ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - एकोनविंशोऽध्यायः

विघ्नकारणकथनम् -


नारद उवाच
किं स्तोत्रं कवचं नाथ ब्रह्मणा लोकसाक्षिणा ।
दानवाभ्यां पुरा दत्तं सूर्यस्य परमात्मनः ॥ १ ॥
किं वा पूजाविधानं वा कं मन्त्रं व्याधिनाशनम् ।
सर्वं चास्य महाभाग तन्मे त्वं वक्तुमर्हसि ॥ २ ॥
सूत उवाच
नारदस्य वचः श्रुत्वा भगवान्करुणानिधिः ।
स्तोत्रं च कवचं मन्त्रमूचे तत्पूजनक्रमम् ॥ ३ ॥
नारायण उवाच
शृणु नारद वक्ष्यामि सूर्यपूजाविधेः क्रमम् ।
स्तोत्रं च कवचं सर्वं पापव्याधिविमोचकम् ॥ ४ ॥
सुमालिमालिनौ दैत्यौ व्याधिग्रस्तौ बभूवतुः ।
विधिं स स्मरतुः स्तोतुं शिवमन्त्रप्रदायकम् ॥ ५ ॥
ब्रह्मा गत्वा च वैकुण्ठं पप्रच्छ कमलापतिम् ।
शिवं तत्रैव संपश्यन्वसन्तं हरिसंनिधौ ॥ ६ ॥
ब्रह्मोवाच
सुमालिमालिनौ दैत्यौ व्याधिग्रस्तौ बभूवतुः ।
क उपायो वद हरे तयोर्व्याधिविनाशने ॥ ७ ॥
विष्णुरुवाच
कृत्वा सूर्यस्य सेवां च पुष्करे पूर्णवत्सरम् ।
व्याधिहन्तुर्मदंशस्य तौ चमुक्तौ भविष्यतः ॥ ८ ॥
शंकर उवाच
सूर्यस्तोत्रं च कवचं मन्त्रं कल्पतरुं परम् ।
देहि ताभ्यां जगत्कान्त व्याधिहन्तुर्महात्मनः ॥ ९ ॥
आवां संपत्प्रदातारौ सर्वदातां हरिः स्वयम् ।
व्याधिहन्ता दिनकरो यस्य योविषयो विधे ॥ १० ॥
तयोरनुमति प्राप्य ययौ दैत्यगृहं विधिः ।
तदा प्रणम्य तं दृष्ट्‍वा तस्मै ददतुरासनम् ॥ ११ ॥
तावुवाच स्वयं ब्रह्मा रोगग्रस्तौ दयानिधिः ।
स्तब्धावाहाररहितौ पूयदुर्गन्धसंयुतौ ॥ १२ ॥
ब्रह्मोवाच
गृहीत्वा कवचं स्तोत्रं मन्त्रं पूजाविधिक्रमम् ।
गत्वा हि पुष्करं वत्सौ भजथः प्रणतौ रविम् ॥ १३ ॥
तावचतुः
भजावः केन विधिना केन मन्त्रेण वा विधे ।
किं स्तोत्रं कवचं किंवा तदावाभ्यां वदाधुना ॥ १४ ॥
ब्रह्मोवाच
कृत्वा त्रिकालं स्नानं च मन्त्रेणानेन भास्करम् ।
संसेव्य भास्करं भक्त्या नीरुजौ च भविष्यथः ॥ १५ ॥
ॐ ह्रीं नमो भगवते सूर्याय परमात्मने ।
स्वाहेत्यनेन मन्त्रेण सावधानं दिवाकरम् ॥ १६ ॥
संपूज्य दत्त्वा भक्त्या वै चोपहारांस्तु षोडश ।
एवं संवत्सरं यावद्ध्रुव मुक्तौ भविष्यथः ॥ १७ ॥
अपूर्वं कवचं तस्य युवाभ्यां प्रददाम्यहम् ।
यद्‌दत्तं गुरुणा पूर्वमिन्द्राय प्रीतिपूर्वकम् ॥ १८ ॥
तत्सहस्रभगाङ्‌गाय शापेन गौतमस्य च ।
अहल्याहरणेनैव पापयुक्ताय संकटे ॥ १९ ॥
बृहस्पतिरुवाच
इन्द्र शृणु प्रवक्ष्यामि कवचं परमाद्‌भुतम् ।
यद्धृत्वा मुनयः पूता जीवन्मुक्ताश्च भारते ॥ २० ॥
कवचं बिभ्रतो व्याधिर्न भियाऽऽयाति संनिधिम् ।
यथा दृष्ट्‍वा वैनतेयं पलायन्ते भुजंगमाः ॥ २१ ॥
शुद्धाय गुरुभक्ताय स्वशिष्याय प्रकाशयेत् ।
खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ २२ ॥
जगद्विलक्षणस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री देवो दिनकरः स्वयम् ॥ २ ३ ॥
व्याधिप्रणाशे सौन्दर्ये विनियोगः प्रकीर्तितः ।
सद्यो रोगहरं सारं सर्वपापप्रणाशनम् ॥ २४ ॥
ॐ क्लीं ह्रीं श्रीं श्रीसूर्याय स्वाहा मे पातु मस्तकम् ।
अष्टादशाक्षरो मन्त्रः कपालं मे सदाऽवतु ॥ २५ ॥
ॐ ह्रीं ह्रीं श्रीं श्रीं सूर्याय स्वाहा मे पातु नासिकाम् ।
चक्षुर्मे पातु सूर्यश्च तारकं च विकर्तनः ॥ २६ ॥
भास्करो मेऽधरं पातु दन्तान्दिनकरः सदा ।
प्रचण्डः पातु गण्डं मे मार्तण्डः कर्णमेव च ॥
मिहिरश्च सदा स्कन्धे जङ्‍घे पूषा सदाऽवतु ॥ २७ ॥
वक्षः पातु रविः शश्वन्नाभि सूर्यः स्वयं सदा ।
कङ्‌कालं मे सदा पातु सर्वदेवनमस्कृतः ॥ २८ ॥
कर्णौ पातु सदा ब्रध्नः पातु पादौ प्रभाकरः ।
विभाकरो मे सर्वाङ्‌गं पातु संततमीश्वरः ॥ २९ ॥
इति ते कथितं वत्स कवचं सुमनोहरम् ।
जगद्विलक्षणं नाम त्रिजगत्सु सुदुर्लभम् ॥ ३० ॥
पुरा दत्तं च मनवे पुलस्त्येन तु पुष्करे ।
मया दत्तं च तुभ्यं तद्यस्मै कस्मै न देहि भोः ॥ ३१ ॥
व्याधितो मुच्यसे त्वं च कवचस्य प्रसादतः ।
भवानरोगी श्रीमांश्च भविष्यति न संशयः ॥ ३२ ॥
लक्षवर्षहविष्येण यत्फलं लभते नरः ।
तत्फलं लभते नूनं कवचस्यास्य धारणात् ॥ ३३ ॥
इदं कवचमज्ञात्वा यो मूढो भास्करं यजेत् ।
दशलक्षप्रजप्तोऽपि मन्त्रसिद्धिर्न जायते ॥ ३४ ॥
ब्रह्मोवाच
धृत्वेदं कवचं वत्सौ कृत्वा च स्तवनं रवेः ।
युवां व्याधिविनिर्मुक्तौ निश्चितं तु भविष्यथ ॥ ३५ ॥
स्तवनं सामवेदोक्तं सूर्यस्य व्याधिमोचनम् ।
सर्वपापहरं सारं धनारोग्यकरं परम् ॥ ३६ ॥
ब्रह्मोवाच
तं ब्रह्म परमं धाम ज्योतीरूपं सनातनम् ।
त्वामहं स्तोतुमिच्छामि भक्तानुग्रहकारकम् ॥ ३७ ॥
त्रैलोक्यलोचनं लोकनाथं पापविमोचनम् ।
तपसां फलदातारं दुःखदं पापिनां सदा ॥ ३८ ॥
कर्मानुरूपफलदं कर्मबीजं दयानिधिम् ।
कर्मरूपं क्रियारूपमरूपं कर्मबीजकम् ॥ ३९ ॥
ब्रह्मविष्णुमहेशानामंशं च त्रिगुणात्मकम् ।
व्याधिदं व्याधिहन्तारं शोकमोहभयापहम् ॥
सुखदं मोक्षदं सारं भक्तिदं सर्वकामदम् ॥ ४० ॥
सर्वेश्वरं सर्वरूपं साक्षिणं सर्वकर्मणाम् ।
प्रत्यक्षं सर्वलोकानामप्रत्यक्षं मनोहरम् ॥ ४१ ॥
शश्वद्‍रसहरं पश्चाद्‍रसदं सर्वसिद्धिदम् ।
सिद्धिस्वरूपं सिद्धेशं सिद्धानां परमं गुरुम् ॥ ४२ ॥
स्तवराजमिमं प्रोक्तं गुह्याद्‌गुह्यतरं परम् ।
त्रिसंध्यं यः पठेन्नित्यं व्याधिभ्यः स प्रमुच्यते ॥ ४३ ॥
आन्ध्यं कुष्ठं च दारिद्र्यं रोगः शोको भयं कलिः ।
तस्य नश्यति विश्वेश श्रीसूर्यकृपया ध्रुवम् ॥ ४४ ॥
महाकुष्ठी च गलितो चक्षुर्हीनो महाव्रणी ।
यक्ष्मग्रस्तो महाशूली नानाव्याधियुतोऽपि वा ॥ ४५ ॥
मासं कृत्वा हविष्यान्नं श्रुत्वाऽतो मुच्यते ध्रुवम् ।
स्नानं च सर्वतीर्थानां लभते नात्र संशयः ॥ ४६ ॥
पुष्करं गच्छतं शीघ्रं भास्करं भजत सुतौ ।
इत्येवमुक्त्वा स विधिर्जगाम स्वालयं मुदा ॥ ४७ ॥
तौ निषेव्य दिनेशं तं नीरुजौ संबभूवतुः ।
इत्येवं कथितं वत्स किं भूयः श्रोतुमिच्छसि ॥ ४८ ॥
सर्वविघ्नहरं सारं विघ्नेशं विघ्ननाशनम् ।
स्तोत्रेणानेन तं स्तुत्वा मुच्यते नात्र संशयः ॥ ४९ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे नारदनारायणसंवादे
विघ्नकारणकथनं नामैकोनविंशोऽध्यायः ॥ १९ ॥


GO TOP