ्यनन्दन्स्म पांडुपुत्रे गते सति ॥१४॥
अरण्ये वर्तमानान्वै पांडवान्दुःखकर्षितान् ॥
मिलित्वाऽऽश्वासयामास ह्यनंतश्चैकदा हरिः ॥१५॥
दृष्ट्वाथ पांडवान्कृष्णो ह्याजगाम कुशस्थलीम् ॥
उग्रसेनसुधर्मायां शशंस चेष्टितं च तत् ॥१६॥
तच्च श्रुत्वा यादवाश्च प्रोचुः सर्वे हि विस्मिताः ॥
यादवा ऊचुः
किं कृतं धृतराष्ट्रेण दीना भ्रातृसुता अहो ॥१७॥
दुर्द्यूतेन विनिर्जित्याधर्मान्निष्कासिता गृहात् ॥
स्वाधर्मेण विनश्यंति कौरवा राज्यलोलुपाः ॥१८॥
पांडवेभ्यस्तु भगवांस्तस्माद्दास्यति संपदम् ॥
गर्ग उवाच -
इति श्रुत्वा यादवानां वाक्यं च मधुसूदनः ॥१९॥
आययौ वै स्वभवनं सायंकाले नृपेश्वर ॥
आगतं स्वात्मजं वीक्ष्य नमंतं देवकी मुदा ॥२०॥
दत्वाऽऽशिषं भोजनं च कारयामास वै सती ॥२१॥
ततः स चाययौ कृष्णः स्वस्त्रीणां मंदिराणि च ॥
प्रियाभिः पूजितस्तत्र चकार शयनं किल ॥२२॥

इति श्रीगर्गसंहितायामश्वमेधखंडे
श्रीकृष्णचरित्रवर्णनं नाम षष्ठोऽध्यायः ॥६॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP