श्रीगर्ग संहिता - विश्वजित्खण्डः - द्वाविंशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - द्वाविंशोऽध्यायः

भारतजयानन्तरं प्रद्युम्नस्य पूर्वोत्तरदेशगमनम् -


श्रीनारद उवाच -
दुर्योधनं शांतयित्वा सानुजैः कुरुभिः सह ॥
जग्मतुः पांडवान्द्रष्टुमिंद्रप्रस्थं यदूत्तमौ ॥१॥
इंद्रप्रस्थात्ततो राजाऽऽजातसत्रुर्युधिष्ठिरः ॥
भ्रातृभिः स्वजनैः सार्द्धं नेतुं कृष्णं समाययौ ॥२॥
शंखदुंदुभिनादेन ब्रह्मघोषेण वेणुभिः ॥
पुष्पवर्षं प्रकुर्वद्‌भिरिंद्रप्रस्थनिवासिभिः ॥
रामकृष्णौ परिष्वज्य दोर्भ्यां राजा युधिष्ठिरः ॥३॥
परमां निर्वृतिं लेभे योगीवानंदसंवृतः ॥
प्रद्युम्नाद्या हरिसुताः प्रणेमुः श्रीयुधिष्ठिरम् ॥४॥
युधिष्ठिरोऽनुजग्राह कराभ्यां तान्कृताशिषः ॥
अर्जुनं भीमसेनं च परिरभ्य हरिः स्वयम् ॥५॥
पप्रच्छ कुशलं तेषां यमाभ्यां चाभिवंदितः ॥
परिपूर्णतमौ साक्षाच्छ्रीकृष्णौ च स्वयं हरिः ॥६॥
असंख्यब्रह्माण्डपती हरिदासेन पूजितौ ॥
प्रस्थाप्य यदुमुख्यांश्च प्रद्युम्नादीन् ससैनिकान् ॥७॥
समग्रां जगतीं जेतुं चाज्ञां दत्त्वा विधानतः ॥
मिलित्वा सानुजं धर्मं सर्वेशौ भक्तवत्सलौ ॥८॥
द्वारकां जग्मतू राजन् गौरश्यामौ मनोहरौ ॥
इत्थं श्रीकृष्णचरितं मया ते कथितं नृप ॥९॥
चतुष्पदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ।
बहुलाश्व उवाच -
कुशस्थलीं गते कृष्णे सबले पुरुषोत्तमे ॥१०॥
ततश्चकार किं साक्षात्प्रद्युम्नो भगवान्हरिः ॥
अद्‌भुतं तस्य चरितं श्रवणीयं मनोहरम् ॥११॥
मुक्तानामपि भक्तानां जिज्ञासूनां पुनः किमु ॥
अर्थार्थिनामर्थदं सदार्तानामर्तिनाशनम् ॥१२॥
चतुर्विधानां जीवानां सर्वेषां पापनाशनम् ॥
कथं दिग्विजयं कृत्वा दिग्जयार्थी हरेः सुतः ॥१३॥
आजगाम पुनः सैन्यैरेतन्मे वद तत्वतः ॥
देवर्षे त्वं ब्रह्मसुतो भगवान्सर्वदर्शनः ॥
श्रीकृष्णस्य मनः पूर्वं तस्मै ते हरये नमः ॥१४॥
श्रीनारद उवाच -
साधु पृष्टं त्वया राजन्धन्यस्त्वं तत्प्रभाववित् ॥
श्रीकृष्णचरितं श्रोतुं पात्रं त्वमसि भूतले ॥१५॥
कृष्णे यातेऽजातशत्रू रक्षार्थं स्नेहतो नृप ॥
शत्रुभ्यः शंकितः कार्ष्णिं प्रायुङ्क्ताशुकिरीटिनम् ॥१६॥
अथ कार्ष्णिर्यदुश्रेष्ठः फाल्गुनेन समं नृप ॥
विकर्षन्महतीं सेनां त्रिगर्तान्प्रययौ त्वरम् ॥१७॥
त्रिगर्ताधीश्वरो धन्वी सुशर्मा तेन शंकितः ॥
उपायनं ददौ तस्मै प्रद्युम्नाय महात्मने ॥१८॥
विराटेन तथा राज्ञा पूजितो यादवेश्वरः ॥
सरस्वतीं नदीं स्नात्वा कुरुक्षेत्रं ददर्श ह ॥१९॥
पृथूदकं बिंदुसरस्त्रितं कूपं सुदर्शनम् ॥
स्नात्वा सरस्वतीं प्रागाद्दत्वा दानान्यनेकशः ॥२०॥
सारस्वताधिपो राजा कुशांबो न ददौ बलिम् ॥
कौशांबीं नगरीमेत्य दुर्योधनवशानुगः ॥२१॥
चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान् ॥
सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः ॥२२॥
चारुचंद्रो विचारुश्च चारुश्च दशमस्तथा ॥
रुक्मिणीनंदना ह्येते प्रद्युम्नेन प्रणोदिताः ॥२३॥
सिंधुदेशहयारूढाः सर्वेषां पश्यतां गताः ॥
कौशांबीं नगरीमेत्य रुरुधुः सर्वतस्तदा ॥२४॥
बाणैः प्रासादशिखरा ध्वजकुंभादितोलिकाः ॥
चूर्णीभूता निपेतुः कौ लंकाट्टाला यथा मृगैः ॥२५॥
बाणांधकारे च कृते रुक्मिणीनंदनैर्यदा ॥
तदोपायनपाणिः सन्कुशांबो निर्गतः पुरात् ॥२६॥
कृतांजलिः शंबरारिं दत्वा नत्वा बलिं बहु ॥
जुगोप नगरीं राजा भयार्तो भयविह्वलः ॥२७॥
तदैव सौवीरपतिः सुदेव
     आभीरनाथोऽपि विचित्रनामा ॥
चित्राङ्गदः सिंधुपतिर्महौजाः
     काश्मीरपो जांगलपः सुमेरुः ॥२८॥
लाक्षेश्वरो धर्मपतिर्बिडौजा
     गांधारमुख्योऽपि सुयोधनस्य ॥
वशे स्थितास्तेऽपि भयात्किलैते
     दत्वा बलिं नेमुरतीव कार्ष्णिम् ॥२९॥
ययौ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥
अर्बुदान्म्लेच्छदेशांश्च जेतुं कल्किरिवोद्‌भटः ॥३०॥
कालस्यापि सुतश्चंडो यवनेंद्रो महाबलः ॥
कार्ष्णिं समागतं श्रुत्वा संमुखात्कोपपूरितः ॥३१॥
पितृहंतुः सुतं हत्वा यास्याम्यपचितिं पितुः ॥
इत्थं विचार्य्य मनसा म्लेच्छानां दशकोटिभिः ॥३२॥
मदच्युतं प्रोन्नदन्तं गजमारुह्य रक्तदृक् ॥
निर्ययौ संमुखे योद्धुं प्रद्युम्नस्य महात्मनः ॥३३॥
आगतां महतीं सेनां शितबाणप्रवर्षिणीम् ॥
चंडप्रणोदितं दृष्ट्वा प्रद्युम्नो वाक्यमब्रवीत् ॥३४॥
प्रद्युम्न उवाच -
सेनां हत्वापि यश्चाण्डं शिरस्त्रसहितं शिरः ॥
आनेष्यते तं स्वबले करिष्यामि ध्वजापतिम् ॥३५॥
श्रीनारद उवाच -
एवं कार्ष्णौ वदत्यारात्फाल्गुनो वानरध्वजः ॥
एको विवेश गांडीवी धनुष्टङ्कारयन्मुहुः ॥३६॥
वीरान् रथान् गजानश्वान्संमुखस्थान्द्विधाकरोत् ॥
गांडीवमुक्तैर्विशिखैर्गांडीवी रणदुर्मदः ॥३७॥
केचिच्छिन्नभुजाः पेतुः शक्तिखड्गर्ष्टिपाणयः ॥
भिन्नपादा भिन्ननखाः केचिद्वीराः सकंचुकाः ॥३८॥
दुद्रुवुः करिणो युद्धे भिन्नकक्षाश्च सक्षताः ॥
गतघंटाः श्लथन्नीडाः पातयंतः करैर्गजान् ॥३९॥
जिष्णुबाणैर्द्विधाभूतैर्गजैरश्वै रणांगणम् ॥
बभौ क्षेत्रं शंकुलया कूष्मांडशकलैरिव ॥४०॥
तदैव दुद्रुवुर्म्लेच्छास्त्यक्त्वा स्वं स्वं रणांगणम् ॥
नभोऽर्करश्मिसंभिन्ना नीहारपटला इव ॥४१॥
गजारूढो म्लेच्छपतिः शक्तिं चिक्षेप जिष्णवे ॥
भ्रामयित्वा मैथिलेंद्र सिंहनादमथाकरोत् ॥४२॥
विद्युल्लतामिवायांतीं बाणैः कृष्णसखो बली ॥
गांडीवमुक्तै राजेंद्र लीलया शतधाच्छिनत् ॥४३॥
य़ावच्चंडो महाम्लेच्छो धनुर्जर्ग्राह रोषतः ॥
तावच्चिच्छेद गांडीवी बाणेनैकेन लीलया ॥४४॥
द्वितीयं धनुरादाय स चण्डश्चण्डविक्रमः ॥
प्रलयाब्धिमहावर्तभीमसंघर्षनादिनीम् ॥४५॥
चिच्छेद सिंजनीं जिष्णोर्गरुत्मानिव पन्नगीम् ॥
बीभत्सुः स्वमसिं नीत्वा स्फुरंतं चर्मणा सह ॥४६॥
जघान तद्‌गजं कुंभे शैलमिंद्रो यथा पविः ॥
अग्निदत्तेन खड्गेन भिन्नकुंभो गजो नदन् ॥४७॥
जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥
चंडः खड्गं गृहीत्वाथ प्राहत्य पांडुनंदनम् ॥४८॥
तत्खड्गं चर्मणोन्नीय प्राहिणोत्तं कुरूद्वहः ॥
सशिरस्त्रं शिरस्तस्य देहाद्‌भिन्नं बभूव ह ॥४९॥
सज्जं कृत्वा धनुर्जिष्णुर्निधाय विशिखे च तत् ॥
आकृष्य पातयामास प्रद्युम्नस्य बले महत् ॥५०॥
तदा दुन्दुभिनादोऽभूज्जयारावसमाकुलः ॥
अर्जुनस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥५१॥
तदैव कार्ष्णिः सबलस्य जिष्णुं
     चकार नाथं विजयध्वजस्य ॥
संवीज्यमानं सितचामराद्यैः
     कपिध्वजं यादववृंदमुख्यैः ॥५२॥
वेगवानर्बुदाधीशः प्रद्युम्नं शरणं गतः ॥
उपायनं ददौ भीरुर्नमस्कृत्य कृतांजलिः ॥५३॥
मौरंगेशो मंदहासो हयानां दशलक्षकम् ॥
दत्वा भीरुर्नमश्चक्रे प्रद्युम्नाय महात्मने ॥५४॥
इत्थं खंडं भारताख्यं जित्वा कार्ष्णिर्यदूत्तमः ॥
हिमाद्रिं दक्षिणीकृत्य प्रागुदीचीं दिशं ययौ ॥५५॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
बहुदिग्विजयो नाम द्वाविंशोऽध्यायः ॥२२॥


GO TOP