श्रीगर्गसंहिता

गोलोकखण्डम् - सप्तदशोऽध्यायः

दधिस्तेयवर्णनम् -


श्रीनारद उवाच -
अथ बालौ कृष्णरामौ गौरश्यामौ मनोहरौ ।
लीलया चक्रतुरलं सुंदरं नंदमंदिरम् ॥ १ ॥
रिंगमाणौ च जानुभ्यां पाणिभ्यां सह मैथिल ।
व्रजताल्पेन कालेन ब्रुवंतौ मधुरं व्रजे ॥ २ ॥
यशोदया च रोहिण्या लालितौ पोषितौ शिशू ।
कदा विनिर्गतावङ्कात्क्वचिदङ्कं समास्थितौ ॥ ३ ॥
मंजीरकिंकिणीरावं कुर्वंतौ तावितस्ततः ।
त्रिलोकीं मोहयंतौ द्वौ मायाबालकविग्रहौ ॥ ४ ॥
क्रीडन्तमादाय शिशुं यशोदा-
     जिरे लुठंतं व्रजबालकैश्च ।
तद्‌धूलिलेपावृतधूसरांगं
     चक्रे ह्यलं प्रोक्षणमादरेण ॥ ५ ॥
जानुद्वयाभ्यां च समं कराभ्यां
     पुनर्व्रजन्प्रांगणमेत्य कृष्णः ।
मात्रंकदेशे पुनराव्रजन्सन्
     बभौ व्रजे केसरिबाललीलः ।
तं सर्वतो हैमनचित्रयुक्तं
     पीतांबरं कंचुकमादधानम् ।
स्फुरत्प्रभं रत्‍नमयं च मौलिं
     दृष्ट्वा सुतं प्राप मुदं यशोदा ॥ ७ ॥
बालं मुकुंदमतिसुंदरबालकेलिं
     दृष्ट्वा परं मुदमवापुरतीव गोप्यः ।
श्रीनंदराजव्रजमेत्य गृहं विहाय
     सर्वास्तु विस्मृतगृहाः सुखविग्रहास्ताः ॥ ८ ॥
श्रीनंदराजगृहकृत्रिमसिंहरूपं
     दृष्ट्वा व्रजन्प्रतिरवन्नृप भीरुवद्यः ।
नीत्वा च तं निजसुतं गृहमाव्रजंतीं
     गोप्यो व्रजे सघृणया ह्यवदन् यशोदाम् ॥ ९ ॥
गोप्य ऊचुः -
क्रीडार्थं चपलं ह्येनं मा बहिः कारयांगणात् ।
बालकेलिं दुग्धमुखं काकपक्षधरं शुभे ॥ १० ॥
ऊर्ध्वदंतद्वयं जातं पूर्वं मातुलदोषदम् ।
अस्यापि मातुलो नास्ति ते सुतस्य यशोमति ॥ ११ ॥
तस्माद्दानं तु कर्तव्यं विघ्नानां नाशहेतवे ।
गोविप्रसुरसाधूनां छंदसां पूजनं तथा ॥ १२ ॥
श्रीनारद उवाच -
तदा यशोदारोहिण्यौ सुतकल्याणहेतवे ।
वस्त्ररत्‍ननवान्नानां दानं नित्यं च चक्रतुः ॥ १३ ॥
अथ व्रजे रामकृष्णौ बालसिंहावलोकनौ ।
पद्‌भ्यां चलंतौ घोषेषु वर्धमानौ बभूवतुः ॥ १४ ॥
श्रीदामसुबलाद्यैश्च वयस्यैर्व्रजबालकैः ।
यमुनासिकते शुभ्रे लुठंतौ सकुतूहलौ ॥ १५ ॥
कालिंद्युपवने श्यामैस्तमालैः सघनैर्वृते ।
कदंबकुंजशोभाढ्ये चेरतू रामकेशवौ ॥ १६ ॥
जनयन् गोपगोपीनामानन्दं बाललीलया ।
वयस्यैश्चोरयामास नवनीतं घृतं हरिः ॥ १७ ॥
एकदा ह्युपनंदस्य पत्‍नी नाम्ना प्रभावती ।
श्रीनन्दमन्दिरं प्राप्ता यशोदां प्राह गोपिका ॥ १८ ॥
प्रभावत्युवाच -
नवनीतं घृतं दुग्धं दधि तक्रं यशोमति ।
आवयोर्भेदरहितः त्वत्प्रसादाच्च मेऽभवत् ॥ १९ ॥
नाहं वदामि चानेन स्तेयं कुत्रापि शिक्षितम् ।
शिक्षां करोषि न सुते नवनीतमुषि स्वतः ॥ २० ॥
यदा मया कृता शिक्षा तदा धृष्टस्तवांगजः ।
गालिप्रदानं दत्त्वायं द्रवति प्रांगणान्मम ॥ २१ ॥
व्रजाधीशस्य पुत्रोऽयं भूत्वा स्तेयं समाचरेत् ।
न मया कथितं किंचिद्‌यशोदे तव गौरवात् ॥ २२ ॥
श्रीनारद उवाच -
श्रुत्वा प्रभावतीवाक्यं यशोदा नंदगेहिनी ।
बालं निर्भर्त्स्य तामाह साम्ना प्रेमपरायणा ॥ २३ ॥
श्रीयशोदा उवाच -
गवां कोटिर्गृहे मेऽस्ति गोरसैरार्द्रिताचला ।
न जाने दधिमुड् बालो नात्ति सोऽत्र कदाचन ॥ २४ ॥
अनेन मुषितं गव्यं तत्समं त्वं गृहाण मे ।
ते शिशौ मे शिशौ भेदो नास्ति किंचित्प्रभावति ॥ २५ ॥
नवनीतमुखं चैनमत्र त्वं ह्यानयिष्यसि ।
तदा शिक्षां करिष्यामि भर्त्सनं बंधनं तथा ॥ २६ ॥
श्रीनारद उवाच -
श्रुत्वा वाक्यं तदा गोपी प्रसन्ना गृहमागता ।
एकदा दधिचौर्यार्थं कृष्णस्तस्या गृहं गतः ॥ २७ ॥
वयस्यैर्बालकैः सार्द्धं पार्श्वकुड्ये गृहस्य च ।
हस्ताद्धस्तं संगृहीत्वा शनैः कृष्णो विवेश ह ॥ २८ ॥
शिक्यस्थं गोरसं दृष्ट्वा हस्ताग्राह्यं हरिः स्वयम् ।
उलूखले पीठके च गोपान्स्थाप्यारुरोह तम् ॥ २९ ॥
तदपि प्रांशुना लभ्यं गोरसं शिक्यसंस्थितम् ।
श्रीदाम्ना सुबलेनापि दंडेनापि तताड च ॥ ३० ॥
भग्नभाण्डात्सर्वगव्यं बृहद्‌भूमौ मनोहरम् ।
जगास सबलो मर्कैर्बालकैः सह माधवः ॥ ३१ ॥
भग्नभांडस्वनं श्रुत्वा प्राप्ता गोपी प्रभावती ।
पलायितेषु बालेषु जग्राह श्रीकरं हरेः ॥ ३२ ॥
नीत्वा मृषाश्रुं भीरुं च गच्छन्ती नन्दमंदिरम् ।
अग्रे नन्दं स्थितं दृष्ट्वा मुखे वस्त्रं चकार ह ॥ ३३ ॥
हरिर्विचिंतयन्नित्थं माता दंडं प्रदास्यति ।
दधार तद्‌बालरूपं स्वच्छन्दगतिरीश्वरः ॥ २४ ॥
सा यशोदां समेत्याशु प्राह गोपी रुषान्विता ।
भांडं भग्नीकृतं सर्वं मुषितं दध्यनेन वै ॥ ३५ ॥
यशोदा तत्सुतं वीक्ष्य हसंती प्राह गोपिकाम् ।
वस्त्रांतं च मुखाद्‌गोपी दूरीकृत्य वदांहसः ॥ ३६ ॥
अपवादो यदा देयो निर्वासं कुरु मे परात् ।
युष्मत्पुत्रकृतं चौर्यमस्मत्पुत्रकृतं भवेत् ॥ ३७ ॥
जनलज्जासमायुक्ता दूरीकृत्य मुखांबरम् ।
सापि प्राह निजं बालं वीक्ष्य विस्मितमानसा ॥ ३८ ॥
निष्पदस्त्वं कुतः प्राप्तो व्रजसारोऽस्ति मे करे ।
वदन्तीत्थं च तं नीत्वा निर्गता नन्दमंदिरात् ॥ ३९ ॥
यशोदा रोहिणी नंदो रामो गोपाश्च गोपिकाः ।
जहसुः कथयंतस्ते दृष्टोऽन्यायो व्रजे महान् ॥ ४० ॥
भगवांस्तु बहिर्वीथ्यां भूत्वा श्रीनन्दनन्दनः ।
प्रहसन् गोपिकां प्राह धृष्टांगश्चंचलेक्षणः ॥ ४१ ॥
श्रीभगवान् उवाच -
पुनर्मां यदि गृह्णासि कदाचित्त्वं हि गोपिके ।
ते भर्तृरूपस्तु तदा भविष्यामि न संशयः ॥ ४२ ॥
श्रीनारद उवाच -
श्रुत्वा सा विस्मिता गोपी गता गेहेऽथ मैथिल ।
तदा सर्वगृहे गोप्यो न गृह्णन्ति हरिं ह्रिया ॥ ४३ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
दधिस्तेयवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP