श्रीगर्गसंहिता

विश्वजित्खण्डः - नवमोऽध्यायः

चेदिदेशविजयम् -


श्रीनारद उवाच -
इत्युक्त्वा शत्रुहा भानुर्गृहीत्वा खड्गचर्मणी ॥
पदातिः प्रययौ सैन्ये वने वन्यकरीव सः ॥१॥
भानुः खड्गेन शत्रूंस्ताञ्छिन्नबाहूंश्चकार ह ॥
द्विपान् हयान्सम्मुखस्थान् पार्श्वस्थांश्च द्विधाकरोत् ॥२॥
खड्गद्वितीयो ह्येकाकी रेजे छिंदन्नरीन्मृधे ॥
नीहारमेघपटलैर्भानुर्भानुरिव स्फुरन् ॥३॥
हस्तिनां छिन्नकुम्भानां भानुः खड्गेन मैथिल ॥
मुक्ता निपेतुश्च यथा तारकाः क्षीणकर्मणाम् ॥४॥
क्षणमात्रेण तत्सैन्यं पातयित्वा रणांगणे ॥
रंगपिंगोपरि प्रागाद्‌‌भानुर्वीरो महाबलः ॥५॥
कृष्णदत्तेन खड्गेन रथौ तौ रंगपिंगयौ ॥
छित्वा हयान्सनेतॄंश्च भानुयुद्धे द्विधाकरोत् ॥६॥
खड्गौ नीत्वा रंगपिंगौ तेडतुस्तं महोद्‌भटौ ॥
भानुचर्मगतौ खड्गौ भंगीभूतौ बभुवतुः ॥७॥
भानुखड्गप्रहारेण शिरसी रंगपिंगयोः ॥
युगपत्पेततुर्युद्धे तदद्‌भुतमिवाभवत् ॥८॥
भानुस्तयोश्च शिरसी नीत्वा प्रद्युम्नसंमुखे ॥
आययौ विजयी वीरः श्लाघितः सैन्यनायकैः ॥९॥
दिवि दुन्दुभयो नेदुर्नवदुन्दुभिभिः समम् ॥
अभूज्जयजयारावः पुष्पवर्षाः सुरैः कृताः ॥१०॥
रंगपिंगौ मृतौ श्रुत्वा शिशुपालो रुषान्वितः ॥
जैत्रं रथं समारुह्य यदूनां सम्मुखं ययौ ॥११॥
मदच्युद्‌भिर्गजैर्दिर्घै रत्‍नकंबलमंडितैः ॥
स्वर्णनीडसमायुक्तैर्लोलघण्टाक्वणत्स्वनैः ॥१२॥
रथैश्च देवधिष्ण्याभैर्वायुवेगैस्तुरंगमैः ॥
विद्याधरसमैर्वीरैर्नादयन् वसुधातलम् ॥१३॥
शिशुपालबलं दृष्ट्वा शक्रदत्तरथे ततः ॥
सर्वेषामग्रतः कार्ष्णिः प्रययौ धन्विनां वरः ॥१४॥
शंखं दघ्मौ हरेः पुत्रो दिशः खं नादयन्नृप ॥
तेन नादेन शत्रूणां कंपोऽभूद्‍धृदि मानद ॥१५॥
शिशुपालमहासैन्ये प्रासाद इव दुर्गमे ॥
चक्रे नाराचसोपानं सहसा रुक्मिणीसुतः ॥१६॥
दमघोषसुतो धीमान् धनुष्टंकारयन्मुहुः ॥
ब्रह्मास्त्रं संदधे यद्वै दत्तात्रेयेण शिक्षितम् ॥१७॥
प्रचंडं सर्वतस्तेजो दृष्ट्वा श्रीरुक्मिणीसुतः ॥
ब्रह्मास्त्रेणापि तद्युद्धे संजहार स लीलया ॥१८॥
शिशुपालो महाधीमानंगारास्त्रं समादधे ॥
जामदग्न्येन यद्दत्तं महेंद्रे पर्वते नृप ॥१९॥
तस्मादंगारवर्षाभिः कार्ष्णिसेनातिविह्वला ॥
पर्जन्यास्त्रं महादिव्यं तदा कार्ष्णिः समादधे ॥२०॥
स्थूलाभिर्मेघधाराभिरंगाराः शांतिमाययुः ॥
शिशुपालस्तदा क्रुद्धो गजास्त्रं तत्समादधे ॥२१॥
यदगस्तेन मुनिना शिक्षितं मलयाचले ॥
महोद्‍भटा गजा दीर्घाः कोटिशस्तद्विनिर्गताः ॥२२॥
ते सैन्यं पातयामासुः प्रद्युम्नस्य महात्मनः ॥
हाहाकारो महानासीद्‌यदूनां वाहिनीषु च ॥२३॥
प्रद्युम्नोऽथ रणश्लाघी नृसिंहास्त्रं समादधे ॥
नृसिंहो निर्गतस्तस्मान्नादयन् वसुधातलम् ॥२४॥
स्फुरत्सटो दीर्घवालो नखलांगूलभीषणः ॥
ननाद हुंकृतैः शब्दैर्भक्षयंस्तान् गजान् रणे ॥२५॥
विदार्य गजकुम्भांतमुत्पतन् भगवान् हरिः ॥
गजवृंदं मर्दयित्वा तत्रैवांतरधीयत ॥२६॥
चिक्षेप परिघं रोषाच्छिशिशुपालो महाबलः ॥
चिच्छेद परिघं तद्वै यमदंडेन माधवः ॥२७॥
ततश्चैद्यो रुषाविष्टो गृहीत्वा खड्गचर्मणी ॥
प्रद्युम्नं तमुपाधावत्पतंग इव पावकम् ॥२८॥
कार्ष्णिस्तताड तं खड्गं यमदंडेन वेगतः ॥
चूर्णीबभूव तेनापि निस्त्रिंशश्चर्मणा सह ॥२९॥
पाशिदत्तेन पाशेन सहसा यादवेश्वरः ॥
दमघोषसुतं बद्ध्वा विचकर्ष रणांगणे ॥३०॥
शिशुपालं घातयितुं खड्गं जग्राह रोषतः ॥
तदैव तत्करौ साक्षाद्‌गदो जग्राह वेगतः ॥३१॥
गद उवाच -
परिपूर्णतमेनापि श्रीकृष्णेन महात्मना ॥
वध्योऽयं देववचनं वचनं मा वृथा कुरु ॥३२॥
श्रीनारद उवाच -
तदा कोलाहले जाते शिशुपालस्य बंधने ॥
दमघोषो बलिं नीत्वा प्रागात्प्रद्युम्नसंमुखे ॥३३॥
कार्ष्णिस्तमागतं दृष्ट्वा त्यक्त्वा शस्त्राणि शीघ्रतः ॥
अग्रतश्चेदिपं शश्वन्ननाम शिरसा भुवि ॥३४॥
मिलित्वा चाशिषं दत्वा प्रद्युम्नाय महात्मने ॥
दमघोषो महाराजः प्राह गद्‍गदया गिरा ॥३५॥
दमघोष उवाच -
प्रद्युम्न त्वं तु धन्योऽसि श्रीयदूनां शिरोमणे ॥
मत्पुत्रेण कृतं यद्वै तत्क्षमस्व दयानिधे ॥३६॥
प्रद्युम्न उवाच -
मम दोषो न ते चायं न ते पुत्रस्य हे प्रभो ॥
सर्वं कालकृतं मन्ये प्रियमप्रियमेव वा ॥३७॥
श्रीनारद उवाच -
इत्युक्तो दमघोषोऽपि प्रद्युम्नेन प्रयंत्रितः ॥
शिशुपालं मोचयित्वा नीत्वागाच्चंद्रकां पुरीम् ॥३८॥
प्रद्युम्नस्य बलं श्रुत्वा साक्षाच्छ्रीकृष्णतेजसः ॥
न केऽपि युयुधुस्तेन राजानश्च बलिं ददुः ॥३९॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
रंगपिंगवधे शिशुपालयुद्धे चेदिदेशविजयो नाम नवमोऽध्यायः ॥९॥


GO TOP