श्रीगर्गसंहिता

मथुराखण्डः - चतुर्दशोऽध्यायः

नन्देन सह उद्धवस्य मिलनं कृष्णस्य कुशलवर्णनम् -


श्रीनारद उवाच -
एवं प्रेमभरान् गोपान् श्रीकृष्णविरहातुरान् ।
उवाच प्रेमसंयुक्त उद्धवो गतविस्मयः ॥ १ ॥
उद्धव उवाच -
अहं श्रीकृष्णोदासोऽस्मि तत्प्रियस्तद्‌रहस्करः ।
भवतां कुशलं द्रष्टुं प्रेषितो हरिणा त्वरम् ॥ २ ॥
पुरीं गत्वाऽथ हरये निवेद्य विरहं तु वः ।
तं प्रसन्नं करिष्यामि तदङ्घ्रौ नेत्रवारिभिः ॥ ३ ॥
नात्वा हरिं हि भवतां समीपं हे व्रजौकसः ।
आगमिष्याम्यहं शीघ्रं शपथो न मृषा मम ॥ ४ ॥
यूयं प्रसन्ना भवत मा शोकं कुरुताथ वै ।
अस्मिन्व्रजेऽपि गोपाला द्रक्ष्यथ श्रीपतिं हरिम् ॥ ५ ॥
श्रीनारद उवाच -
एवमाश्वास्य गोपालान् रथस्थो यदुनन्दनः ।
श्रीदामाद्यैश्व गोपालैः सहितो हर्षपूरितः ॥ ६ ॥
विवेश नन्दनगरं सूर्ये सिन्धुगते सति ।
आगतं ह्युद्धवं श्रुत्वा नन्दराजो महामतिः ।
परिरभ्य मुदा शीघ्रं पूजयामास हर्षितः ॥ ७ ॥
कशिपुस्थं स्थितं शांतमुद्धवं कृतभोजनम् ।
कशिपुस्थो नंदराजः प्राह गद्‌गदया गिरा ॥ ८ ॥
नन्द उवाच -
कच्चित्सखा मे पुरि शूरसेन
     आस्ते स्वपुत्रैः कुशली महामते ।
कंसे मृते यादवपुंगवानां
     जातं सखे सौख्यमतः परं भुवि ॥ ९ ॥
कच्चित्कदाचित्सबलो हि माधवः
     स्मरत्यसौ वा जननीं यशोमतीम् ।
गोपालगोवर्धनगोगणान्व्रजं
     वृन्दावनं वा पुलिनं तरंगिणीम् ॥ १० ॥
हा दैव कस्मिन्समये स्वनन्दनं
     बिंबाधरं सुन्दरमंबुजेक्षणम् ।
द्रक्ष्याम्यहं मन्दिरचत्वाराजिरे
     ऽर्भकैर्लुठंतं सबलं मुहुर्मुहुः ॥ ११ ॥
कुंजो निकुंजो यमुना महानदी
     गोवर्धनोऽरण्यमिदं वनानि ।
गृहैर्लतावृक्षगवां गणैः सह
     विना मुकुंदं विषवत्त्विदं जगत् ॥ १२ ॥
धिग्जीवनं मे शयनं च भोजनं
     कृष्णं विना पद्मदलायतेक्षणम् ।
चन्द्रं विना भूमितले चकोरव-
     ज्जीवामि तस्यागमनाशया भृशम् ॥ १३ ॥
हर्तुं भुवो भरमतीव दैवतैः
     संप्रार्थितं पूर्णतमं महामते ।
जातं सतां रक्षणतत्परं स्वयं
     मन्ये हि कृष्णं सबलं परात्परम् ॥ १४ ॥
श्रीनारद उवाच -
संस्मृत्य संस्मृत्य हरिं परेशं
     बभूव तूष्णीं नवनन्दराजः ।
शिरो निधायाप्युपबर्हणे स्वे
     ह्युत्कंठरोमांचितविह्वलांगः ॥ १५ ॥
श्रीनन्दनेत्रांबुजवारिसंतती
     राजंस्तदा कृष्णसखस्य पश्यतः ।
शय्यां सवस्त्रामुपबर्हणांतां
     कृत्वाऽऽर्द्रतां प्रांगण आचचाल ॥ १६ ॥
श्रुत्वोद्धवं श्रीमथुरापुरागतं
     कपाटमेत्याशु यशोमती सती ।
शृण्वंत्यलं स्वस्य सुतस्य वर्णनं
     स्नेहस्रवत् सुस्तननेत्रपंकजा ॥ १७ ॥
विहाय लज्जां घृणया सुतस्य
     सा पप्रच्छ सर्वं कुशलं तदोद्धवम् ।
आप्रोक्ष्य वस्त्रेण दृगश्रुतसंततिं
     स्थिते च नन्दे हरिभावविह्वले ॥ १८ ॥
श्रीयशोदोवाच -
क्वचित्स्मरति मां कृष्णो नन्दराजमथापि वा ।
भ्रातरं नंदराजस्य सन्नन्दं दर्शनोत्सुकम् ॥ १९ ॥
नंदानवोपनन्दांश्च वृषभानून् व्रजेषु षट् ।
येषामारोहमास्थाय बालकेलिर्वने वने ॥ २० ॥
कंदुकक्रीडया रेमे सानन्दं नन्दनन्दनः ।
तान्गोपान् स्नेहसंयुक्तान्कदाचित्स्मरति स्वतः ॥ २१ ॥
एकोऽयं मे सुतः प्राप्तो न सुता बहवश्च मे ।
सोऽपि मां जननीं दीनां ययौ त्यक्त्वा दिगंतरम् ॥ २२ ॥
अहो कष्टं स्नेहवतां दुर्निवारं महामते ।
किं करोमि विना पुत्रं कथं जीवामि मानद ॥ २३ ॥
मातर्मह्यं देहि दधि मातर्हैयंगवं नवम् ।
एवं वदन्स मधुरं हठं चक्रे सदा गृहे ॥ २४ ॥
मध्याह्ने स कथं कृष्णो भोजनं कर्तुमर्हति ।
ममात्मजोऽयं श्रीकृष्णो जीवनं व्रजवासिनाम् ।
व्रजे धनं कुले दीपो मोहनो बाललीलया ॥ २५ ॥
लालनैः पालनैस्तस्य दिनं मे क्षणवद्‌गतम् ।
तद्दिनं कल्पवज्जातं विनाऽहो नन्दनन्दनम् ॥ २६ ॥
वत्सान्वारयितुं कृष्णो ग्रामसीम्नि नदीतटे ।
न कारितोऽर्भकैः सार्द्धं स चाहो मथुरां गतः ॥ २७ ॥
हे मोहनेति दूरात्तमंकं नीत्वाऽथ लालनम् ।
चकार नंदराजोऽयं तं विना खिन्नतां गतः ॥ २८ ॥
अहो दाम्ना मया बद्धो निर्मोहिन्यैकदा शिशुः ।
भांडे भग्नीकृते दध्नः शोचमि चरितं च तत् ॥ २९ ॥
तत्प्राङ्गणं सर्वसभा च मन्दिरं
     द्वारश्च वीथीर्व्रजहर्म्यपृष्ठयः ।
शून्यं समस्तं मम जीवनं धि-
     ग्विना मुकुंदं विषवत्विदं जगत् ॥ ३० ॥
श्रीनारद उवाच -
यशोदानन्दयोर्वीक्ष्य परमं प्रेमलक्षणम् ।
उद्धवो नितरां राजन् विस्मितोऽभूद्‌गतस्मयः ॥ ३१ ॥
उद्धव उवाच -
रोममात्रं मम तनौ जिह्वा चेज्जायते त्वहो ।
युवयोस्तदपि श्लाघां कर्तुं नालं महाप्रभू ॥ ३२ ॥
परिपूर्णतमे साक्षाच्छ्रीकृष्णे पुरुषोत्तमे ।
ईदृशी च कृता भक्तिर्युवाभ्यां प्रेमलक्षणा ॥ ३३ ॥
तीर्थाटनतपोदानसाङ्ख्ययोगैश्च दुर्लभा ।
शाश्वती युवयोः प्राप्ता या भक्तिः प्रेमलक्षणा ॥ ३४ ॥
मा शोकं कुरु हे नन्द हे यशोदे व्रजेश्वरि ।
पत्रद्वयं गृहाणाशु कृष्णदत्तं न संशयः ॥ ३५ ॥
सहाग्रजो नन्दसूनुः कुशल्यास्ते यदोः पुरि ।
यादवानां महत्कार्यं कृत्वाऽथ सबलः प्रभुः ॥ ३६ ॥
ह्रस्वकालेन चात्रापि भगवानागमीष्यति ।
परिपूर्णतमं विद्धि श्रीकृष्णं नन्दनन्दनम् ।
कंसादीनां वधार्थाय भक्तानां रक्षणाय च ॥ ३७ ॥
ब्रह्मणा प्रार्थितः कृष्णोऽवततार गृहे तव ।
जातमात्रोऽद्‌भुतां लीलां चकार सबलो हरिः ॥ ३८ ॥
पूतनाप्राणहरणं शकटस्य निपातनम् ।
तृणावर्तनिपातश्च यमलार्जुनभंजनम् ॥ ३९ ॥
स्वमुखे च यशोदायै विश्वरूपस्य दर्शनम् ।
वृन्दावने च भगवान् गोवत्सांश्चारयन् प्रभुः ॥ ४० ॥
वधं चकार गोपानां पश्यतां बकवत्सयोः ।
अघासुरस्य च वधो धेनुकस्य विमर्दनम् ॥ ४१ ॥
मर्दनं कालियस्यापि वह्निपानं चकार ह ।
प्रलंबस्य वधं पश्चाद्‌‌बलदेवश्चकार ह ॥ ४२ ॥
गोवर्धनं समुत्पाट्य हस्तेनैकेन लीलया ।
युष्माकं पश्यतां बिभ्रत्पुष्करं गजराडिव ॥ ४३ ॥
चूडामणिं शंखचूडाज्जहार जगतां पतिः ।
अरिष्टस्य वधं कृत्वा केशिनं निजघान ह ॥ ४४ ॥
व्योमासुरं महादैत्यं मुष्टिना तं ममर्द ह ।
तथा वै मथुरायां तु चक्रे चित्रं महामते ॥ ४५ ॥
विकथ्यमानं रजकं करेणाभिजघान तम् ।
प्रचंडं कंसकोदंडं मध्यतस्तद्‌बभंज ह ।
इक्षुदंडं यथा नागः सर्वेषां पश्यतां नृणाम् ॥ ४६ ॥
द्विपं कुवलयापीडं नागायुतसमं बले ।
शुंडादंडे संगृहीत्वा पातयामास भूतले ॥ ४७ ॥
चाणूरं मुष्टिकं कूटं शलं तोशलमेव च ।
पातयामास भूपृष्ठे मल्लयुद्धेन माधवः ॥ ४८ ॥
कसं मदोत्कटं दैत्यं नागलक्षसमं बले ।
मंचाद्‍गृहीत्वा तं कृष्णो भ्रामयित्वा भुजौजसा ॥ ४९ ॥
पातयामास भूपृष्ठे कमंडलुमिवार्भकः ।
इभोपरि यथा सिंहस्तस्योपरि पपात सः ॥ ५० ॥
कंसानुजांश्च कंकादीन् बलदेवो महाबलः ।
ममर्द मुद्‌गरेणाशु मृगान्वै मृगराडिव ॥ ५१ ॥
गुरवे दक्षिणां दातुं समुत्पत्य महार्णवे ।
शंखरूपं पंचजनं निजघान हरिः स्वयम् ॥ ५२ ॥
अद्‌भुतानि चरित्राणि चैतानि श्रीहरिं विना ।
कः करोति महानंद तस्मै श्रीहरये नमः ॥ ५३ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
नंदराजोद्धवमेलनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP