| 
श्रीगर्गसंहिता   
विज्ञानखण्डः  -  नवमोऽध्यायः  
महापूजाप्रकारकथनम् -  
 
श्रीव्यास उवाच  -उपचारस्य मंत्राणि वेदोक्तानि शुभानि च ॥
 तुभ्यं वक्ष्यामि राजेंद्र शृणुष्वैकाग्रमानसः ॥१॥
 अथावाहनम्
 गोलोकधामाधिपते रमापते
 गोविंद दामोदर दीनवत्सल ॥
 राधापते माधव सात्वतां पते
 सिंहासनेऽस्मिन्मम संमुखो भव ॥२॥
 अथासनम्
 श्रीपद्मरागस्फुरदूर्ध्वपृष्ठं
 महार्हवैदूर्यखचित्पदाब्जम् ॥
 वैकुण्ठ वैकुण्ठपते गृहाण
 पीतं तडिद्धाटककुम्भखण्डम् ॥३॥
 अथ पाद्यम्
 परं स्थितं निर्मलरौक्मपात्रे
 समाहृतं बिंदुसरोवराद्धि ॥
 योगेश वेदेश जगन्निवास
 गृहाण पाद्यं प्रणमामि पादौ ॥४॥
 अथ अर्घ्यम्
 जलजचम्पकपुष्पसमन्वितं
 विमलमर्घ्यमनर्घदरस्थितम् ॥
 प्रतिगृहाण रमारमण प्रभो
 यदुपते यदुनाथ यदूत्तम ॥५॥
 अथ स्नानम्
 काश्मीरपाटीरविमिश्रितेन
 सुमल्लिकोशीरवता जलेन ॥
 स्नानं कुरु त्वं यदुनाथ देव
 गोविंद गोपालक तीर्थपाद ॥६॥
 अथ मधुपर्कस्नानम्
 मध्याह्नचंद्रार्कभवं मलापहं
 सितांगसंपर्कमनोहरं परम् ॥
 गृहाण विष्णो मधुपर्कमेनं
 संदृश्य पीतांबर सात्वतां पते ॥७॥
 अथ वस्त्रम्
 विभो सर्वतः प्रस्फुरत्प्रोज्ज्वलं च
 स्फुरद्रश्मिरम्यं परं दुर्लभं च ॥
 स्वतो निर्मितं पद्मकिंजल्कवर्णं
 गृहणांबरं देव पीतांबराख्यम् ॥८॥
 अथ यज्ञोपवीतम्
 सुवर्णाभमापीतवर्णं सुमंत्रैः
 परं प्रोक्षितं वेदविन्निर्मितं च ॥
 शुभं पंचकार्येषु नैमित्तिकेषु
 प्रभो यज्ञ यज्ञोपवीतं गृहाण ॥९॥
 अथ भूषणम्
 कनकरत्नमयं मयनिर्मितं
 मदनरुक्कदनं सदनं रुचाम् ॥
 उषसि पूषसुवर्णविभूषणं
 सकललोकविभूषण गृह्यताम् ॥१०॥
 अथ गंधम्
 संध्येंदुशोभं बहुमंगलं श्री-
 काश्मीरपाटीरकपंकयुक्तम् ॥
 स्वमंडनं गन्धचयं गृहाण
 समस्तभूमण्डलभारहारिन् ॥११॥
 अथाक्षतान्
 ब्रह्मावर्ते ब्रह्मणा पूर्वमुप्तान्
 ब्राह्मैस्तोयैः सिंचितान्विष्णुना च ॥
 रुद्रेणाराद्रक्षितान् राक्षसेभ्यः
 साक्षाद्भूमन्नक्षतांस्त्वं गृहाण ॥१२॥
 अथ पुष्पाणि
 मन्दारसन्तानकपारिजात-
 कल्पद्रुमश्रीहरिचन्दनानाम् ॥
 गृहाण पुष्पाणि हरे तुलस्या
 मिश्राणि साक्षान्नवमंजरीभिः ॥१३॥
 अथ धूपम्
 लवंगपाटीरजचूर्णमिश्रं
 मनुष्यदेवासुरसौख्यदं च ॥
 सद्यः सुगंधीकृतहर्म्यदेशं
 द्वारावतीभूप गृहाण धूपम् ॥१४॥
 अथ दीपम्
 तमोहारिणं ज्ञानमूर्तिं मनोज्ञं
 लसद्वर्तिकर्पूरपूरं गवाज्यम् ॥
 जगन्नाथ देव प्रभो विश्वदीप
 स्फुरज्ज्योतिषं दीपमुख्यं गृहाण ॥१५॥
 अथ नैवेद्यम्
 रसैः शरैर्भेदविधिव्यवस्थितं
 रसै रसाढ्यं च यशोमतीकृतम् ॥
 गृहाण नैवेद्यमिदं सुरोचकं
 गव्यामृतं सुन्दर नन्दनन्दन ॥१६॥
 अथ जलम्
 गंगोत्तरीवेगबलात्समुद्धृतं
 सुवर्णपात्रेण हिमांशुशीतलम् ॥
 सुनिर्मलाभं ह्यमृतोपमं जलं
 गृहाण राधावर भक्तवत्सल ॥१७॥
 अथाचमनम्
 राधापते श्रीविरजापते प्रभो
 श्रियः पते सर्वपते च भूपते ॥
 कंकोलजातीफलपुष्पवासितं
 परं गृहाणाचमनं दयानिधे ॥१८॥
 अथ तांबूलम्
 जातीफलैलासुलवंगनाग-
 वल्लीदलैः पूगफलैश्च संयुतम् ॥
 मुक्तासुधाखादिरसारयुक्तं
 गृहाण तांबूलमिदं रमेश ॥१९॥
 अथ दक्षिणा
 नाकपालवसुपालमौलिभि-
 र्वंदितांघ्रियुगल प्रभो हरे ॥
 दक्षिणां परिगृहाण माधव
 लोकदक्ष वरदक्षिणाय ते ॥२०॥
 अथ नीराजनम्
 प्रस्फुरत्परमदीप्तिमंगलं
 गोधृताक्तनवपंचवर्तिकम् ॥
 आर्तिकं परिगृहाण चार्तिहन्
 पुण्यकीर्तिविशदीकृतावने ॥२१॥
 अथ नमस्कारः
 नमोऽस्त्वनंताय सहस्रमूर्तये
 सहस्रपादाक्षिशिरोरुबाहवे ॥
 सहस्रनाम्ने पुरुषाय शाश्वते
 सहस्रकोटीयुगधारिणे नमः ॥२२॥
 अथ प्रदक्षिणा
 समस्ततीर्थयज्ञदानपूर्तकादिजं फलम् ॥
 लभेत्परस्य शाश्वतं करोति यः प्रदक्षिणाम् ॥२३॥
 अथ प्रार्थना
 हरे मत्समःपातकी नास्ति भूमौ
 तथा त्वत्समो नास्ति पापापहारी ॥
 इति त्वं च मत्वा जगन्नाथ देव
 यथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥२४॥
 अथ स्तुतिः
 संज्ञानमात्रं सदसत्परं मह-
 च्छश्वत्प्रशांतं विभवं समं महत् ॥
 त्वां ब्रह्म वंदे हि सुदुर्गमं परं
 सदा स्वधाम्ना परिभूतकैतवम् ॥२५॥
 एवं संपूज्य देवेशमेभिर्मंत्रैर्महामते ॥
 प्रणम्य विष्णुं सर्वांगपूजां कुर्यात्प्रयत्नतः ॥२६॥
 ॐ नमो नारायणाय पुरुषाय महात्मने ॥
 विशुद्धसत्वधीस्थाय महाहंसाय धीमही ॥२७॥
 इति मंत्रेण प्राणायामं कृत्वा
 ॐ विष्णवे मधुसूदनाय वामनाय त्रिविक्रमाय
 श्रीधराय हृषीकेशाय पद्मनाभाय दामोदराय
 संकर्षणाय वासुदेवाय प्रद्युम्नाय अनिरुद्धाय
 अधोक्षजाय पुरुषोत्तमाय श्रीकृष्णाय नमः ॥
 इति पादगुल्फजानूरुकट्युदरपृष्ठभुजाकंधरकर्ण-
 नासिकाधरनेत्रशिरःसु पृथक् पृथक् पूजयामीति
 सर्वाङ्गपूजां कुर्यात् ॥ तथा सखीसखशंखचक्रगदा-
 पद्मासिधनुर्बाणहलमुसलादीन् तथा कौस्तुभवनमाला-
 श्रीवत्सपीतांबरनीलांबरवंशीवेत्रादीन् तथा
 तालांकगरुडांकरथदारुकसुमतिसारथिगरुड-
 कुमुदनंदसुनंदचंडमहाबलकुमुदाक्षादीन् ॥
 प्रणवपूर्वेण चतुर्थ्यन्तेन नमःसंयुक्तेन नाम्ना
 तथा विष्वक्सेनशिवविधिदुर्गाविनायकदिक्पाल-
 वरुणनवग्रहमातृकादीन्मंत्रैः पूजयेत् ॥
 ॐ नमो वासुदेवाय नमः संकर्षणाय च ॥
 प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥२८॥
 इति मंत्रेण शतमाहुतीर्जुहुयात् ॥
 देवं प्रदक्षीणीकृत्य महाभोगं निधाय च ॥
 प्रणमेद्दंडवद्भूमौ मंत्रमेतमुदीरयेत् ॥२९॥
 ध्येयं सदापरिभवघ्नमभीष्टदोऽहं
 तीर्थास्पदं शिवविरंचिनुतं शरण्यम् ॥
 भृत्यार्तिहन् प्रणतपाल भवाब्धिपोतं
 वंदे महापुरुष ते चरणारविंदम् ॥३०॥
 इति नत्वा हरिM राजन्पुनर्नीराजनं हरेः ॥
 कारयेद्विधिवद्भक्तो हरिभक्तजनैः सह ॥३१॥
 घटीवाद्यरणद्घण्टाकांस्यवीणादिकीचकैः ॥
 करतालमृदङ्गाद्यैः कीर्तनं कारयेद्बुधः ॥३२॥
 नृत्यन्ति श्रीहरेरग्रे भक्ता वै प्रेमविह्वलाः ॥
 जयध्वनिसमायुक्ताः सत्कथागानतत्पराः ॥३३॥
 पुनः प्रभुं नमस्कृत्य मंदिरे तपनोज्ज्वले ॥
 शयनं कारयेत्सम्यक् श्रीकृष्णस्य महात्मनः ॥३४॥
 एवं करोति श्रीकृष्णसेवां यो लग्नमानसः ॥
 प्रणमंति च तं राजन्देवताः स्वर्गसंभवाः ॥३५॥
 सोऽपि राजेन्द्र नाकेऽपि पदं धृत्वा हरेर्जनः ॥
 अंते याति परं धाम गोलोकं योगिदुर्लभम् ॥३६॥
 इति श्रीकृष्णसेवाया विधानं वर्णितं मया ॥
 चतुःपदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ॥३७॥
 
 इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे श्रीकृष्णसेवाविधानवर्णनं  नाम नवमोऽध्यायः ॥९॥
 
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
 
 
 GO TOP 
 
 
 |