श्रीगर्गसंहिता

गिरिराजखण्ड - चतुर्थोऽध्यायः

सुरभिकृतं कृष्णाभिषेकम् -


श्रीनारद उवाच -
अथ देवगणैः सार्द्धं शक्रस्तत्र समागतः ।
गतमानो गिरौ कृष्णं रहसि प्रणनाम ह ॥ १ ॥
इन्द्र उवाच -
त्वं देवदेवः परमेश्वरः प्रभुः
     पूर्णः पुराणः पुरुषोत्तमोत्तमः ।
परात्परस्त्वं प्रकृतेः परो हरि-
     र्मां पाहि पाहि द्युपते जगत्पते ॥ २ ॥
दशावतारो भगवांस्त्वमेव
     रिरक्षया धर्मगवां श्रुतेश्च ।
अद्यैव जातः परिपूर्णदेवः
     कंसादि दैत्येन्द्रविनाशनाय ॥ ३ ॥
त्वन्मायया मोहितचित्तवृत्तिं
     मदोद्धतं हेलनभाजनं माम् ।
पितेव पुत्रं द्युपते क्षमस्व
     प्रसीद देवेश जगन्निवास ॥ ४ ॥
ॐनमो गोवर्धनोद्धरणाय गोविन्दाय गोकुलनिवासाय
गोपालाय गोपालपतये गोपीजनभर्त्रे गिरिगजोद्धर्त्रे
करुणानिधये जगद्विधये जगन्मङ्गलाय जगन्निवासाय
जगन्मोहनाय कोटिमन्मथमन्मथाय वृषभानुसुतावराय
श्रीनन्दराजकुलप्रदीपाय श्रीकृष्णाय परिपूर्णतमाय
तेऽसंख्यब्रह्माण्डपतये गोलोकधामधिषणाधिपतये
स्वयम्भगवते सबलाय नमस्ते नमस्ते ॥ ५ ॥
श्रीनारद उवाच -
इति शक्रकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ।
सर्वा सिद्धिर्भवेत्तस्य संकटान्न भयं भवेत् ॥ ६ ॥
इतिस्तुत्वा हरिं देवं सर्वैर्देवगणैः सह ।
कृताञ्जलिपुटो भूत्वा प्रणनाम पुरन्दरः ॥ ७ ॥
अथ गोवर्धने रम्ये सुरभिर्गौः समुद्रजा ।
स्नापयामास गोपेशं दुग्धधाराभिरात्मनः ॥ ८ ॥
शुंडादण्डैश्चतुर्भिश्च द्युगंगाजलपूरितैः ।
श्रीकृष्णं स्नापयामास मत्त ऐरावतो गजः ॥ ९ ॥
ऋषिभिः श्रुतिभिः सर्वैर्देवगन्धर्वकिन्नराः ।
तुष्टुवुस्ते हरिं राजन् हर्षिताः पुष्पवर्षिणः ॥ १० ॥
कृष्णाभिषेके संजाते गिरिर्गोवर्धनो महान् ।
द्रवीभूतोऽवहद्‌राजन् हर्षानन्दादितस्ततः ॥ ११ ॥
प्रसन्नो भगवांस्तस्मिन्कृतवान्हस्तपंकजम् ।
तद्धस्तचिह्नमद्यापि दृश्यते तद्‌गिरौ नृप ॥ १२ ॥
तत्तीर्थं च परं भूतं नराणां पापनाशनम् ।
तदेव पादचिह्नं स्यात्तत्तीर्थं विद्धि मैथिल ॥ १३ ॥
एतावत्तस्य तत्रैव पादचिह्नं बभूव ह ।
सुरभेः पादचिह्नानि बभूवुस्तत्र मैथिल ॥ १४ ॥
द्युगङ्गाजलपातेन कृष्णस्नानेन मैथिल ।
तत्र वै मानसी गङ्गा गिरौ जाताऽघनाशिनी ॥ १५ ॥
सुरभेर्दुग्धधाराभिर्गोविन्दस्नानतो नृप ।
जातो गोविन्दकुण्डोऽद्रौ महापापहरः परः ॥ १६ ॥
कदाचित्तस्मिन्दुग्धस्य स्वादुत्वं प्रतिपद्यते ।
तत्र स्नात्वा नरः साक्षाद्‌‌गोविन्दपदमाप्नुयात् ॥ १७ ॥
प्रदक्षिणीकृत्य हरिं प्रणम्य वै
     दत्त्वा बलींस्तत्र पुरन्दरादयः ।
जयध्वनिं कृत्य सुपुष्पवर्षिणो
     ययुः सुराः सौख्ययुतास्त्रिविष्टपम् ॥ १८ ॥
कृष्णाभिषेकस्य कथां शृणोति यो
     दशाश्वमेधावभृथाधिकं फलम् ।
प्राप्नोति राजेन्द्र स एव भूयसः
     परं पदं याति परस्य वेधसः ॥ १९ ॥

इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे
श्रीकृष्णाभिषेको नाम चतुर्थोऽध्यायः ॥ ४ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP