ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - अष्टत्रिंशोऽध्यायः
श्रीलक्ष्मीकवचवर्णनम् -
नारायण उवाच
सुचन्द्रं पतिते ब्रह्मन् राजेन्द्राणां शिरोमणौ ।
अगमत्पुष्कराक्षस्तु सेनात्र्यक्षौहिणीयुतः ॥ १ ॥
सूर्यवंशोद्भवो राजा सुचन्द्रतनयो महान् ।
महालक्ष्मीसेवकश्च लक्ष्मीवान् सूर्यसंनिभः ॥ २ ॥
महालक्ष्म्याश्च कवचं गले यस्य मनोहरम् ।
परमैश्वर्यसंयुक्तस्त्रैलोक्यविजयी ततः ॥ ३ ॥
तं दृष्ट्वा भ्रातरः सर्वे रैणुकेयस्य धीमतः ।
आययुः समरं कर्तुं नानाशस्त्रास्त्रपाणयः ॥ ४ ॥
राजेन्द्रः शरजालेन च्छादयामास तांस्तथा ।
चिच्छिदुः शरजालं च ते वीराश्चैव लीलया ॥ ५ ॥
चिच्छिदुः स्यन्दनं राज्ञस्ते वीराः पञ्चबाणतः ।
सारथिं पञ्चबाणेन रथाश्वं दशबाणतः ॥ ६ ॥
तद्धनुः सप्तबाणेन तूर्णं वै पञ्चबाणतः ।
चिच्छिदुस्तद्भ्रातृवर्गान्विप्राः शंकरशूलतः ॥ ७ ॥
ते च त्र्यक्षौहिणीं सेनां निजघ्नुश्चापि लीलया ।
हन्तुं नृपेन्द्र ते वीराः शिवशूलं निचिक्षिपुः ।
गले बभूव तच्छू राज्ञः पुष्करमालिका ॥ ८ ॥
शक्तिं च परिघं चैव भुशुण्डी मुद्गरं तथा ।
गदा च चिक्षिपुर्विप्राः कोपेन ज्वलदग्नयः ॥ ९ ॥
तानि शस्त्राणि चूर्णानि क्षमाभृतो देहयोगतः ।
विस्मिता मातरः सर्वे भृगोरेव महामुने ॥ १० ॥
रथं धनुश्च शस्त्राणि चास्त्राणि विविधानि च ।
सेनां प्रस्थापयामास कार्तवीर्यार्जुनः स्वयम् ॥ ११ ॥
राजा स्यन्दनमारुह्य पुष्कराक्षो महाबलः ।
चकार शरजालं च महाघोरतरं मुने ॥ १२ ॥
चिच्छिदुः शरजालं च ते वीराः शस्त्रपाणयः ।
राजा प्रस्वापनेनैव निद्रितांस्तांश्चकार ह ॥ १३ ॥
भ्रातृंश्च निद्रितान्दृष्ट्वा जामदग्न्यो महाबलः ।
क्षतविक्षतसर्वाङ्गान्बोधयामास तत्त्वतः ॥ १४ ॥
बोधयित्वा तान्निवार्य जगाम रणमूर्धनि ।
चिक्षेप पर्शुं कोपेन शीघ्रं राजजिघांसया ॥ १५ ॥
छित्त्वा राज्ञः किरीटं च पर्शुर्भूमौ पपात ह ।
जग्राह परशुं शीघ्रं जामदग्न्यो महाबलः ॥ १६ ॥
तदा शंकरशूलं च चिक्षिपे मन्त्रपूर्वकम् ।
नृपस्य कुण्डलं छित्त्वा जगाम शिवसंनिधिम् ॥ १७ ॥
राजा निहन्तुं तं रामं शरजालं चकार ह ।
चिच्छेद शरजालं च रैणुकेयश्च लीलया ॥ १८ ॥
क्रमेण राजा नानास्त्रं चिक्षिपे मन्त्रपूर्वकम् ।
तच्चिच्छेद क्रमेणैव भृगुः शस्त्रभृतां वरः ॥ १९ ॥
भृगृश्चिक्षेप नानास्त्रं महासंधानपूर्वकम् ।
तच्चिच्छेद महाराजः संधानेनैव लीलया ॥ २० ॥
रामश्चिक्षेप संधाय ब्रह्मास्त्रं मन्त्रपूर्वकम् ।
राजा निर्वापणं चक्रे संधानेनैव लीलया ॥ २१ ॥
सर्वाण्यस्त्राणि शस्त्राणि रामः पाशुपतं विना ।
चिक्षेप कोपविभ्रान्तो भूपश्चिच्छेद तानि च ॥ २२ ॥
रामः स्नात्वा शिवं नत्वाऽऽददे पाशुपतं मुने ।
नारायणश्च भगवानवोचद्विप्ररूपधृक् ॥ २३ ॥
वृद्धब्राह्मण उवाच
किं करोषि भृगो वत्स त्वमेव ज्ञानिनां वरः ।
नरं हन्तुं पाशुपतं कोपात्किं क्षिपसि भ्रमात् ॥ २४ ॥
विश्वं पाशुपतेनैव भवेद्भस्म च सेश्वरम् ।
सर्वघ्नं स्याच्छस्त्रमिदं विना श्रीकृष्णमीश्वरम् ॥ २५ ॥
अहो पाशुपतं जेतुं नालमेव सुदर्शनम् ।
हरेः सुदर्शनं चैव सर्वास्त्रपरिमर्दकम् ॥ २६ ॥
खट्वाङ्गिनः पाशुपतं हरेरेव सुदर्शनम् ।
एते प्रधाने सर्वेषामस्त्राणां च जगत्त्रये ॥ २७ ॥
त्यज पाशुपतं ब्रह्मन्मदीयं वचनं शृणु ।
यथा जेष्यसि राजानं पुष्कराक्षं महाबलम् ॥ २८ ॥
कार्तवीर्यमजेतारं यथा जेष्यसि सांप्रतम् ।
श्रूयतां सावधानेन तत्सर्वं कथयामि ते ॥ २९ ॥
महालक्ष्म्याश्च कवचं त्रिषु लोकेषु दुर्लभम् ।
भक्त्या च पुष्कराक्षेण धृतं कण्ठे विधानतः ॥ ३ ० ॥
परं दुर्गतिनाशिन्याः कवचं परमाद्भुतम् ।
धृतं च दक्षिणे बाहौ पुष्कराक्षसुतेन च ॥ ३१ ॥
कवचस्य प्रभावेण विश्वं जेतुं क्षमौ च तौ ।
को जेता च त्रिभुवने देहे च कवचे स्थिते ॥ ३२ ॥
अहं यास्यामि भिक्षार्थं संनिधाने तयोर्मुने ।
करिष्यामि च तद्भिक्षां प्रतिज्ञासफलाय ते ॥ ३३ ॥
ब्राह्मणस्य वचः श्रुत्वा रामः संत्रस्तमानसः ।
उवाच ब्राह्मणं वृद्धं हृदयेन विदूयता ॥ ३४ ॥
परशुराम उवाच
न जानामि महाप्राज्ञ कस्त्वं ब्राह्मणरूपधृक् ।
शीघ्रं च ब्रूहि मां मूढं तदा गच्छ नृपान्तिकम् ॥ ३५ ॥
जामदग्न्यवचः श्रुत्वा प्रहस्य ब्राह्मणः स्वयम् ।
उक्त्वा चाहं विष्णुरिति ययौ भिक्षितुमीश्वरः ॥ ३६ ॥
गत्वा तयोः संनिधानं ययाचे कवचे च तौ ।
ददतुस्तौ च कवचे विष्णवे विष्णुमायया ॥
गृहीत्वा कवचे विष्णुवै कुण्ठं निर्जगाम सः ॥ ३७ ॥
नारद उवाच
महालक्ष्म्याश्च कवचं केन दत्तं महामुने ।
पुष्कराक्षाय भूपाय श्रोतु कौतुहलं मम ॥ ३८ ॥
कवचं चापि दुर्गायाः पुष्कराक्षसुताय च ।
दुर्लभं केन वादत्तं तद्भवान्वक्तुमर्हति ॥ ३९ ॥
कवचं चापि किं भूतं तयोर्वा तस्य किं फलम् ।
मन्त्रौ तु किंप्रकारौ च तन्मे ब्रूहि जगद्गुरो ॥ ४० ॥
नारायण उवाच
दत्तं सनत्कुतरेण पुष्कराक्षाय धीमते ।
महालक्ष्म्याश्च कवचं मन्त्रश्चापि दशाक्षरः ॥ ४१ ॥
स्तवनं चापि गोप्यं वै प्रोक्तं तच्चरितं च यत् ।
ध्यानं च सामवेदोक्तं पूजां चैव मनोहराम् ॥ ४२ ॥
दुर्गायाश्चापि कवचं दत्तं दुर्वासत्ता पुरा ।
स्तवनं चातिगोप्यं च मन्त्रश्चापि दशाक्षरः ॥ ४३ ॥
पश्चाच्छ्रोष्यसि तत्सर्वं देव्याश्च परमाद्भुतम् ।
महायुद्धसमारम्भे दत्तं प्रार्थनया च यत् ॥ ४४ ॥
महालक्ष्म्याश्च मन्त्रं च शृणु तं कथयामिते ।
ॐ श्रीं कमलवासिन्यै स्वाहेति परमाद्भुतम् ॥ ४५ ॥
ध्यानं च सामवेदोक्तं शृणु पूजाविधिं मुने ।
दत्तं तस्मै कुमारेण पुष्कराक्षाय धीमते ॥ ४६ ॥
सहस्रदलपद्मस्थां पद्मनाभप्रियां सतीम् ।
पद्मालयां षद्मवक्त्रां पद्मपत्राभलोचनाम् ॥ ४७ ॥
पद्मषुष्पप्रिया पद्मपुष्पतल्पाधिशायिनीम् ।
पद्मिनीं पद्महस्तां च पद्ममालाविभूषिताम् ॥ ४८ ॥
पद्मभूषणभृषाढ्यां पद्मशोभाविवधिनीम् ।
पद्माटवीं प्रपश्यन्तीं सस्मितां तां भजे मुदा ॥ ४९ ॥
चन्दनाष्टदले पद्मे पद्मपुष्पेण पूजयेत् ।
गणं संपूज्य दत्त्वा चैवोपचारांश्च षोडश ॥ ५ ० ॥
ततः स्तुत्वा च प्रणमेत्साधको भक्तिपूर्वकम् ।
कवचं श्रूयतां मह्मन्सर्वसारं वदामि ते ॥ ५१ ॥
नारायण उवाच
शृणु विप्रेन्द्र पद्मायाः कवचं परमं शुभम् ।
पद्मनाभेन यद्दत्तं ब्रह्मणे नाभिपद्मके ॥ ५२ ॥
संप्राप्य कवचं ब्रह्मा तत्पद्मे ससृजे जगत् ।
पद्मालयाप्रसादेन सलक्ष्मीको बभूव सः ॥ ५३ ॥
पद्मालयावरं प्राप्य पाद्मश्च जगतां प्रभुः ।
पाद्येन पद्मकल्पे च कवचं परमाद्भुतम् ॥ ५४ ॥
दत्तं सनत्कुमाराय प्रियपुत्राय धीमते ।
कुमारेण च यद्दत्तं पुष्कराक्षाय नारद ॥ ५५ ॥
यद्धृत्वा पठनाद्ब्रह्मा सर्वसिद्धेश्वरो महान् ।
परमैश्वर्यसंयुक्तः सर्वसंपत्समन्वितः ॥५६॥
यद्धृत्वा च धनाध्यक्षः कुबेरश्च धनाधिपः ।
स्वायंभुवो मनुः श्रीमान्यठनाद्धारणाद्यतः ॥५७॥
प्रियव्रतोत्तानपादौ लक्ष्मीवन्तौ यतो मुने ।
पृथुः पृथ्वीपतिः सद्यो ह्यभवद्धारणाद्यतः ॥५८॥
कवचस्य प्रसादेन स्वयं दक्षः प्रजापतिः ।
धर्मश्च कर्मणां साक्षी पाता यस्य प्रसादतः ॥५९॥
यद्धृत्वा दक्षिणे बाहौ विष्णुः क्षीरोदशायितः ।
भक्त्या विधत्ते कण्ठे च शेषो नारायणांशकः ॥६०॥
यद्धृत्वा वामनं लेभे कश्यपश्च प्रजापतिः ।
सर्वदेवाधिपः श्रीमान्महेन्द्रो धारणाद्यतः ॥६१॥
राजा मरुत्तो भगवानभवद्धारणाद्यतः ।
त्रैलोक्याधिपतिः श्रीमान्नहुषो यस्य धारणात् ॥६२॥
विश्वं विजिग्ये खट्वाङ्गः पठनाद्धारणाद्यतः ।
मुचुकुन्दो यतः श्रीमान्मान्धातृतनयो महान् ॥६३॥
सर्वसंपत्प्रदस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च बृहती देवी पद्मालया स्वयम् ॥६४॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥६५॥
ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम् ।
श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः ॥६६॥
ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदाऽवतु ।
ॐ श्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम् ॥६७॥
ॐ श्रीं पद्मालयायै च स्वाहा दन्तान्तदाऽवतु ।
ॐ श्रीं कृष्णप्रियायै च दन्तरन्ध्रं सदाऽवतु ॥६८॥
ॐ श्रीं नारायणेशायै मम कण्ठं सदाऽवतु ।
ॐ श्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु ॥६९॥
ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु ।
ॐ ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु ॥७०॥
ॐ श्रीं मों कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु ।
ॐ ह्रीं श्रीं श्रियै स्वाहा च मम हस्तौ सदाऽवतु ॥७१॥
ॐ श्रीनिवासकान्तायै मम पादौ सदाऽवतु ।
ॐ ह्रीं श्रीं श्रियै स्वाहा सर्वाङ्गं मे सदाऽवतु ॥७२॥
प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया ।
पद्मा मां दक्षिणे पातु नैर्ऋत्यां श्रीहरिप्रिया ॥७३॥
पद्मालया पश्चिमे मां वायव्यां पातु सा स्वयम् ।
उत्तरे कमला पातु चैशान्यां सिन्धुकन्यका ॥७४॥
नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु ।
संततं सर्वतः पातु विष्णुप्राणाधिका मम ॥७५॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
सर्वैश्वर्यप्रदं नाम कवचं परमाद्भतम् ॥७६॥
सुवर्णपर्वतं दत्त्वा मेरुतुल्यं द्विजातये ।
यत्फलं लभते धर्मी कवचेन ततोऽधिकम् ॥७७॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ स श्रीमान्प्रतिजन्मनि ॥७८॥
अस्ति लक्ष्मीगृहे तस्य निश्चला शतपूरुषम् ।
देवेन्द्रैश्चासुरेन्द्रैश्च सोऽवध्यो निश्चितं भवेत् ॥८९॥
स सर्वपुण्यवान्धीमान्सर्वयज्ञेषु दीक्षितः ।
स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले ॥८०॥
यस्मै कस्मै न दातव्यं लोभमोहभयैरपि ।
गुरुभक्ताय शिष्याय शरण्याय प्रकाशयेत् ॥८१॥
इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्रसूम् ।
कोटिसंख्यं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥८२॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे श्रीलक्ष्मीकवचवर्णनं
नामाष्टत्रिंशोऽध्यायः ॥३८॥
GO TOP
|