ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - त्रिचत्वारिंशोऽध्यायः

षष्ठ्युपाख्याने षष्ठीदेव्युत्पत्तितत्पूजास्तोत्रादिकयनम् -


नारद उवाच
अनेकासां च देवीनां श्रुतमाख्यानमुत्तमम् ।
अन्यासां चरितं ब्रह्मन्वद वेदविदां वर ॥ १ ॥
नारायण उवाच
सर्वासां चरितं विप्र वेदेष्वस्ति पृथक्पृथक् ।
पूर्वोक्तानां च देवीनां त्वं कासां श्रोतुमिच्छसि ॥ २ ॥
नारद उवाच
षष्ठी मङ्‌गलचण्डी च मनसा प्रकृतेः कला ।
उत्पत्तिमासां चरितं श्रोतुमिच्छामि तत्त्वतः ॥ ३ ॥
नारायण उवाच
षष्ठांशा प्रकृतेर्या च सा च षष्ठी प्रकीर्तिता ।
बालकाधिष्ठातृदेवी विष्णुमाया च बालदा ॥ ४ ॥
मातृकासु च विख्याता देवसेनाभिधा च सा ।
प्राणाधिकप्रिया साध्वी स्कन्दभार्या च सुव्रता ॥ ५ ॥
आयुःप्रदा च बालानां धात्री रक्षणकारिणी ।
सततं शिशुपार्श्वस्था योगाद्वै सिद्धियोगिनी ॥ ६ ॥
तस्याः पूजाविधौ ब्रह्मन्नितिहासविधिं शृणु ।
यच्छ्रुतं धर्ममुखतो सुखदं पुत्रदं परम् ॥ ७ ॥
राजा प्रियव्रतश्चासीत्स्वायंभुवमनोः सुवः ।
योगीन्द्रो नोद्वहेद्‌भार्यां तपस्यासु रतः सदा ॥ ८ ॥
ब्रह्माज्ञया च यत्‍नेन कृतदारो बभूव सः ।
सुचिरं कृतदारश्च न लेभे तनयं मुने ॥ ९ ॥
पुत्रेष्टियज्ञं तं चापि कारयामास कश्यपः ।
मालिन्यै तस्य कान्तायै मुनिर्यज्ञचरुं ददौ ॥ १० ॥
भुक्त्वा चरुं च तस्याश्च सद्यो गर्भे बभूव ह ।
दधार तं च सा देवी दैवं द्वादशवत्सरम् ॥ ११ ॥
ततः सुषाव सा ब्रह्मत्कुमारं कनकप्रभम् ।
सर्वावयसंपन्नं मृतमुत्तारलोचनम् ॥ १२ ॥
तं दृष्ट्‍वा रुरुदुः सर्वा नार्यो वै बान्धवस्त्रियः ।
मूर्च्छामवाप तन्माता पुत्रशोकेन सुव्रता ॥ १३ ॥
श्मशानं च ययौ राजा गृहीत्वा बालकं मुने ।
रुरोद तत्र कान्तारे पुत्रं कृत्वा स्ववक्षसि ॥ १४ ॥
नोत्सृज्य बालकं राजा प्राणांस्त्यक्तुं समुद्यतः ।
ज्ञानयोगं विसस्मार पुत्रशोकात्सुदारुणात् ॥ १५ ॥
एतस्मिन्नन्तरे तत्र विमानं च ददर्श ह ।
शुद्धस्फटिकसंकाशं मणिराजविराजितम् ॥ १६ ॥
तेजसा ज्वलितं शश्वच्छोभितं क्षौमवाससा ।
नानाचित्रविचित्राढ्यं पुष्पमालाविराजितम् ॥ १७ ॥
ददर्श तत्र देवीं च कमनीयां मनोहराम् ।
श्वेतचम्पकवर्णाभां रम्यसुस्थिरयौवनाम् ॥ १८ ॥
ईषद्धास्यप्रसन्नास्यां रत्‍नभूषणभूषिताम् ।
कृपामयी योगसिद्धां भक्तानुग्रहकारिणीम् ॥ १९ ॥
दृष्ट्‍वा तां पुरतो राजा तुष्टाव परमादरात् ।
चकार पूजनं तस्या विहाय भुवि बालकम् ॥ २० ॥
पप्रच्छ राजा तां दृष्ट्‍वा ग्रीष्मसूर्यसमप्रभाम् ।
तेजसा ज्वलितां शान्तां कान्तां स्कन्दस्य नारद ॥ २१ ॥
प्रियव्रत उवाच
का त्वं सुशोभने कान्ते कस्य कान्ताऽसि सुव्रते ।
कस्य कन्या वरारोहे धन्या मान्या च योषिताम् ॥ २२ ॥
नृपेन्द्रस्य वचः श्रुत्वा जगन्मङ्‌गलदायिनी ।
उवाच देवसेना सा देवरक्षणकारिणी ॥ २३ ॥
देवानां दैत्यभीतानां पुरा सेना बभूव सा ।
जयं ददौ च तेभ्यश्च देवसेना च तेन सा ॥ २४ ॥
देवसेनोवाच
ब्रह्मणो मानसी कन्या देवसेनाऽहमीश्वरी ।
सृष्ट्‍वा मां मनसो धाता ददौ स्कन्दाय भूमिप ॥ २५ ॥
मातृकासु च विख्याता स्कन्दसेना च सुव्रता ।
विश्वे षष्ठीति विख्याता षष्ठांशा प्रकृतेर्यतः ॥ २६ ॥
पुत्रदाऽहमपुत्राय प्रियस्त्रीदा प्रियाय च ।
धनदा च दरिद्रेभ्यः कर्तुभ्यः शुभकर्मदा ॥ २७ ॥
सुखं दुःखं भयं शोकं हर्षं मङ्‌गलमेव च ।
संपत्तिश्च विपत्तिश्च सर्वं भवति कर्मणा ॥ २८ ॥
कर्मणा बहुपुत्री च वंशहीनश्च कर्मणा ।
कर्मणा च दरिद्रश्च धनाढ्यश्च स्वकर्मणा ॥
कर्मणा रूपवांश्चैव रोगी शश्वत्स्वकर्मणा ॥ २९ ॥
कर्मणा मृतपुत्रश्च कर्मणा चिरजीविनः ।
कर्मणा गुणवन्तश्च कर्मणा चाङ्‌गहीनकाः ॥ ३० ॥
तस्मात्कर्म परं राजन्सर्वेभ्यश्च श्रुतौ श्रुतम् ।
कर्मरूपी च भगवांस्तद्‌द्वारा फलदो हरिः ॥ ३१ ॥
इत्येवमुक्त्वा सा देवी गृहीत्वा बालकं मुने ।
महाज्ञानेन सहसा जीवयामास लीलया ॥ ३२ ॥
राजा ददर्श तं बालं सस्मितं कनकप्रभम् ।
देवसेना च पश्यन्तं नृपमम्बरमेव च ॥ ३ ३ ॥
गृहीत्वा बालकं देवी गगनं गन्तुमुद्यता ।
पुनस्तुष्टाव तां राजा शुष्ककण्ठौष्ठतालुकः ॥ ३४ ॥
नृपस्तोत्रेण सा देवी परितुष्टा बभूव ह ।
उवाच तं नृपं ब्रह्मन्वेदोक्तं कर्मनिर्मितम् ॥ ३५ ॥
देवसेनोवाच
त्रिषु लोकेषु राजा त्वं स्वायंभुवमनोः सुतः ।
मम पूजां च सर्वत्र कारयित्वा स्वयं कुरु ॥ ३६ ॥
तदा दास्यामि पुत्रं ते कुलपद्मं मनोहरम् ।
सुव्रतं नाम विख्यातं गुणवन्तं सुपण्डितम् ॥ ३७ ॥
जातिस्मरं च योगीन्द्रं नारायणपरायणम् ।
शतक्रतुकरं श्रेष्ठं क्षत्रियाणां च वन्दितम् ॥ ३८ ॥
मत्तमातङ्‌गलक्षाणां धृतवन्तं बलं शुभम् ।
धन्विनं गुणिनं शुद्धं विदुषां प्रियमेव च ॥ ३९ ॥
योगिनं ज्ञानिनं चैव सिद्धरूपं तपस्विनम् ।
यशस्विनं च लोकेषु दातारं सर्वसंपदाम् ॥ ४० ॥
इत्येवमुक्त्वा सा देवी तस्मै तद्‌बालकं ददौ ।
राजा च तं स्वीचकार तत्पूजार्थं च सुव्रतः ॥ ४१ ॥
जगाम देवी स्वर्गं च दत्त्वा तस्मै शुभं वरम् ।
आजगाम महाराजः स्वगृहं हृष्टमानसः ॥ ४२ ॥
आगत्य कथयामास वृत्तान्तं पुत्रहेतुकम् ।
तुष्टा बभूवुः संतुष्टा नरा नार्यश्च नारद ॥ ४३ ॥
मङ्‌गलं कारयामास सर्वत्र सुतहेतुकम् ।
देवीं च पूजयामास ब्राह्मणेभ्यो धनं ददौ ॥ ४४ ॥
राजा च प्रतिमासेषु शुक्लषष्ठ्यां महोत्सवम् ।
षष्ठ्या देव्याश्च यत्‍नेन कारयामास सर्वतः ॥ ४५ ॥
बालानां सूतिकागारे षष्ठाहे यत्‍नपूर्वकम् ।
तत्पूजां कारयामास चैकविंशतिवासरे ॥ ४६ ॥
बालानां शुभकार्ये च शुभान्नप्राशने तथा ।
सर्वत्र वर्धयामास स्वयमेव चकार ह ॥ ४७ ॥
ध्यानं पूजाविधानं च स्तोत्रं मत्तो निशामय ।
यच्छ्रुतं धर्मवक्त्रेण कौथुमोक्तं च सुव्रत ॥ ४८ ॥
शालग्रामे घटे वाऽथ वटमूलेऽथवा मुने ।
भित्त्यां पुत्तलिकां कृत्वा पूजयेद्वा विचक्षणः ॥ ४९ ॥
षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रताम् ।
सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम् ॥ ५० ॥
श्वेतचम्पकवर्णाभां रत्‍नभूषणभूषिताम् ।
पवित्ररूपां परमां देवसेनां परां भजे ॥ ५१ ॥
इति ध्यात्वा स्वशिरसि पुष्पं दद्यात् विचक्षणः ।
पुनर्ध्यात्वा च मूलेन पूजयेत्सुव्रतां सतीम् ॥ ५२ ॥
पाद्यार्घ्याचमनीयैश्च गन्धधूपप्रदीपकैः ।
नैवेद्यैर्विविधैश्चापि फलेन च शुभेन च ॥ ५३ ॥
मूलमों ह्रीं षष्ठीदेव्यै स्वाहेति विधिपूर्वकम् ।
अष्टाक्षरं महामन्त्रं यथाशक्ति जपेन्नरः ॥ ५४ ॥
ततः स्तुत्वा च प्रणमेद्‌भक्तियुक्तः समाहितः ।
स्तोत्रं च सामवेदोक्तं धनपुत्रफलप्रदम् ॥ ५५ ॥
अष्टाक्षरं महामन्त्रं लक्षधा यो जपेन्मुने ।
स पुत्रं लभते नूनमित्याह कमलोद्‌भवः ॥ ५६ ॥
स्तोत्रं शृणु मुनिश्रेष्ठ सर्वेषां च शुभावहम् ।
वाञ्छाप्रदं च सर्वेषां गूढं वेदे च नारद ॥ ५७ ॥
प्रियव्रत उवाच
नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः ॥ ५८ ॥
वरदायै पुत्रदायै धनदायै नमो नमः ।
सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः ॥ ५९ ॥
शक्तेः षष्ठांशरूपायै सिद्धायै च नमो नमः ।
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥ ६० ॥
पारायै पारदायै च षष्ठीदेव्यै नमो नमः ।
सारायै सारदायै च पारायै सर्वकर्मणाम् ॥ ६१ ॥
बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः ।
कल्याणदायै कल्याण्यै फलदाय च कर्मणाम् ।
प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः ॥ ६२ ॥
पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ।
देवरक्षणकारिष्यै षष्ठीदेव्यै नमो नमः ॥ ६३ ॥
शुद्धसत्त्वस्वरुयायै वन्दितायै नृणां सदा ।
हिंसाक्रोधैर्वर्जितायै षष्ठीदेव्यै नमो नमः ॥ ६४ ॥
धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ।
धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ॥ ६५ ॥
भूमिं देहि प्रजां देहि देहि विद्यां सुपूजिते ।
कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ॥ ६६ ॥
इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः ।
यशस्विनं च राजेन्द्रं षष्ठीदेवीप्रसादतः ॥ ६७ ॥
षष्ठीस्तोत्रमिदं ब्रह्मन्यः शृणोति च वत्सरम् ।
अपुत्रो लभते पुत्रं वरं सुचिरजीविनम् ॥ ६८ ॥
वर्षमेकं च या भक्त्या संयतेदं शृणोति च ।
सर्वपापाद्विनिर्मुक्ता महावन्ध्या प्रसूयते ॥ ६९ ॥
वीरपुत्रं च गुणिनं विद्यावन्तं यशस्विनम् ।
सुचिरायुष्मन्तमेव षष्ठीमातृप्रसादतः ॥ ७० ॥
काकवन्ध्या च या नारी मृतापत्या च या भवेत् ।
वर्षं श्रुत्वा लभेत्पुत्रं षष्ठीदेवी प्रसादतः ॥ ७१ ॥
रोगयुक्ते च बाले च पिता माता शृणोति च ।
मासं च मुच्यते बालः षष्ठीदेवीप्रसादतः ॥ ७२ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे षष्ठ्युपाख्याने षष्ठीदेव्युत्पत्ति-
तत्पूजास्तोत्रादिकथनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥


GO TOP