श्रीगर्ग संहिता - गोलोकखण्डम् - षोडशोऽध्यायः

श्रीगर्गसंहिता

गोलोकखण्डम् - षोडशोऽध्यायः

श्रीकृष्ण-राधिका विवाहवर्णनम् -


श्रीनारद उवाच -
गाश्चारयन् नन्दनमङ्कदेशे
     संलालयन् दूरतमं सकाशात् ।
कलिंदजातीरसमीरकंपितं
     नंदोऽपि भांडीरवनं जगाम ॥ १ ॥
कृष्णेच्छया वेगतरोऽथ वातो
     घनैरभून्मेदुरमंबरं च ।
तमालनीपद्रुमपल्लवैश्च
     पतद्‌भिरेजद्‍‌भिरतीव भाः कौ ॥ २ ॥
तदांधकारे महति प्रजाते
     बाले रुदत्यंकगतेऽतिभीते ।
नंदो भयं प्राप शिशुं स बिभ्र-
     द्धरिं परेशं शरणं जगाम ॥ ३ ॥
तदैव कोट्यर्कसमूहदीप्ति-
     रागच्छतीवाचलती दिशासु ।
बभूव तस्यां वृषभानुपुत्रीं
     ददर्श राधां नवनंदराजः ॥ ४ ॥
कोटींदुबिंबद्युतिमादधानां
     नीलांबरां सुंदरमादिवर्णाम् ।
मंजीरधीरध्वनिनूपुराणा-
     माबिभ्रतीं शब्दमतीव मंजुम् ॥ ५ ॥
कांचीकलाकंकणशब्दमिश्रां
     हारांगुलीयांगदविस्फुरंतीम् ।
श्रीनासिकामौक्तिकहंसिकीभिः
     श्रीकंठचूडामणिकुंडलाढ्याम् ॥ ६ ॥
तत्तेजसा धर्षित आशु नंदो
     नत्वाथ तामाह कृतांजलिः सन् ।
अयं तु साक्षात्पुरुषोत्तमस्त्वं
     प्रियास्य मुख्यासि सदैव राधे ॥ ७ ॥
गुप्तं त्विदं गर्गमुखेन वेद्मि
     गृहाण राधे निजनाथमंकात् ।
एनं गृहं प्रापय मेघभीतं
     वदामि चेत्थं प्रकृतेर्गुणाढ्यम् ॥ ८ ॥
नमामि तुभ्यं भुवि रक्ष मां त्वं
     यथेप्सितं सर्वजनैर्दुरापम् ।
श्रीराधोवाव -
अहं प्रसन्ना तव भक्तिभवा-
     न्मद्दर्शनं दुर्लभमेव नंद ॥ ९ ॥
श्रीनंद उवाच -
यदि प्रसन्नासि तदा भवेन्मे
     भक्तिर्दृढा कौ युवयोः पदाब्जे ।
सतां च भक्तिस्तव भक्तिभाजां
     संगः सदा मेऽथ युगे युगे च ॥ १० ॥
श्रीनारद उवाच -
तथास्तु चोक्त्वाथ हरिं कराभ्यां
     जग्राह राधा निजनाथमंकात् ।
गतेऽथ नंदे प्रणते व्रजेशे
     तदा हि भांडीरवनं जगाम ॥ ११ ॥
गोलोकलोकाच्च पुरा समागता
     भूमिर्निजं स्वं वपुरादधाना ।
या पद्मरागादिखचित्सुवर्णा
     बभूव सा तत्क्षणमेव सर्वा ॥ १२ ॥
वृंदावनं दिव्यवपुर्दधानं
     वृक्षैर्वरैः कामदुघैः सहैव ।
कलिंदपुत्री च सुवर्णसौधैः
     श्रीरत्‍नसोपानमयी बभूव ॥ १३ ॥
गोवर्धनो रत्‍नशिलामयोऽभू-
     त्सुवर्णशृङ्गैः परितः स्फुरद्‌भिः ।
मत्तालिभिर्निर्झरसुंदरीभि-
     र्दरीभिरुच्चांगकरीव राजन् ॥ १४ ॥
तदा निकुंजोऽपि निजं वपुर्दध-
     त्सभायुतं प्रांगणदिव्यमंडपम् ।
वसंतमाधुर्यधरं मधुव्रतै-
     र्मयूरपारावतकोकिलध्वनिम् ॥ १५ ॥
सुवर्णरत्‍नादिखचित्पटैर्वृतं
     पतत्पताकावलिभिर्विराजितम् ।
सरः स्फुरद्‌भिर्भ्रमरावलीढितै-
     र्विचर्चितं कांचनचारुपंकजैः ॥ १६ ॥
तदैव साक्षात्पुरुषोत्तमोत्तमो
     बभूव कैशोरवपुर्घनप्रभः ।
पीतांबरः कौस्तुभरत्‍नभूषणो
     वंशीधरो मन्मथराशिमोहनः ॥ १७ ॥
भुजेन संगृह्य हसन्प्रियां हरि-
     र्जगाम मध्ये सुविवाहमंडपम् ।
विवाहसंभारयुतः समेखलं
     सदर्भमृद्‌वारिघटादिमंडितम् ॥ १८ ॥
तत्रैव सिंहासन उद्‌गते वरे
     परस्परं संमिलितौ विरेजतुः ।
परं ब्रुवंतौ मधुरं च दंपती
     स्फुरत्प्रभौ खे च तडिद्‌घनाविव ॥ १९ ॥
तदांबराद्‌देववरो विधिः प्रभुः
     समागतस्तस्य परस्य संमुखे ।
नत्वा तदंघ्री ह्युशती गिराभिः
     कृताञ्जलिश्चारु चतुर्मुखो जगौ ॥ २० ॥
श्रीब्रह्मोवाच -
अनादिमाद्यं पुरुषोत्तमोत्तमं
     श्रीकृष्णचन्द्रं निजभक्तवत्सलम् ।
स्वयं त्वसंख्यांडपतिं परात्परं
     राधापतिं त्वां शरणं व्रजाम्यहम् ॥ २१ ॥
गोलोकनाथस्त्वमतीव लीलो
     लीलावतीयं निजलोकलीला ।
वैकुंठनाथोऽसि यदा त्वमेव
     लक्ष्मीस्तदेयं वृषभानुजा हि ॥ २२ ॥
त्वं रामचंद्रो जनकात्मजेयं
     भूमौ हरिस्त्वं कमलालयेयम् ।
यज्ञावतारोऽसि यदा तदेयं
     श्रीदक्षिणा स्त्री प्रतिपत्‍निमुख्या ॥ २३ ॥
त्वं नारसिंहोऽसि रमा तदेयं
     नारायणस्त्वं च नरेण युक्तः ।
तदा त्वियं शांतिरतीव साक्षा-
     च्छायेव याता च तवानुरूपा ॥ २४ ॥
त्वं ब्रह्म चेयं प्रकृतिस्तटस्था
     कालो यदेमां च विदुः प्रधानाम् ।
महान्यदा त्वं जगदंकुरोऽसि
     राधा तदेयं सगुणा च माया ॥ २५ ॥
यदांतरात्मा विदितश्चतुर्भि-
     स्तदा त्वियं लक्षणरूपवृत्तिः ।
यदा विराड्‍देहधरस्त्वमेव
     तदाखिलं वा भुवि धारणेयम् ॥ २६ ॥
श्यामं च गौरं विदितं द्विधा मह-
     स्तवैव साक्षात्पुरुषोत्तमोत्तम ।
गोलोकधामाधिपतिं परेशं
     परात्परं त्वां शरणं व्रजाम्यहम् ॥ २७ ॥
सदा पठेद्यो युगलस्तवं परं
     गोलोकधामप्रवरं प्रयाति सः ।
इहैव सौंदर्यसमृद्धिसिद्धयो
     भवंति तस्यापि निसर्गतः पुनः ॥ २८ ॥
यदा युवां प्रीतियुतौ च दंपती
     परात्परौ तावनुरूपरूपितौ ।
तथापि लोकव्यवहारसङ्ग्रहा-
     द्विधिं विवाहस्य तु कारयाम्यहम् ॥ २९ ॥
श्रीनारद उवाच -
तदा स उत्थाय विधिर्हुताशनं
     प्रज्वाल्य कुंडे स्थितयोस्तयोः पुरः ।
श्रुतेः करग्राहविधिं विधानतो
     विधाय धाता समवस्थितोऽभवत् ॥ ३० ॥
स वाहयामास हरिं च राधिकां
     प्रदक्षिणं सप्तहिरण्यरेतसः ।
ततश्च तौ तं प्रणमय्य वेदवि-
     त्तौ पाठयामास च सप्तमंत्रकम् ॥ ३१ ॥
ततो हरेर्वक्षसि राधिकायाः
     करं च संस्थाप्य हरेः करं पुनः ।
श्रीराधिकायाः किल पृष्ठदेशके
     संस्थाप्य मंत्रांश्च विधिः प्रपाठयन् ॥ ३२ ॥
राधा कराभ्यां प्रददौ च मालिकां
     किंजल्किनीं कृष्णगलेऽलिनादिनीम् ।
हरेः कराभ्यां वृषभानुजा गले ।
     ततश्च वह्निं प्रणमय्य वेदवित् ॥ ३३ ॥
संवासयामास सुपीठयोश्च तौ
     कृतांजली मौनयुतौ पितामहः ।
तौ पाठयामास तु पंचमंत्रकं
     समर्प्य राधां च पितेव कन्यकाम् ॥ ३४ ॥
पुष्पाणि देवा ववृषुस्तदा नृप
     विद्याधरीभिर्ननृतुः सुरांगनाः ।
गंधर्वविद्याधरचारणाः कलं
     सकिन्नराः कृष्णसुमंगलं जगुः ॥ ३५ ॥
मृदंगवीणामुरुयष्टिवेणवः
     शंखानका दुंदुभयः सतालकाः ।
नेदुर्मुहुर्देववरैर्दिवि स्थितै-
     र्जयेत्यभून्मङ्गलशब्दमुच्चकैः ॥ ३६ ॥
उवाच तत्रैव विधिं हरिः स्वयं
     यथेप्सितं त्वं वद विप्र दक्षिणाम् ।
तदा हरिं प्राह विधिः प्रभो मे
     देहि त्वदंघ्र्योर्निजभक्तिदक्षिणाम् ॥ ३७ ॥
तथास्तु वाक्यं वदतो विधिर्हरेः
     श्रीराधिकायाश्च पदद्वयं शुभम् ।
नत्वा कराभ्यां शिरसा पुनः पुन-
     र्जगाम गेहं प्रणतः प्रहर्षितः ॥ ३८ ॥
ततो निकुंजेषु चतुर्विधान्नं
     दिव्यं मनोज्ञं प्रियया प्रदत्तम् ।
जघास कृष्णः प्रहसन्परात्मा
     कृष्णेन दत्तं क्रमुकं च राधा ॥ ३९ ॥
ततः करेणापि करं प्रियाया
     हरिर्गृहीत्वा प्रचचाल कुंजे ।
जगाम जल्पन्मधुरं प्रपश्यन्
     वृंदावनं श्रीयमुनां लताश्च ॥ ४० ॥
श्रीमल्लताकुंजनिकुंजमध्ये
     निलीयमानं प्रहसंतमेव ।
विलोक्य शाखांतरितं च राधा
     जग्राह पीतांबरमाव्रजंती ॥ ४१ ॥
दुद्राव राधा हरिहस्तपद्मा
     झंकारमंघ्र्योः प्रतिकुर्वती कौ ।
निलीयमाना यमुनानिकुंजे
     पुनर्व्रजंती हरिहस्तमात्रात् ॥ ४२ ॥
यथा तमालः कलधौतवल्ल्या
     घनो यथा चंचलया चकास्ति ।
नीलोऽद्रिराजो निकषाश्मखन्या
     श्रीराधयाऽऽद्यस्तु तया रमण्या ॥ ४३ ॥
श्रीरासरंगे जनवर्जिते परे
     रेमे हरी रासरसेन राधया ।
वृंदावने भृङ्गमयूरकूज-
     ल्लते चरत्येव रतीश्वरः परः ॥ ४४ ॥
श्रीराधया कृष्णहरिः परात्मा
     ननर्त गोवर्द्धनकंदरासु ।
मत्तालिषु प्रस्रवणैः सरोभि-
     र्विराजितासु द्युतिमल्लतासु ॥ ४५ ॥
चकार कृष्णो यमुनां समेत्य
     वरं विहारं वृषभानुपुत्र्या ।
राधाकराल्लक्षदलं सपद्मं
     धावन्गृहीत्वा यमुनाजलेषु ॥ ४६ ॥
राधा हरेः पीतपटं च वंशीं
     वेत्रं गृहीत्वा सहसा हसंती ।
देहीति वंशीं वदतो हरेश्च
     जगाद राधा कमलं नु देहि ॥ ४७ ॥
तस्यै ददौ देववरोऽथ पद्मं
     राधा ददौ पीततटं च वंशीम् ।
वेत्रं च तस्मै हरये तयोः पुन-
     र्बभूव लीला यमुनातटेषु ॥ ४८ ॥
ततश्च भांडीरवने प्रियाया-
     श्चकार शृङ्गारमलं मनोज्ञम् ।
पत्रावलीयावककज्जलाद्यैः
     पुष्पैः सुरत्‍नैर्व्रजगोपरत्‍नः ॥ ४९ ॥
हरेश्च शृङ्गारमलं प्रकर्तुं
     समुद्यता तत्र यदा हि राधा ।
तदैव कृष्णस्तु बभूव बालो
     विहाय कैशोरवपुः स्वयं हि ॥ ५० ॥
नंदेन दत्तं शिशुमेव यादृशं
     भूमौ लुठंतं प्ररुदंतमाययौ ।
हरिं विलोक्याशु रुरोद राधिका
     तनोषि मायां नु कथं हरे मयि ॥ ५१ ॥
इत्थं रुदंतीं सहसा विषण्णा-
     माकाशवागाह तदैव राधाम् ।
शोचं नु राधे इह मा कुरु त्वं
     मनोरथस्ते भविया हि पश्चात् ॥ ५२ ॥
श्रुत्वाथ राधा हि हरिं गृहीत्वा
     गताऽऽशु गेहे व्रजराजपत्‍न्याः ।
दत्त्वा च बालं किल नंदपत्‍न्या
     उवाच दत्तः पथि ते च भर्त्रा ॥ ५३ ॥
उवाच राधां नृप नंदगेहिनी
     धन्याऽसि राधे वृषभानुकन्यके ।
त्वया शिशुर्मे परिरक्षितो भया-
     न्मेघावृते व्योम्नि भयातुरो वने ॥ ५४ ॥
संपूजिता श्लाघितसद्‌गुणा सा
     सुनंदिता श्रीवृषभानुपुत्री ।
तदा ह्यनुज्ञाप्य यशोमतीं सा
     शनैः स्वगेहं हि जगाम राधा ॥ ५५ ॥
इत्थं हरेर्गुप्तकथा च वर्णिता
     राधाविवाहस्य सुमंगलावृता ।
श्रुत्वा च यैर्वा पठिता च पाठिता
     तान्पापवृन्दा न कदा स्पृशंति ॥ ५६ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
श्रीराधिकाविवाहवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP