श्रीगर्गसंहिता

मथुराखण्डः - त्रयोदशोऽध्यायः

व्रजे उद्धवागमनम् -


बहुलाश्व उवाच -
अग्रे चकार किं कार्यं मथुरायां यदूत्तमः ।
निवासयित्वा स्वज्ञातीन् वदैतन्मुनिसत्तम ॥ १ ॥
श्रीनारद उवाच -
परिपूर्णतमः साक्षाद्‌ भगवान् भक्तवत्सलः ।
सस्मार गोकुलं दीनं गोपगोपालसंकुलम् ॥ २ ॥
एकदाऽऽहूय रहसि सखायं भक्तमुद्धवम् ।
उवाच भगवान्देवः प्रेमगद्‌गदया गिरा ॥ ३ ॥
श्रीभगवानुवाच -
गच्छ शीघ्रं व्रजं हे सखे सुन्दरं
     श्रीलताकुंजपुंजादिभिर्मंडितम् ।
शैलकृष्णप्रभाचारुवृदावनं
     गोपगोपीगणैर्गोकुलं संकुलम् ॥ ४ ॥
एकपत्रं तु नंदाय वै दीयतां वा
     द्वितीयं यशोदाकरे चैव भोः ।
वा तृतीयं त्विदं राधिकायै सखे
     तत्र गत्वा हि तन्मंदिरं सुंदरम् ॥ ५ ॥
वा चतुर्थं सखिभ्यः शिशुभ्यः शुभं कौशलं
     दीयतां पत्रमेवं पृथक् भोः सखे ।
गोपिकानां शतेभ्यश्च यूथेभ्य
     उन्मोहितानां च देयानि पत्राणी च ॥ ६ ॥
मे पिता नंदराजो घृणी मन्मना मे च
     माता यशोदा स्मरत्याशु माम् ।
वाक्यवृन्दैः शुभैर्नीतिवित्वं तयोर्मे
     परां प्रीतिमाराद्‍द्वयोरावह ॥ ७ ॥
मत्प्रिया राधिका मद्वियोगातुरा
     मन्यते मां विना खं जगन्मोहतः ।
मद्वियोगाधिमस्या मदुक्तैः पदैर्मोचय
     त्वं भवान् दक्षिणो वाक्पथे ॥ ८ ॥
गोपबालाः सुदामादयो मत्प्रिया मां
     सखायं विना तेऽपि मोहातुराः ।
देहि तेषां सुखं मित्रवच्छ्रीव्रजे
     स्वल्पकालेन तत्रागमिष्याम्यहम् ॥ ९ ॥
गोपिका मद्वियोगाधिवेगातुरा
     मन्मनस्काश्च मत्प्राप्तदेहासवः ।
या मदर्थे च संत्यक्तलोकाबलास्ताः
     कथं नात्र मंत्रिन् बिभर्मि स्वतः ॥ १० ॥
ता असून् त्यक्तुमत्रोद्यता उद्धव
     याभिरद्यापि कृच्छ्रैर्धृताश्चासवः ।
मद्वियोगाधिमासां मदुक्तः पदैर्मोचय
     त्वं भवान्दक्षिणो वाक्पथे ॥ ११ ॥
येन पूर्वं व्रजादागतोऽहं सखे तं
     रथं साश्वसूतं रणद्घण्टिकं वै ।
मे च सारूप्यमद्यैव पीतांबरं
     वैजयंतीसहस्रच्छदं पंकजम् ॥ १२ ॥
कुण्डले दिव्यरत्‍नप्रभामंडिते
     कोटिबालार्कदीप्तं मणिं कौस्तुभम् ।
मे महानादिनीं चारुवंशीं शुभां
     पुष्पयुक्तां च यष्टिं जगन्मोहिनीम् ॥ १३ ॥
चंदनं सुंदरं दिव्यगंधावृतं
     बर्हमल्लादिवेषं क्वणन्नूपुरम् ।
मौलिमेवं गृहाणांगदे उद्धव
     गच्छ गच्छाशु चाद्यैव मद्वाक्यतः ॥ १४ ॥
श्रीनारद उवाच -
इत्युक्त उद्धवः शीघ्रं नमस्कृत्य कृतांजलिः ।
कृष्णं प्रदक्षिणीकृत्य रथारुढो व्रजं ययौ ॥ १५ ॥
कोटिशः कोटिशो गावो यत्र यत्र मनोहराः ।
श्वेतपर्वतसंकाशा दिव्यभूषणभूषिताः ॥ १६ ॥
पयस्विन्यस्तरुण्यश्च शीलरूपगुणैर्युताः ।
सवत्साः पीतपुच्छाश्च व्रजंत्यो भव्यमूर्तिकाः ॥ १७ ॥
घंटामंजीरझंकाराः किंकिणीजालमंडिताः ।
हेमतुल्या हेमशृङ्ग्यो हारमालाः स्फुरत्प्रभाः ॥ १८ ॥
पाटला हरितास्ताम्राः पीताः श्यामा विचित्रिताः ।
धूम्राः कोकिलवर्णाश्च यत्र गावस्त्वनेकधा ॥ १९ ॥
समुद्रवद्दुग्धदाश्च तरुणीकरचित्रिताः ।
कुरङ्गवद्विलङ्घद्‌भिर्गोवत्सैर्मंडिताः शुभाः ॥ २० ॥
इतस्ततश्चलंतश्च गोगणेषु महावृषाः ।
दीर्घकन्धरशृङ्गाढ्या यत्र धर्मधुरंधराः ॥ २१ ॥
गोपाला वेत्रहस्ताश्च श्यामवंशीधराः पराः ।
कृष्णलीलाः प्रगायंतो रागैर्मदनमोहनैः ॥ २२ ॥
दूरात्तमागतं वीक्ष्य ज्ञात्वा कृष्णं व्रजार्भकाः ।
उचुः परस्परं ते वै कृष्णदर्शनलालसाः ॥ २३ ॥
गोपा उचुः -
नंदसूनूः किलायाति सखा योऽयं न संशयः ।
मेघश्यामः पीतवासाः स्रग्वी कुण्डलमंडितः ॥ २४ ॥
कौस्तुभि कुंडली बिभ्रत्सत्सहस्रदलपंकजम् ।
तदेव मुकुटं बिभ्रत्कोटिमार्तंडसन्निभम् ॥ २५ ॥
त एवाश्वा रथः सोऽयं किंकिणीजालमंडितः ।
बलो नास्ति रथे चास्मिन्नेकाकी नंदनंदनः ॥ २६ ॥
श्रीनारद उवाच -
एवं वदंतो गोपालाः श्रीदामाद्या विदेहराट् ।
कृष्णाकृतिं कृष्णसखमाययुः सर्वतो रथम् ॥ २७ ॥
कृष्णो नास्तीति वदतः कोऽयं साक्षात्तदाकृतिः ।
तान्नमस्कृत्यौपगविः परिरभ्यावदत्पथि ॥ २८ ॥
उद्धव उवाच -
गृहाण पत्रं श्रीदामन् कृष्णदत्तं न संशयः ।
शोकं मा कुरु गोपालैः कुशल्यास्ते हरिः स्वयम् ॥ २९ ॥
यादवानां महत्कार्यं कृत्वाऽथ सबलः प्रभुः ।
ह्रस्वकालेन चात्रापि भगवानागमिष्यति ॥ ३० ॥
श्रीनारद उवाच -
पठित्वा तद्धस्तपत्रं श्रीदामाद्या व्रजार्भकाः ।
भृशमश्रूणि मुंचंतः प्राहुर्गद्‌गदया गिरा ॥ ३१ ॥
गोपा उचुः -
पांथेति निर्मोहिनि नंदसूनौ
     तनुर्विभूतिश्च धनं बलं च ।
सर्वा धियः कृष्णमृते व्रजे नः
     शून्यं प्रजातं हि जगत्समस्तम् ॥ ३२ ॥
क्षणो युगत्वं च घटी महामते
     प्रयाति मन्वन्तरतां व्रजौकसाम् ।
यामश्च कल्पं च दिनं विना हरिं
     वियोगदुःखैर्द्विपरार्धतां गतम् ॥ ३३ ॥
अहर्निशं तं न हि विस्मरामहे
     दुष्टा घटी सा प्रययौ यया हि सः ।
मनो हरन्नुद्धव नो वनौकसां
     वयस्यभावेन सदा कृतागसाम् ॥ ३४ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
उद्धवागमनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP