श्रीगर्ग संहिता - गोलोकखण्डम् - पञ्चदशोऽध्यायः

श्रीगर्गसंहिता

गोलोकखण्डम् - पञ्चदशोऽध्यायः

नंदपत्‍न्या विश्वरूपदर्शनं श्रीकृष्णनामकरणम् -


प्रेंखे हरिं कनकरत्‍नमये शयानं
     श्यामं शिशुं जनमनोहरमन्दहासम् ।
दृष्ट्यार्तिहारि मषिबिंदुधरं यशोदा
     स्वांके चकार धृतकज्जलपद्मनेत्रम् ॥ १ ॥
पादं पिबंतमतिचंचलमद्‌भुतांगं
     वक्त्रैर्विनीलनवकोमलकेशबंधैः ।
श्रीमन्नृकेशरिनखस्फुरदरर्द्धचन्द्रं
     तं लालयन्त्यतिघृणा मुदमाप गोपी ॥ २ ॥
बालस्य पीतपयसो नृप जृम्भितस्य
     तत्त्वानि चास्य वदने सकलेऽविराजन् ।
माता सुराधिपमुखैः प्रयुतं च सर्वं
     दृष्ट्वा परं भयमवाप निमीलिताक्षी ॥ ३ ॥
राजन्परस्य परिपूर्णतमस्य साक्षा-
     त्कृष्णस्य विश्वमखिलं कपटेन सा हि ।
नष्टस्मृतिः पुनरभूत्स्वसुते घृणार्ता
     किं वर्णयामि सुतपो बहु नंदपत्‍न्याः ॥ ४ ॥
श्रीबहुलाश्व उवाच -
नंदो यशोदया सार्द्धं किं चकार तपो महत् ।
येन श्रीकृष्णचन्द्रोऽपि पुत्रीभूतो बभूव ह ॥ ५ ॥
श्रीनारद उवाच -
अष्टानां वै वसूनां च द्रोणो मुख्यो धरापतिः ।
अनपत्यो विष्णुभक्तो देवराज्यं चकार ह ॥ ६ ॥
एकदा पुत्रकांक्षी च ब्रह्मणा नोदितो नृप ।
मंदराद्रिं गतस्तप्तुं धरया भार्यया सह ॥ ७ ॥
कंदमूलफलाहारौ ततः पर्णाशनौ ततः ।
जलभक्षौ ततस्तौ तु निर्जलौ निर्जने स्थितौ ॥ ८ ॥
वर्षाणामर्बुदे याते तपस्तत्तपतोर्द्वयोः ।
ब्रह्मा प्रसन्नस्तावेत्य वरं ब्रूहीत्युवाच ह ॥ ९ ॥
वल्मीकान्निर्गतो द्रोणो धरया भर्यया सह ।
नत्वा विधिं च संपूज्य हर्षितः प्राह तं प्रभुम् ॥ १० ॥
श्रीद्रोण उवाच -
परिपूर्णतमे कृष्णे पुत्रीभूते जनार्दने ।
भक्तिः स्यादावयोर्ब्रह्मन्सततं प्रेमलक्षणा ॥ ११ ॥
ययाञ्जसा तरंतीह दुस्तरं भवसागरम् ।
नान्यं वरं वांछितं स्यादावयोस्तपतोर्विधे ॥ १२ ॥
श्रीब्रह्मोवाच -
युवाभ्यं याचितं यन्मे दुर्घटं दुर्लभं वरम् ।
तथापि भूयात्सफलं युवयोरन्यजन्मनि ॥ १३ ॥
श्रीनारद उवाच -
द्रोणो नंदोऽभवद्‌भूमौ यशोदा सा धरा स्मृता ।
कृष्णो ब्रह्मवचः कर्तुं प्राप्तो घोषे पितुः पुरात् ॥ १४ ॥
सुधाखंडात्परं मिष्टं श्रीकृष्णचरितं शुभम् ।
गंधमादनशृङ्गे वै नारायणमुखाच्छ्रुतम् ॥ १५ ॥
कृपया च कृतार्थोऽहं नरनारायणस्य च ।
मया तुभ्यं च कथितं किं भूयः श्रोतुमिच्छसि ॥ १६ ॥
श्रीबहुलाश्व उवाच -
नंदगेहे हरिः साक्षाच्छिशुरूपः सनातनः ।
किं चकार बलेनापि तन्मे ब्रूहि महामुने ॥ १७ ॥
श्रीनारद उवाच -
एकदा शिष्यसहोतो गर्गाचार्यो महामुनिः ।
शौरिणा नोदितः साक्षादाययौ नंदमंदिरम् ॥ १८ ॥
नंदः संपूज्य विधिवत्पाद्याद्यैर्मुनिसत्तमम् ।
ततः प्रदक्षिणीकृत्य साष्टांगं प्रणनाम ह ॥ १९ ॥
श्रीनन्द उवाच -
अद्य नः पितरो देवाः संतुष्टा अग्नयश्च नः ।
पवित्रं मंदिरं जातं युष्मच्चरणरेणुभिः ॥ २० ॥
मत्पुत्रनामकरणं कुरु द्विज महामुने ।
पुण्यैस्तीर्थैश्च दुष्प्राप्यं भवदागमनं प्रभो ॥ २१ ॥
श्रीगर्ग उवाच -
ते पुत्रनामकरणं करिष्यामि न संशयः ।
पूर्ववार्तां गदिष्यामि गच्छ नंद रहःस्थलम् ॥ २२ ॥
श्रीनारद उवाच -
उत्थाप्य गर्गो नन्देन बालाभ्यां च यशोदया ।
एकांते गोव्रजे गत्वा तयोर्नाम चकार ह ।
संपूज्य गणनाथादीन् ग्रहान्संशोध्य यत्‍नतः ।
नंदं प्राह प्रसन्नांगो गर्गाचार्यो महामुनिः ॥ २४ ॥
रोहिणीनंदनस्यास्य नामोच्चारं शृणुष्व च ।
रमन्ते योगिनो ह्यस्मिन्सर्वत्र रमतीति वा ॥ २५ ॥
गुणैश्च रमयन् भक्ताण्स्तेन रामं विदुः परे ।
गर्भसंकर्षणादस्य संकर्षण इति स्मृतः ॥ २६ ॥
सर्वावशेषाद्यं शेषं बलाधिक्याद्‌बलं विदुः ।
स्वपुत्रस्यापि नामानि शृणु नंद ह्यतन्द्रितः ॥ २७ ॥
सद्यः प्राणिपवित्राणि जगतां मंगलानि च ।
ककारः कमलाकांत ऋकारो राम इत्यपि ॥ २८ ॥
षकारः षड्‍गुणपतिः श्वेतद्वीपनिवासकृत् ।
णकारो नारसिंहोऽयमकारो ह्यक्षरोऽग्निभुक् ॥ २९ ॥
विसर्गौ च तथा ह्येतौ नरनारायणावृषी ।
संप्रलीनाश्च षट् पूर्णा यस्मिञ्छुद्धे महात्मनि ॥ ३० ॥
परिपूर्णतमे साक्षात्तेन कृष्णः प्रकीर्तितः ।
शुक्लो रक्तस्तथा पीतो वर्णोऽस्यानुयुगं धृतः ॥ ३१ ॥
द्वापरान्ते कलेरादौ बालोऽयं कृष्णतां गतः ।
तस्मात्कृष्ण इति ख्यातो नाम्नायं नंदनंदनः ॥ ३२ ॥
वसवश्चेंद्रियाणीति तद्देवश्चित्तमेव हि ।
तस्मिन्यश्चेष्टते सोऽपि वासुदेव इति स्मृतः ॥ ३३ ॥
वृषभानुसुता राधा या जाता कीर्तिमंदिरे ।
तस्याः पतिरयं साक्षात्तेन राधापतिः स्मृतः ॥ ३४ ॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ।
असंख्यब्रह्माण्डपतिः गोलोके धाम्नि राजते ॥ ३५ ॥
सोऽयं तव शिशुर्जातो भारावतरणाय च ।
कंसादीनां वधार्थाय भक्तानां रक्षणाय च ॥ ३६ ॥
अनंतान्यस्य नामानि वेदगुह्यानि भारत ।
लीलाभिश्च भविष्यंति तत्कर्मसु न विस्मयः ॥ ३७ ॥
अहोभाग्यं तु ते नंद साक्षाच्छ्रीपुरुषोत्तमः ।
त्वद्‌गृहे वर्तमानोऽयं शिशुरूपः परात्परः ॥ ३८ ॥
इत्युक्त्वाथ गते गर्गे स्वात्मानं पूर्णमाशिषाम् ।
मेने प्रमुदितः पत्‍न्या नंदराजो महामतिः ॥ ३९ ॥
अर्थ गर्गो ज्ञानिवरो ज्ञानदो मुनिसत्तमः ।
कालिंदीतीरशोभाढ्यां वृषभानुपुरं गतः ॥ ४० ॥
छत्रेण शोभितं विप्रं द्वितीयमिव वासवम् ।
दंडेन राजितं साक्षाद्धर्मराजमिव स्थितम् ॥ ४१ ॥
तेजसा द्योतितदिशं साक्षात्सूर्यमिवापरम् ।
पुस्तकीमेखलायुक्तं द्वितीयमिव पद्मजम् ॥ ४२ ॥
शोभितं शुक्लवासोभिर्देवं विष्णुमिव स्थितम् ।
तं दृष्ट्वा मुनिशार्दूलं सहसोत्थाय सादरम् ॥ ४३ ॥
प्रणम्य शिरसा सद्यः संमुखोऽभूत् कृतांजलिः ।
मुनिं च पीठके स्थाप्य पाद्याद्यैरुपचारवित् ॥ ४४ ॥
पूजयामास विधिवच्छ्रीगर्गं ज्ञानिनां वरम् ।
ततः प्रदक्षिणीकृत्य वृषभानुवरो महान् ॥ ४५ ॥
श्रीवृषभानुरुवाच -
सतां पर्यटनं शांतं गृहिणां शांतये स्मृतम् ।
नृणामंतस्तमोहारी साधुरेव न भास्करः ॥ ४६ ॥
तीर्थीभूता वयं गोपा जातास्त्वद्दर्शनात्प्रभो ।
तीर्थानि तीर्थीकुर्वंति त्वादृशाः साधवः क्षितौ ॥ ४७ ॥
हे मुने राधिकानाम कन्या मे मंगलायना ।
कस्मै वराय दातव्या वद त्वं मे सुनिश्चितम् ॥ ४८ ॥
त्वं पर्यटन्नर्क इव त्रिलोकीं दिव्यदर्शनः ।
वरोऽनया समो यो वै तस्मै दास्यामि कन्यकाम् ॥ ४९ ॥
श्रीनारद उवाच -
हस्तं गृहीत्वा श्रीगर्गो वृषभानोर्महामुनिः ।
जगाम यमुनातीरं निर्जनं सुंदरस्थलम् ॥ ५० ॥
कालिन्दीजलकल्लोककोलाहलसमाकुलम् ।
तत्रोपवेश्य गोपेशं मुनींद्रः प्राह धर्मवित् ॥ ५१ ॥
श्रीगर्ग उवाच -
हे गोप गुप्तमाख्यानं कथनीयं न च त्वया ।
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥ ५२ ॥
असंख्यब्रह्मांडपतिर्गोलोकेशः परात्परः ।
तस्मात्परो वरो नास्ति जातो नंदगृहे पतिः ॥ ५३ ॥
श्रीवृषभानुरुवाच -
अहोभाग्यमहोभाग्यं नंदस्यापि महामुने ।
श्रीकृष्णस्यावतारस्य सर्वं त्वं वद कारणम् ॥ ५४ ॥
श्रीगर्ग उवाच -
भुवो भारावताराय कंसादीनां वधाय च ।
ब्रह्मणा प्राथितः कृष्णो बभूव जगतीतले ॥ ५५ ॥
श्रीकृष्णपट्टराज्ञी या गोलोके राधिकाभिधा ।
त्वद्‌गृहे सापि संजाता त्वं न जानासि तां पराम् ॥ ५६ ॥
श्रीनारद उवाच -
तदा प्रहर्षितो गोपो वृषभानुः सुविस्मितः ।
कलावतीं समाहूय तया सार्द्धं विचार्य च ॥ ५७ ॥
राधाकृष्णानुभावं च ज्ञात्वा गोपवरः परः ।
आनंदाश्रुकलां मुंचन्पुनराह महामुनिम् ॥ ५८ ॥
श्रीवृषभानुरुवाच -
तस्मै दास्यामि हे ब्रह्मन् कन्यां कमललोचनाम् ।
त्वया पंथा दर्शितो मे त्वया कार्योऽयमुद्वहः ॥ ५९ ॥
श्रीगर्ग उवाच -
अहं न कारयिष्यामि विवाहमनयोर्नृप ।
तयोर्विवाहो भविता भांडीरे यमुनातटे ॥ ६० ॥
वृंदावनसमीपे च निर्जने सुंदरस्थले ।
परमेष्ठी समागत्य विवाहं कारयिष्यति ॥ ६१ ॥
तस्माद्‌राधां गोपवर विद्ध्यर्धांगीं वरस्य च ।
लोके चूडामणिः साक्षाद्‌राज्ञीं गोलोकमंदिरे ॥ ६२ ॥
यूयं सर्वेऽपि गोपाला गोलोकादागता भुवि ।
तथा गोपीगणा गोपा गोलोके राधिकेच्छया ॥ ६३ ॥
यद्दर्शनं दुर्लभमेव दुर्घटं
     देवैश्च यज्ञैर्न च जन्मभिः किमु ।
सविग्रहां तां तव मंदिराजिरे
     लक्ष्यंति गुप्तां बहुगोपगोपिकाः ॥ ६४ ॥
श्रीनारद उवाच -
तदा च विस्मितौ राजन् दंपती हर्षितौ परम् ।
राधाकृष्णप्रभावं च श्रुत्वा श्रीगर्गमूचतुः ॥ ६५ ॥
दंपती ऊचतुः -
राधाशब्दस्य हे ब्रह्मन् व्याख्यानं वद तत्त्वतः ।
त्वत्तो न संशयच्छेत्ता कोऽपि भूमौ महामुने ॥ ६६ ॥
श्रीगर्ग उवाच -
सामवेदस्य भावार्थं गंधमादनपर्वते ।
शिष्येणापि मया तत्र नारायणमुखाच्छ्रुतम् ॥ ६७ ॥
रमया तु रकारः स्यादाकारस्त्वादिगोपिका ।
धकारो धरया हि स्यादाकारो विरजा नदी ॥ ६८ ॥
श्रीकृष्णस्य परस्यापि चतुर्द्धा तेजसोऽभवत् ।
लीलाभूः श्रीश्च विरजा चतस्रः पत्‍न्य एव हि ॥ ६९ ॥
संप्रलीनाश्च ताः सर्वा राधायां कुंजमंदिरे ।
परिपूर्णतमां राधां तस्मादाहुर्मनिषिणः ॥ ७० ॥
श्रीनारद उवाच -
राधाकृष्णेति हे गोप ये जपंति पुनः पुनः ।
चतुष्पदार्थं किं तेषां साक्षात्कृष्णोऽपि लभ्यते ॥ ७१ ॥
तदातिविस्मितो राजन् वृषभानुः प्रियायुतः ।
राधाकृष्णप्रभावं तं ज्ञात्वाऽऽनंदमयो ह्यभूत् ॥ ७२ ॥
इत्थं गर्गो ज्ञानिवरः पूजितो वृषभानुना ।
जगाम स्वगृहं साक्षान्मुनीन्द्रः सर्ववित्कविः ॥ ७३ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
नंदपत्‍न्याः विश्वरूपदर्शनं श्रीकृष्णनामकरणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP