श्रीमद्‌देवीभागवत महापुराण
पञ्चमः स्कन्धः
त्रयस्त्रिंशोऽध्यायः


देवीमाहात्म्यवर्णनम्

राजोवाव
मुने वैश्योऽयमधुना वने मे मित्रतां गतः ।
पुत्रदारैर्निरस्तोऽयं प्राप्तोऽत्र मम सङ्गमम् ॥ १ ॥
(कुटुम्बविरहेणासौ दुःखितोऽतीव दुर्मनाः ।
न शान्तिमुपयात्येष तथापि मम साम्प्रतम् ।
गतराज्यस्य दुःखेन शोकार्तोऽस्मि महामते ।)
निष्कारणञ्च मे चिन्ता हृदयान्न निवर्तते ।
हया मे दुर्बलाः स्युः किं गजाः शत्रुवशं गताः ॥ २ ॥
भृत्यवर्गस्तथा दुःखी जातः स्यात्तु मया विना ।
कोशक्षयं करिष्यन्ति रिपवोऽतिबलात्क्षणात् ॥ ३ ॥
इत्येवं चिन्तयानस्य न मे निद्रा तनौ सुखम् ।
जानामीदं जगन्मिथ्या स्वप्नवत्सर्वमेव हि ॥ ४ ॥
जानतोऽपि मनो भ्रान्तं न स्थिरं भवति प्रभो ।
कोऽहं केऽश्वा गजाः केऽमी न ते मे च सहोदराः ॥ ५ ॥
न पुत्रा न च मित्राणि येषां दुःखं दुनोति माम् ।
भ्रमोऽयमिति जानामि तथापि मम मानसः ॥ ६ ॥
मोहो नैवापसरति किं तत्कारणमद्‌भुतम् ।
स्वामिंस्त्वमसि सर्वज्ञः सर्वसंशयनाशकृत् ॥ ७ ॥
कारणं ब्रूहि मोहस्य ममास्य च दयानिधे ।
व्यास उवाच
इति पृष्टस्तदा राज्ञा सुमेधा मुनिसत्तमः ॥ ८ ॥
तमुवाच परं ज्ञानं शोकमोहविनाशनम् ।
ऋषिरुवाच
शृणु राजन् प्रवक्ष्यामि कारणं बन्धमोक्षयोः ॥ ९ ॥
महामायेति विख्याता सर्वेषां प्राणिनामिह ।
ब्रह्मा विष्णुस्तथेशानस्तुराषाड् वरुणोऽनिलः ॥ १० ॥
सर्वे देवा मनुष्याश्च गन्धर्वोरगराक्षसाः ।
वृक्षाश्च विविधा वल्ल्यः पशवो मृगपक्षिणः ॥ ११ ॥
मायाधीनाश्च ते सर्वे भाजनं बन्धमोक्षयोः ।
तया सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १२ ॥
तद्वशे वर्तते नूनं मोहजालेन यन्त्रितम् ।
त्वं कियान्मानुषेष्वेकः क्षत्रियो रजसाविलः ॥ १३ ॥
ज्ञानिनामपि चेतांसि मोहयत्यनिशं हि सा ।
ब्रह्मेशवासुदेवाद्या ज्ञाने सत्यपि शेषतः ॥ १४ ॥
तेऽपि रागवशाल्लोके भ्रमन्ति परिमोहिताः ।
पुरा सत्ययुगे राजन् विष्णुर्नारायणः स्वयम् ॥ १५ ॥
श्वेतद्वीपं समासाद्य चकार विपुलं तपः ।
वर्षाणामयुतं यावद्‌ ब्रह्मविद्याप्रसक्तये ॥ १६ ॥
अनश्वरसुखायासौ चिन्तयानस्ततः परम् ।
एकस्मिन्निर्जने देशे ब्रह्मापि परमाद्‌भुते ॥ १७ ॥
स्थितस्तपसि राजेन्द्र मोहस्य विनिवृत्तये ।
कदाचिद्वासुदेवोऽसौ स्थलान्तरमतिर्हरिः ॥ १८ ॥
तस्माद्देशात्समुत्थाय जगामान्यद्दिदृक्षया ।
चतुर्मुखोऽपि राजेन्द्र तथैव निःसृतः स्थलात् ॥ १९ ॥
मिलितौ मार्गमध्ये तु चतुर्मुखचतुर्भुजौ ।
अन्योन्यं पृष्टवन्तौ तौ कस्त्वं कस्त्वमिति स्म ह ॥ २० ॥
ब्रह्मा प्रोवाच तं देवं कर्ताहं जगतः किल ।
विष्णस्तमाह भो मूर्ख जगत्कर्ताहमच्युतः ॥ २१ ॥
त्वं कियान्बलहीनोऽसि रजोगुणसमाश्रितः ।
सत्त्वाश्रितं हि मां विद्धि वासुदेवं सनातनम् ॥ २२ ॥
मया त्वं रक्षितोऽद्यैव कृत्वा युद्धं सुदारुणम् ।
शरणं मे समायातो दानवाभ्यां प्रपीडितः ॥ २३ ॥
मया तौ निहतौ कामं दानवौ मधुकैटभौ ।
कथं गर्वायसे मन्द मोहोऽयं त्यज साम्प्रतम् ॥ २४ ॥
न मत्तोऽप्यधिकः कश्चित्संसारेऽस्मिन्प्रसारिते ।
ऋषिरुवाच
एवं प्रवदमानौ तौ ब्रह्मविष्णू परस्परम् ॥ २५ ॥
स्फुरदोष्ठौ वेपमानौ लोहिताक्षौ बभूवतुः ।
प्रादुर्बभूव सहसा तयोर्विवदमानयोः ॥ २६ ॥
मध्ये लिङ्गं सुधाश्वेतं विपुलं दीर्घमद्‌भुतम् ।
आकाशे तरसा तत्र वागुवाचाशरीरिणी ॥ २७ ॥
तौ सम्बोध्य महाभागौ विवदन्तौ परस्परम् ।
ब्रह्मन् विष्णो विवादं मा कुरुतां वां परस्परम् ॥ २८ ॥
लिङ्गस्यास्य परं पारमधस्तादुपरि धुवम् ।
यो याति युवयोर्मध्ये स श्रेष्ठो वां सदैव हि ॥ २९ ॥
एकः प्रयातु पातालमाकाशमपरोऽधुना ।
प्रमाणं मे वचः कार्यं त्यक्त्वा वादं निरर्थकम् ॥ ३० ॥
मध्यस्थः सर्वदा कार्यो विवादेऽस्मिन्द्वयोरिह ।
ऋषिरुवाच
तच्छ्रुत्वा वचनं दिव्यं सज्जीभूतौ कृतोद्यमौ ॥ ३१ ॥
जग्मतुर्मातुमग्रस्थं लिङ्गमद्‌भुतदर्शनम् ।
पातालमगमद्विष्णुर्ब्रह्माप्याकाशमेव च ॥ ३२ ॥
परिमातुं महालिङ्गं स्वमहत्त्वविवृद्धये ।
विष्णुर्गत्वा कियद्देशं श्रान्तः सर्वात्मना यतः ॥ ३३ ॥
न प्रापान्तं स लिङ्गस्य परिवृत्य ययौ स्थलम् ।
ब्रह्मागच्छत्ततश्चोर्ध्वं पतितं केतकीदलम् ॥ ३४ ॥
शिवस्य मस्तकात्प्राप्य परावृत्तो मुदावृतः ।
आगत्य तरसा ब्रह्मा विष्णवे केतकीदलम् ॥ ३५ ॥
दर्शयित्वा च वितथमुवाच मदमोहितः ।
लिङ्गस्य मस्तकादेतद्‌ गृहीतं केतकीदलम् ॥ ३६ ॥
अभिज्ञानाय चानीतं तव चित्तप्रशान्तये ।
श्रुत्वा तद्‌ब्रह्मणोवाक्यं दृष्ट्वा च केतकीदलम् ॥ ३७ ॥
हरिस्तं प्रत्युवाचेदं साक्षी कः कथयाधुना ।
यथार्थवादी मेधावी सदाचारः शुचि समः ॥ ३८ ॥
साक्षी भवति सर्वत्र विवादे समुपस्थिते ।
ब्रह्मोवाच
दूरदेशात्समायाति साक्षी कः समयेऽधुना ॥ ३९ ॥
यत्सत्यं तद्वचः सेयं केतकी कथयिष्यति ।
इत्युक्त्वा प्रेरिता तत्र ब्रह्मणा केतकी स्फुटम् ॥ ४० ॥
वचनं प्राह तरसा शार्ङ्‌गिणं प्रत्यबोधयत् ।
शिवमूर्ध्नि स्थितां ब्रह्मा गहीत्वा मां समागतः ॥ ४१ ॥
सन्देहोऽत्र न कर्तव्यस्त्वया विष्णो कदाचन ।
मम वाक्यं प्रमाणं हि ब्रह्मा पारङ्गतोऽस्य ह ॥ ४२ ॥
गृहीत्वा मां समायातः शिवभक्तैः समर्पिताम् ।
केतक्या वचनं श्रुत्वा हरिराह स्मयन्निव ॥ ४३ ॥
महादेवः प्रमाणं मे यद्यसौ वचनं वदेत् ।
ऋषिरुवाच
तदाकर्ण्य हरेर्वाक्यं महादेवः सनातनः ॥ ४४ ॥
कुपितः केतकीं प्राह मिथ्यावादिनि मा वद ।
गच्छतो मध्यतः प्राप्ता पतिता मस्तकान्मम ॥ ४५ ॥
मिथ्याभिभाषिणी त्यक्ता मया त्वं सर्वदैव हि ।
ब्रह्मा लज्जापरो भूत्वा ननाम मधुसूदनम् ॥ ४६ ॥
शिवेन केतकी त्यक्ता तद्दिनात्कुसुमेषु वै ।
एवं मायाबलं विद्धि ज्ञानिनामपि मोहदम् ॥ ४७ ॥
अन्येषां प्राणिनां राजन् का वार्ता विभ्रमं प्रति ।
देवानां कार्यसिद्ध्यर्थं सर्वदैव रमापतिः ॥ ४८ ॥
दैत्यान्वञ्चयते चाशु त्यक्त्वा पापभयं हरिः ।
अवतारकरो देवो नानायोनिषु माधवः ॥ ४९ ॥
त्यक्त्वानन्दसुखं दैत्यैर्युद्धं चैवाकरोद्विभुः ।
नूनं मायाबलं चैतन्माधवेऽपि जगद्‌गुरौ ॥ ५० ॥
सर्वज्ञे देवकार्यांशे का वार्तान्यस्य भूपते ।
ज्ञानिनामपि चेतांसि परमा प्रकृतिः किल ॥ ५१ ॥
बलादाकृष्य मोहाय प्रयच्छति महीपते ।
यया व्याप्तमिदं सर्वं भगवत्या चराचरम् ॥ ५२ ॥
मोहदा ज्ञानदा सैव बन्धमोक्षप्रदा सदा ।

राजोवाच
भगवन्ब्रूहि मे तस्याः स्वरूपं बलमुत्तमम् ॥ ५३ ॥
उत्पत्तिकारणं वापि स्थानं परमकं च यत् ।
ऋषिरुवाच
न चोत्पत्तिरनादित्वान्नृप तस्याः कदाचन ॥ ५४ ॥
नित्यैव सा परा देवी कारणानां च कारणम् ।
वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप ॥ ५५ ॥
शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा ।
चिच्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव हि ॥ ५६ ॥
आविर्भावतिरोभावौ देवानां कार्यसिद्धये ।
यदा स्तुवन्ति तां देवा मनुजाश्च विशाम्पते ॥ ५७ ॥
प्रादुर्भवति भूतानां दुःखनाशाय चाम्बिका ।
नानारूपधरा देवी नानाशक्तिसमन्विता ॥ ५८ ॥
आविर्भवति कार्यार्थं स्वेच्छया परमेश्वरी ।
दैवाधीना न सा देवी यथा सर्वे सुरा नृप ॥ ५९ ॥
न कालवशगा नित्यं पुरुषार्थप्रवर्तिनी ।
अकर्ता पुरुषो द्रष्टा दृश्यं सर्वमिदं जगत् ॥ ६० ॥
दृश्यस्य जननी सैव देवी सदसदात्मिका ।
पुरुषं रञ्जयत्येका कृत्वा ब्रह्माण्डनाटकम् ॥ ६१ ॥
रञ्जिते पुरुषे सर्वं संहरत्यतिरंहसा ।
तया निमित्तभूतास्ते ब्रह्मविष्णुमहेश्वराः ॥ ६२ ॥
कल्पिताः स्वस्वकार्येषु प्रेरिता लीलया त्वमी ।
स्वांशं तेषु समारोप्य कृतास्ते बलवत्तराः ॥ ६३ ॥
दत्ताश्च शक्तयस्तेभ्यो गीर्लक्ष्मीर्गिरिजा तथा ।
ते तां ध्यायन्ति देवेशा पूजयन्ति परां मुदा ॥ ६४ ॥
ज्ञात्वा सर्वेश्वरीं शक्तिं सृष्टिस्थितिविनाशिनीम् ।
एतत्ते सर्वमाख्यातं देवीमाहात्म्यमुत्तमम् ।
मम बुद्ध्यनुसारेण नान्तं जानामि भूपते ॥ ६५ ॥


भुवनसुंदरीचे महातप -

राजा सुरथ नम्रतापूर्वक म्हणाला, "हे मुनिश्रेष्ठा, हा वैश्य माझा मित्र झाला आहे. पण आमच्या दोघांच्याही मनांतून काळजीचे निवारण होत नाही. त्यामुळे देहाला निद्रासुख प्राप्त होत नाही. हे सर्व जगत् स्वप्नवत आहे. आप्तेष्ट, स्वकीय यांच्या चिंतेमुळे मनात पीडा होत आहे. वस्तुत: हा भ्रम आहे हे मला समजते. पण मोह सुटत नाही. याचे कारण काय ?"

हे राजाचे भाषण ऐकून मुनिश्रेष्ठ सुमेधाऋषी यांनी त्याला शोक व मोहनाश करणारे उत्कृष्ट ज्ञान सांगितले. ते म्हणाले, "हे राजा, या सर्वांचे कारण ती भुवनेश्वरीच आहे. तीच सर्व प्राणिमात्रांत वास करते. सर्व देव, पशु, पक्षी, वृक्ष, लता हे सर्व मायेने व्याप्त आहेत. ज्ञानी जनांची अंतःकरणेही ती सर्वदा मोहित करते. ब्रह्मा विष्णु महेश हे ज्ञानी असूनही मायेने मोहित होतात व जगात भ्रमण करीत असतात. आहे. देवांप्रमाणे ती दैवाधीन नाही. ती स्वेच्छेने सर्व काही करीत असते. ती कालाधीन असून जगज्जननी व सदसद्‌रूप आहे.

तीच ब्रह्मरूपी नाटक करून पुरुषांचे रंजन करीत असते. तसेच परमपुरुषाच्या रंजनासाठी ती विश्वाचा संसारही करते. ब्रह्मा-विष्णु-महेश हे निमित्त म्हणून तिने उत्पन्न केले आहेत. आपल्या शक्तीचा अंश त्यांच्या ठिकाणी ठेवून त्यांना तिने बलशाली केले आहे. सरस्वती, लक्ष्मी, गिरिजा या शक्ती तिने त्या तिघांना अर्पण केल्यामुळे ते तिघेही जगतांची उत्पत्ती, स्थिती, लय करण्यास समर्थ होतात. पण हे सर्व घडवणारी ती सर्वेश्वरी देवीच आहे.

हे राजा, मी हे देवीचे माहात्म्य तुला जरी सांप्रत निवेदन केले असले तरी अद्यापीही मला याचा अंत लागलेला नाही."




इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
पञ्चमस्कन्धे देवीमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
अध्याय तेहतिसावा समाप्त

GO TOP